०५२ वानरैः स्वगमनहेतुकथनम्

अथ तानब्रवीत्सर्वान् विक्रान्तात् हरिपुङ्गवान् ।

इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ ४।५२।१ ॥

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ।

यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ ४।५२।२ ॥

अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे अथेत्यादि ॥ ४।५२।१,२ ॥

तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः ।

आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४।५२।३ ॥

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ ४।५२।४ ॥

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।

तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ ४।५२।५ ॥

आर्जवेन अकपटेन ॥ ४।५२।३५ ॥

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।

राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ४।५२।६ ॥

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।

सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् ॥ ४।५२।७ ॥

रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ।

सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ ४।५२।८ ॥

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।

बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥ ४।५२।९ ॥

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ।

नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ ४।५२।१० ॥

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् ।

लतापादपसञ्छन्नं तिमिरेण समावृतम् ॥ ४।५२।११ ॥

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविस्रवैः ।

कुरराः सारसाश्चैव निष्पतन्ति पतत्ित्रणः ।

साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ॥ ४।५२।१२ ॥

वीर इति । दक्षिणामाशां येन प्रस्थापिताः स राजा ऽस्तीति पूर्वेणान्वयः ॥ ४।५२।६१२ ॥

तेषामपि हि सर्वेषामनुमानमुपागतम् ।

गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ॥ ४।५२।१३ ॥

ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ।

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ ४।५२।१४ ॥

अनुमानमुपागतं जलचरसत्त्वदर्शनेन जलबुद्धिर्जातेत्यर्थः । यद्वा तेषामपीति भर्तृकार्यत्वरान्विताः सन्तो गच्छामः, बिलद्वारमिति शेषः । बिलं प्रविशाम इति अनुमानम् अङ्गीकरणम् ॥ ४।५२।१३,१४ ॥

एतन्नः कार्यमेतेन कृत्येन वयमागताः ।

त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ॥ ४।५२।१५ ॥

आतिथ्यधर्मदत्तानि मूलानि च फलानि च ।

अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ॥ ४।५२।१६ ॥

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ।

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ॥ ४।५२।१७ ॥

एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा ।

प्रत्युवाच ततः सर्वानिदं वानरयूथापान् ॥ ४।५२।१८ ॥

परिद्यूनाः परिक्षीणाः ॥ ४।५२।१५१८ ॥

सर्वेषां परितुष्टा ऽस्मि वानराणां तरस्विनाम् ।

चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥ ४।५२।१९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥

सर्वेषामिति । सम्बन्धसामान्ये षष्ठी ॥ ४।५२।१९ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥