अेथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत् ।
परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ ४।४९।१ ॥
वनानि गिरयो नद्यो दुर्गाणि गहनानि च ।
दर्यो गिरिगुहाश्चैव विचितानि समन्ततः ॥ ४।४९।२ ॥
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते ।
तद्वा रक्षो हृता येन सीता सुरसुतोपमा ॥ ४।४९।३ ॥
कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः ।
तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः ॥ ४।४९।४ ॥
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् ।
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥ ४।४९।५ ॥
पुनः प्रदेशान्तरान्वेषणमेकोनपञ्चाशे अथाङ्गद इत्यादि । सह युगपत् ॥ ४।४९।१५ ॥
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः ।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥ ४।४९।६ ॥
दाक्ष्यम् उत्साहः “दक्ष उत्साह” इत्युक्तेः । मनसश्चापराजयः, धैर्यमित्यर्थः ॥ ४।४९।६ ॥
अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः ।
खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद्विचीयताम् ॥ ४।४९।७ ॥
वनमेतत् विचीयताम् अन्विष्यताम् ॥ ४।४९।७ ॥
अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् ।
अलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥ ४।४९।८ ॥
सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः ।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ४।४९।९ ॥
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते ।
उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥ ४।४९।१० ॥
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः ।
उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ४।४९।११ ॥
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह ।
हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ ४।४९।१२ ॥
मीलनं नेत्रमीलनम्, कर्तव्यमकृत्वा तूष्णीम्भाव इत्यर्थः ॥ ४।४९।८१२ ॥
पुनर्मार्गामहै शैलान् कन्दरांश्च दरीस्तथा ।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ ४।४९।१३ ॥
कन्दरान् भेदान् ॥ ४।४९।१३ ॥
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना ।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः ॥ ४।४९।१४ ॥
ततः समुत्थाय पुनर्वानरास्ते महाबलाः ।
विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम् ॥ ४।४९।१५ ॥
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम् ।
शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ ४।४९।१६ ॥
तत्र कोद्रवनं रम्यं सप्तपर्णवनानि च ।
व्यचिन्वंस्ते हरिवराः सीतादर्शनकाङ्क्षिणः ॥ ४।४९।१७ ॥
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः ।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ ४।४९।१८ ॥
ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम् ।
अवारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ ४।४९।१९ ॥
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः ।
स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ ४।४९।२० ॥
ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः ।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ ४।४९।२१ ॥
हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः ।
विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः ॥ ४।४९।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
विचिन्वन्तु वनं सर्व इति, भवन्तः इति शेषः ॥ ४।४९।१४२२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ ४९ ॥