गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् ।
कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ॥ ४।४६।१ ॥
अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानमूलकथनं षट्चत्वारिंशे गतेष्वित्यादि ॥ ४।४६।१ ॥
सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ।
श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ ४।४६।२ ॥
प्रणतात्मवान् प्रणतदेहवान् ॥ ४।४६।२ ॥
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।
परिकालयते वाली मलयं प्रति पर्वतम् ॥ ४।४६।३ ॥
यदेति । केचिदत्र दुन्दुभिशब्देन उपचारान्मायाव्येवोच्यते मायाविनो वृत्तान्तस्यानुवादादित्याहुः । तन्न, महिषाकृतिमित्यस्य विरोधात् । “तदा विवेश महिषः । महिषो विन शेदिति” इति पुनः पुनरुक्तेश्च रामेण विदितवृत्तान्तश्च न वचनमर्हति । तर्हि कथमुपपत्तिरिति चेत्? उच्यते पूर्वं मायाविवृत्तान्ताभिधानादत्र महिषवृत्तान्ताभिधानाच्च तदानीमुभावप्यागताविति वेदितव्यम् । तत्र महिषः कथञ्चित् स्वात्मानं गोपयित्वा वालिनि विनिर्गते पुनः मत्तः कदाचिदागत्य वालिना हत इत्यविरोधः । वक्ष्यत्येवमन्यत्रापि विषये । यथा रावणेन सीतोपप्लवे उद्युक्ते मन्दोदरीधान्यमालिन्यौ निवारिण्यौ, तत्रैका पूर्वमुक्ता अन्या वानरसन्निधावनुवादे । तस्मादयमृषेः स्वभाव इति बोध्यम् । परिकालयते पलाययति । कलतेर्मितो वृद्धिरार्षी ॥ ४।४६।३ ॥
तदा विवेश महिषो मलयस्य गुहां प्रति ।
विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ ४।४६।४ ॥
तत्रापि गुहायामपि । तज्जिघांसया मलयं विवेष ॥ ४।४६।४ ॥
ततो ऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् ।
न च निष्क्रमते वाली तदा संवत्सरे गते ॥ ४।४६।५ ॥
विनीतवत् विनययुक्तमिति क्रियाविशेषणम् ॥ ४।४६।५ ॥
ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ ४।४६।६ ॥
भ्रातृशोक एव विषं तेन अर्दितः, अभवमिति शेषः ॥ ४।४६।६ ॥
अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।
शिला पर्वतसङ्काशा बिलद्वारि मयावृता ॥ ४।४६।७ ॥
अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति ।
ततो ऽहमागां किष्किन्धां निराशस्तस्य जीविते ।
राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥ ४।४६।८ ॥
अथेति । अहं गुरुर्निहत इति कृतबुद्धिः, अभवमिति शेषः । विनशेत् विनश्येदित्यर्थः ॥ ४।४६।७,८ ॥
मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ।
आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥ ४।४६।९ ॥
वसामि अवसम् । दानवर्षभं मायाविनम् ॥ ४।४६।९ ॥
ततो ऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ ४।४६।१० ॥
भययन्त्रितः भयपरवशः ॥ ४।४६।१० ॥
स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ।
परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ॥ ४।४६।११ ॥
परिकालयते निरकासयत् ॥ ४।४६।११ ॥
ततो ऽहं वालिना तेन सानुबन्धः प्रधावितः ।
नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ ४।४६।१२ ॥
आदर्शतलसङ्काशा ततो वै पृथिवी मया ।
अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ ४।४६।१३ ॥
सानुबन्धः सामात्यः । नदीः पश्यन्नहं प्रधावित इत्यन्वयः ॥ ४।४६।१२,१३ ॥
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् ।
पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥ ४।४६।१४ ॥
पश्यामि अपश्यम् ॥ ४।४६।१४ ॥
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ।
क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ ४।४६।१५ ॥
परिकालयमानस्तु वालिना ऽभिद्रुतस्तदा ।
पुनरावृत्य सहसा प्रस्थितो ऽहं तदा विभो ॥ ४।४६।१६ ॥
अप्सरसा अपसरसाम् । पूर्वसवर्णदीर्घः । वालिनाभिद्रुतः परिकालयमानो ऽहं द्रुमादिकमपश्यमिति पूर्वेणान्वयः ॥ ४।४६।१५,१६ ॥
पुनरावर्तमानस्तु वालिना ऽभिद्रुतो द्रुतम् ।
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ॥ ४।४६।१७ ॥
विन्ध्यपादप सङ्कीर्णां चन्दनद्रुमभूषिताम् ।
द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतो ऽपरान् ॥ ४।४६।१८ ॥
पश्चिमां तु दिशं प्राप्तो वालिना समभिद्रुतः ।
सम्पश्यन् विविधान् देशानस्तं च गिरिसत्तमम् ।
प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः ॥ ४।४६।१९ ॥
पुनरित्यादिश्लोकद्वयमेकान्वयम् । अस्याः पूर्वस्याः दिशः पुनरावृत्य प्रस्थितो ऽस्मि । आवर्तमानो ऽहं पुनर्वालिनाभिद्रुतोस्मि । विन्ध्यपादपेत्यनेन किष्किन्धाया दक्षिणतो ऽपि विन्ध्यपर्वतशेषो ऽस्तीति गम्यते ॥ ४।४६।१७१९ ॥
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ ४।४६।२० ॥
हिमवन्तमिति । अपश्यमिति शेषः ॥ ४।४६।२० ॥
यदा न विन्दं शरणं वालिना समभिद्रुतः ।
तदा मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् ॥ ४।४६।२१ ॥
शरणं रक्षणम् । न विन्दं नाविन्दम् ॥ ४।४६।२१ ॥
इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः ।
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ॥ ४।४६।२२ ॥
प्रविशेद्यदि वै वाली मूर्धा ऽस्य शतधा भवेत् ।
तत्र वासः सुखो ऽस्माकं निरुद्विग्नो भविष्यति ॥ ४।४६।२३ ॥
इदानीमित्यादि । राजन् अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि तदा ऽस्य मूर्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो यथाभिशप्तः तथा इदानीं मे स्मृतमिति योजना । निरुद्विग्नः निर्भयः । भावे निष्ठा । इति हनुमान् वाक्यमब्रवीदिति सम्बन्धः ॥ ४।४६।२२,२३ ॥
ततः पर्वतमासाद्य ऋश्यमूके नृपात्मज ।
न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥ ४।४६।२४ ॥
आसाद्य, स्थितो ऽहमिति शेषः ॥ ४।४६।२४ ॥
एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् ।
पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्ततः ॥ ४।४६।२५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
अस्य ऋश्यमूकस्य गुहां सीताभरणस्थानभूताम् ॥ ४।४६।२५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥