सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये ।
एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ॥ ४।४५।१ ॥
अथ प्रेषितानां वानराणां सन्नाह उच्यते पञ्चचत्वारिंशे सर्वांश्चेत्यादि । सर्वानाहूय ततः समस्तान् सङ्घीभूतान् प्लवगान् अब्रवीत् । यद्वा सम इतिच्छेदः । समः सर्वत्र पक्षपातरहितः । एतत्पूर्वोक्तं एवम् अस्मदुक्तप्रकारेण इत्यब्रवीदिति सम्बन्धः ॥ ४।४५।१ ॥
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः ।
शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे ॥ ४।४५।२ ॥
तदिति । शलभा इति बहुत्वामात्रे दृष्टान्तः ॥ ४।४५।२ ॥
रामः प्रस्रवणे तस्मिन् न्यवसत्सहलक्ष्मणः ।
प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ ४।४५।३ ॥
सीताधिगमे सीताधिगमनिमित्तम् । कृतः कृतसङ्केतः ॥ ४।४५।३ ॥
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ।
प्रतस्थे सहसा वीरो हरिः शतवलिस्तदा ॥ ४।४५।४ ॥
पूर्वां दिशं प्रति ययौ विनतो हरियूथपः ।
ताराङ्गदादिसहितः प्लवगो मारुतात्मजः ॥ ४।४५।५ ॥
अगस्त्यचरितामाशां दक्षिणां हरियूपथः ।
पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ ४।४५।६ ॥
प्रतस्थे प्रस्थातुमुद्यक्तः । सर्गान्ते सुग्रीवसन्निधौ सन्नाहकथनात् ॥ ४।४५।४६ ॥
ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।
कपिसेनापतीन् मुख्यान् मुमोद सुखितः सुखम् ॥ ४।४५।७ ॥
तत इति । मुमोद सुखितः सुखमिति । पूर्वं राज्यलाभेन सुखितो राजा सुखं यथा भवति तथा मुमोद उत्तरोत्तरं सुखं प्रापेत्यर्थः ॥ ४।४५।७ ॥
एवं सम्बोधिताः सर्वे राज्ञा वानरयूथपाः ।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे ॥ ४।४५।८ ॥
आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ।
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः ।
क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः ॥ ४।४५।९ ॥
एवमित्यादि । स्वां स्वां दिशं स्वांशभूमण्डलम् । आनयिष्यामह इत्यत्र इतिकरणं द्रष्टव्यं । आनयिष्यामह इति नदन्त इत्यन्वयः । नदन्तः शब्दं कुर्वन्तः । उन्नदन्तः पुनः सन्तोषातिशयेन उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां कुर्वन्तः । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । विनदन्तः विविधान् विकृतान्वा नादान्कुर्वन्तः । सम्प्रतस्थिर इति पूर्वेणान्वयः ॥ ४।४५।८,९ ॥
अहमेको हनिष्यामि प्राप्तं रावणमाहवे ।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ ४।४५।१० ॥
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह ।
एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ४।४५।११ ॥
विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन् ।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ ४।४५।१२ ॥
अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः ।
शतं योजनसङ्ख्यायाः शतं समधिकं ह्यहम् ॥ ४।४५।१३ ॥
भूतले सागरे वापि शैलेषु च वनेषु च ।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ ४।४५।१४ ॥
इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।
ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ॥ ४।४५।१५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
अहमित्यादि सागरानित्यन्तमेकान्वयम् ॥ ४।४५।१०१५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥