दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः ।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ ४।४७।१ ॥
अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे दर्शनार्थं त्वित्यादि । यथोक्तं देशम् ॥ ४।४७।१ ॥
सरांसि सरितः कक्षानाकाशं नगराणि च ।
नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः ॥ ४।४७।२ ॥
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः ।
प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् ॥ ४।४७।३ ॥
तदेव विवृणोति सरांसीत्यादिना । कक्षान् गुल्मान् । लतागृहानित्यर्थः । आकाशं वृक्षगुल्मादिरहितप्रदेशम् । नदीदुर्गान् नदीभिर्दुर्गमान् ॥ ४।४७।२,३ ॥
विचित्य दिवसं सर्वे सीताधिगमने धृताः ।
समायान्ति स्ममेदिन्यां निशाकालेषु वानराः ॥ ४।४७।४ ॥
विचित्येति । धृताः तत्पराः ॥ ४।४७।४ ॥
सर्वर्तुकामान् देशेषु वानराः सफलान् द्रुमान् ।
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते ॥ ४।४७।५ ॥
विचित्येति श्लोकोक्तं विवृणोति सर्वेति । सर्वर्तुकामान् काम्यन्त इति कामाः पुष्पफलादयः, सर्वर्तुसम्भवफलपुष्पादियुक्तानित्यर्थः । सफलान् वानरैरुपभूज्यमानत्वेन सफलान् द्रुमानासाद्य सर्वेष्वहस्सु एकमासान्तर्गतसर्वदिनेषु रजनीं रजन्यामेव शय्यां चक्रुः । अनेनाहारविश्रमादिकमहस्सु नास्तीत्यवगम्यते ॥ ४।४७।५ ॥
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः ।
कपिराजेन सङ्गम्य निराशाः कपियूथपाः ॥ ४।४७।६ ॥
तदहः प्रस्थानदिनं प्रथमं कृत्वा तदारभ्य मासे पूर्णे सति निराशाः सीतान्वेषणे निरुत्साहाः सन्तः कपिराजेन सङ्गम्य तस्मै स्वागमनं निवेद्येत्यर्थः, प्रस्नवणं माल्यवन्तं गताः ॥ ४।४७।६ ॥
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह ।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥ ४।४७।७ ॥
उत्तरां च दिशं सर्वां विचित्य स महाकपिः ।
आगतः सह सैन्येन वीरः शतवलिस्तदा ॥ ४।४७।८ ॥
एवं सामान्येन वानरागमनमुक्त्वा प्रत्येकं च दर्शयति विचित्येद्यादिना । सचिवैः सहायभूतैः ॥ ४।४७।७,८ ॥
सुषेणः पश्चिमामाशां विचित्य सह वानरैः ।
समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे ॥ ४।४७।९ ॥
उपचक्रमे उपागतः ॥ ४।४७।९ ॥
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।
आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ ४।४७।१० ॥
प्रस्रवणपृष्ठस्थं प्रस्रवणाग्रस्थम् । रामेण सहासीनम्, रामेण सहितमित्यर्थः ॥ ४।४७।१० ॥
विचिताः पर्वताः सर्वे वनानि गहनानि च ।
निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये ॥ ४।४७।११ ॥
गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः ।
विचिताश्च महागुल्मा लताविततसन्तताः ॥ ४।४७।१२ ॥
वनानि क्षुद्रवनानि गहनानि महावनानि सागरान्ताः समुद्रतीराणि लताविततसन्तताः लताभिर्वितताः व्याप्ताः निरन्तरा इति महागुल्मविशेषणम् ॥ ४।४७।११,१२ ॥
गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ॥ ४।४७।१३ ॥
गहनेषु दुष्प्रवेशेषु, नानाद्वीपेष्वित्यर्थः । दुर्गेषु दुःखेन गन्तव्येषु, निम्नोन्नतेष्वित्यर्थः । अतिप्रमाणानि अतिमात्रशरीराणि विचितानि, किमयं रावणः उत नेतीति भावः ॥ ४।४७।१३ ॥
उदारसत्त्वाभिजनो महात्मा स मैथीलीं द्रक्ष्यति वानरेन्द्रः ।
दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान् ॥ ४।४७।१४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
उदारसत्त्वः श्रेष्ठसत्त्वो ऽभिजनो वंशो यस्य स उदारसत्त्वाभिजनः । महाबलवतः पुत्र इति सीतादर्शने प्रथमो हेतुः । महात्मा महाधैर्य इति द्वितीयः । दिशं त्वित्यादिना तृतीयो हेतुः । इति अब्रुवन् वानरा इति पूर्वेणान्वयः । अस्मिन् सर्गे चतुर्दशश्लोकाः ॥ ४।४७।१४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥