०५० हनुमदादिभिः वृक्षबिलप्रवेशः

सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान् कपिः ।

विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ ४।५०।१ ॥

सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा ।

विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ ४।५०।२ ॥

अथ ऋक्षबिले स्वयम्प्रभादर्शनं पञ्चाशे सहेत्यादि । नगेन्द्रस्य शार्दूलजुष्टेषु विषमेषु विषमप्रदेशु शिलाः महाप्रस्रवणेषु सरितश्च विचिनोतिस्मेति पूर्वेणान्वयः ॥ ४।५०।१,२ ॥

आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ।

तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ ४।५०।३ ॥

कालः सुग्रीवोक्तमासः । “मासः पूर्णो बिलस्थानाम्” इत्युत्तरत्राङ्गदवचनस्यबिल एवान्यो मासो गत इत्यर्थो वक्ष्यते ॥ ४।५०।३ ॥

स हि देशो दुरन्वेषो गुहागहनवान् महान् ॥ ४।५०।४ ॥

ननु विचेतव्यप्रदेशेषु बहुषु विद्यमानेषु कथमत्रैव मासं क्षपितवन्त इत्याशङ्क्याह स हीति ॥ ४।५०।४ ॥

तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ।

परस्परेण हनुमानन्योन्यस्याविदूरतः ॥ ४।५०।५ ॥

तत्रेति । सङ्गमय्येत्यध्याहार्यम् । वायुसुतः हनुमान् । अन्योन्यस्याविदूरतः परस्परेण सङ्गमय्य सर्वं पर्वतं विचिनोति स्मेति सम्बन्धः ॥ ४।५०।५ ॥

गजो गवाक्षो गवयः शरभो गन्धमादनः ।

मैन्दश्च द्विविदश्चैव सुषेणो जम्बवान्नलः ॥ ४।५०।६ ॥

अङ्गदो युवराजश्च तारश्च वनगोचरः ।

गिरिजालावृतान्देशान् मार्गित्वा दक्षिणां दिशम् ।

विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ ४।५०।७ ॥

गज इत्यादि । चकाराद्धनूमांश्च । गजादयः गिरिजालावृतान् देशान्मार्गित्वा ततो दक्षिणां दिशं विचिन्वन्तः तत्र विवृतं विस्तृतं बिलं ददृशुरिति सम्बन्धः ॥ ४।५०।६,७ ॥

दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।

क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः ।

अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ॥ ४।५०।८ ॥

दानवेन मयेन । ऋक्षविलं नाम ऋक्षबिलमिति प्रसिद्धम् । महाबिलं ददृशुरिति पुनरुक्तिर्गुणान्तरविधानाय ॥ ४।५०।८ ॥

ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ।

जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ ४।५०।९ ॥

निष्क्रमन् निरक्रमन् ॥ ४।५०।९ ॥

ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम् ।

विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ॥ ४।५०।१० ॥

दुरतिक्रमं दुष्प्रवेशम् ॥ ४।५०।१० ॥

सञ्जातपरिशङ्कास्ते तद्विलं प्लवगोत्तमाः ।

अभ्यपद्यन्नसंहृष्टास्तेजोवन्तो महाबलाः ॥ ४।५०।११ ॥

नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ।

दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ॥ ४।५०।१२ ॥

सञ्जातपरिशङ्काः किमिदं पातालम् उतान्यन्मायामयमिति सन्दिहानाः । असंहृष्टाः सन्तः अभ्यपद्यन्नभ्यपद्यन्त । नानेतिश्लोको बिलविशेषणम् ॥ ४।५०।११,१२ ॥

ततः पर्वतकूटाभो हनुमान् पवनात्मजः ।

अब्रवीतद्वानरान् सर्वान् कान्तारवनकोविदः ॥ ४।५०।१३ ॥

कान्तारे दुर्गमार्गे वने कोविदः समर्थः ॥ ४।५०।१३ ॥

गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् ।

वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ॥ ४।५०।१४ ॥

अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ।

जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः ॥ ४।५०।१५ ॥

गिरिजालावृतान् देशान् दक्षिणां दिशम्, तादृशदेशरूपां दक्षिणां दिशमित्यर्थः ॥ ४।५०।१४,१५ ॥

नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ।

तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥ ४।५०।१६ ॥

नूनमिति । अस्तीति शेषः ॥ ४।५०।१६ ॥

इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम् ।

अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ॥ ४।५०।१७ ॥

इत्युक्त्वेति । हनुमदुक्तप्रकारेण सर्वे ऽप्युक्त्वा विविशुः । तिमिरावृतं ददृशुश्च । अचन्द्रश्च । अचन्द्रसूर्यं चन्द्रसूर्यकिरणरहितम् ॥ ४।५०।१७ ॥

निशाम्य तस्मात्सिंहांश्च तांस्तांश्च मृगपक्षिणः ।

प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ॥ ४।५०।१८ ॥

तस्मान्निर्गच्छतः सिंहान् तांस्तान् नानाप्रकारान् मृगपक्षिणश्च ॥ ४।५०।१८ ॥

न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः ।

वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ॥ ४।५०।१९ ॥

वर्तते अयत्नपूर्वं प्रवर्तत इत्यर्थः ॥ ४।५०।१९ ॥

ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः ।

प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ॥ ४।५०।२० ॥

प्रकाशं निस्तमस्कम् ॥ ४।५०।२० ॥

ततस्तस्मिन् बिले दुर्गे नानापादपसङ्कुले ।

अन्योन्यं सम्परष्वज्य जग्मुर्योजनमन्तरम् ॥ ४।५०।२१ ॥

सङ्ग्रहेणोक्तं प्रपञ्चयति ततस्तस्मिन्नित्यादि । अन्योन्यं सम्परिष्वज्य हस्तावलम्बनं कृत्वा ॥ ४।५०।२१ ॥

ते नष्टसञ्ज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः ।

परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ॥ ४।५०।२२ ॥

परितेतुः जग्मुः । कञ्चित्कालमित्यत्यन्तसंयोगे द्वितीया ॥ ४।५०।२२ ॥

ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ।

आलोकं ददृशुर्वीरा निराशा जीविते तदा ॥ ४।५०।२३ ॥

ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् ।

ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ॥ ४।५०।२४ ॥

सालांस्तालांश्च पुन्नागान् ककुभान् वञ्जुलान् धवान् ।

चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ॥ ४।५०।२५ ॥

आलोकं प्रकाशम् ॥ ४।५०।२३२५ ॥

स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा ।

आपीडैश्च लताभिश्च हेमाभरणभूषितान् ॥ ४।५०।२६ ॥

तरुणादित्यसङ्काशान् वैडूर्यकृतवेदिकान् ।

विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ॥ ४।५०।२७ ॥

आपीडैः शेखरैः लताभिश्च, उपशोभितानिति शेषः । हेमाभरणभूषितान्

फलितहेमाभरणान् । पादपांश्च हिरण्मयान् रजतमयांश्च वृक्षान् ॥ ४।५०।२६,२७ ॥

नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः ।

महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः ॥ ४।५०।२८ ॥

जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ।

नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः ॥ ४।५०।२९ ॥

नीलवैडूर्येत्यादिश्लोकद्वयमेकान्वयम् । उक्तविशेषणविशिष्टाः पद्मिनीः उक्तविशेषणयुक्ता नलिनीश्च ददृशुरित्यन्वयः । अतो न पुनरुक्तिः ॥ ४।५०।२८,२९ ॥

काञ्चनानि विमानानि राजतानि तथैव च ।

तपनीयगवाक्षाणि मुक्ताजालावृतानि च ॥ ४।५०।३० ॥

हैमराजतभौमानि वैडूर्यमणिमन्ति च ।

ददृशुस्तत्र हरयो गुहमुख्यानि सर्वशः ॥ ४।५०।३१ ॥

पुष्पितान् फलिनो वृक्षान् प्रवालमणिसन्निभान् ।

काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ॥ ४।५०।३२ ॥

मणिकाञ्चनचित्राणि शयनान्यासनानि च ।

महार्हाणि च यानानि ददृशुस्ते समन्ततः ॥ ४।५०।३३ ॥

हैमराजतकांस्यानां भाजनानां च सञ्चयान् ।

अगरूणां च पानानि मधूनि रसवन्ति च ॥ ४।५०।३४ ॥

शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।

महार्हाणि च पानानि मधूनि रसवन्ति च । ४।५०।३५ ॥

दिव्यानामम्बराणां च महार्हाणां च सञ्चयान् ।

कम्बलानां च चित्राणामजिनानां च सञ्चयान् ॥ ४।५०।३६ ॥

काञ्चनानीत्यादि । हैमराजतभौमानीति शेषः । गृहमुख्यविशेषणं वा ॥ ४।५०।३०३६ ॥

तत्र तत्र च विन्यस्तान् दीप्तान्वैश्वानरप्रभान् ।

ददृशुर्वानराः शुभ्रान् जातरूपस्य सञ्चयान् ॥ ५।५०।३७ ॥

तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः ।

ददृशुर्वानराः शूराः स्त्रियं काञ्चिददूरतः ॥ ४।५०।३८ ॥

तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम् ।

तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ ४।५०।३९ ॥

शुभ्रान् निर्मलान् ॥ ४।५०।३७३९ ॥

विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः ।

पप्रच्छ हनुमांस्तत्र का ऽसि त्वं कस्य वा बिलम् ॥ ४।५०।४० ॥

व्यवतिष्ठन्त दूरे स्थिता इत्यर्थः ॥ ४।५०।४० ॥

ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।

पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ॥ ४।५०।४१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ५० ॥

पप्रच्छेत्यर्धस्य विवरणम् ततो हनूमानिति । अस्मिन् सर्गे सार्धैकचत्वारिंशच्छ्लोकाः ॥ ४।५०।४१ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥