इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम् । त्ित्र त्त्र
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ ४।५१।१ ॥
अथ स्वयम्प्रभया ऋक्षबिलवृत्तान्तोक्तिरेकपञ्चाशे इत्युक्त्वेत्यादि ॥ ४।५१।१ ॥
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ ४।५१।२ ॥
परिखिन्नाः अध्वश्रमखिन्नाः ॥ ४।५१।२ ॥
महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः ।
इमास्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ४।५१।३ ॥
क्षुत्पिपासा परिश्रान्तत्वेपि पिपासैव प्रवेशहेतुरित्याशयेनोक्तं पिपासिता इति । भावान् पदार्थान् ॥ ४।५१।३ ॥
दृष्ट्वा वयं प्रव्यथिताः सन्भ्रान्ता नष्टचेतसः ।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ ४।५१।४ ॥
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ४।५१।५ ॥
प्रव्यथिताः किमिदमसुरादिमायेति सञ्जातव्यथाः । नष्टचेतसः कर्तव्यबुद्धिरहिताः ॥ ४।५१।४,५ ॥
तपनीयगवाक्षणि मणिजालावृतानि च ।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः ॥ ४।५१।६ ॥
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा ।
काञ्चनानि च पद्मानि जातानि विमले जले ॥ ४।५१।७ ॥
मणिजलावृतानि रत्नमयजालकानि । जालकगवाक्षयोर्भेद उक्तः ॥ ४।५१।६,७ ॥
कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः ।
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ ४।५१।८ ॥
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ।
एवमुक्ता हनुमता तापसी धर्मचारिणी ।
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ॥ ४।५१।९ ॥
आत्मानं त्वाम् । अनुभावं प्रभावम् । कस्य चैतत्तपोबलं, तच्चेत्यर्थः ॥ ४।५१।८,९ ॥
मयो नाम महातेजा मायावी दानवर्षभः ।
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ॥ ४।५१।१० ॥
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ।
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥ ४।५१।११ ॥
स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
पितामहाद्वरं लेभे सर्वमौशनसं धनम् ॥ ४।५१।१२ ॥
वनं विधाय बलवान् सर्वकामेश्वरस्तदा ।
उवास सुखितः कालं कञ्चिदस्मिन् महावने ॥ ४।५१।१३ ॥
मयो नाम त्रिपुराधिपतिः त्रिपुरे नष्टे स्वरक्षणार्थमिदं बिलं कृतवानिति मात्स्यपुराणे त्रिपुरदहनप्रस्तावे ऽभिहितम् । मायया विचित्रशक्या । मायावी मायायुक्तः । दानवर्षभ इत्यनेन नायमसुरतक्षा मय इति सूचितम् ॥ ४।५१।१०१३ ॥
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ।
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः ॥ ४।५१।१४ ॥
तम् स्वपुत्रीं मन्दोदरीं रावणाय दत्तवन्तम् एकान्ते हेमायां सक्तं विदित्वा ईशः त्रैलोक्याधिपतिः अशनिं वज्रं गृहीत्वा जघान ॥ ४।५१।१४ ॥
इदं च ब्रह्माणा दत्तं हेमायै वनमुत्तमम् ।
शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् ॥ ४।५१।१५ ॥
दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा ।
इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ ४।५१।१६ ॥
इदं चेति । मयनाशानन्तरम् इदं वनं ब्रह्मणा हेमायै दत्तम् ॥ ४।५१।१५,१६ ॥
मम प्रियसखी हेमा नृत्तगीतविशारदा ।
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ॥ ४।५१।१७ ॥
ममेति । सेदानीं ब्रह्मसदनं गतेत्याशयेनाह नृत्तेति ॥ ४।५१।१७ ॥
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ ।
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥ ४।५१।१८ ॥
किं कर्यं किं प्रयोजनम् । कस्य हेतोः कस्मात् प्रयोजनात् ॥ ४।५१।१८ ॥
इमान्यभ्यवहार्याणि मूलानि च फलानि च ।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ॥ ४।५१।१९ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
अस्मिन् सर्गे सार्धैकोनविंशतिश्लोकाः ॥ ४।५१।१९ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥