०४४ रामेण मुद्रिकाप्रदानम्

विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् ।

स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थो ऽर्थसाधने ॥ ४।४४।१ ॥

अथ निश्चितकार्यसाधनसमार्थ्याय हमुमते अङ्गुलीयकदानं चतुश्चत्वारिंशे विशेषेण त्वित्यादि । हनुमति विषये अर्थं वक्ष्यमाणार्थम् उक्तवान् । विशेषार्थकथने हेतुमाह स हीति । अर्थसाधने विषये निश्चितार्थः ॥ ४।४४।१ ॥

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् ।

सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ॥ ४।४४।२ ॥

सङ्ग्रहेणोक्तमर्थं विस्तरेण दर्शयति अब्रवीच्चेत्यादिना ॥ ४।४४।२ ॥

न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये ।

नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ॥ ४।४४।३ ॥

सासुराः सहगन्धर्वाः सनागनरदेवताः ।

विदिताः सर्वलोकास्ते ससागरधराधराः ॥ ४।४४।४ ॥

भूमौ सजातीयप्रतिपक्षबहुलायाम्, अन्तरिक्षे निरालम्बे मेघादिसञ्चारमार्गे, अम्बरे वातचक्राक्रान्तप्रदेशे, अमरालये प्रबलाधिष्ठिते स्वर्गे, अप्सु तिर्यक्सञ्चारानर्हासु वा गतिसङ्गं गतिविलम्बं न पश्यामि ॥ ४।४४।३,४ ॥

गतिर्वेगश्च तेजश्च लाघवं च महाकपे ।

पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ ४।४४।५ ॥

गतिः अप्रतिहतगातिः ॥ ४।४४।५ ॥

तेजसा वापि ते भूतं समं भुवि न विद्यते ।

तद्यथा लभ्यते सीता तत् त्वमेवोपपादय ॥ ४।४४।६ ॥

तेजसेति । भूतं जन्तुः । तत् तस्मात्कारणात् । तत् सीतान्वेषणम् । उपपादय सम्पादय ॥ ४।४४।६ ॥

त्वय्येव हनुमान् स्वस्ति बलं बुद्धिः पराक्रमः ।

देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ४।४४।७ ॥

नयपण्डितेत्यनन्तरमितिकरणं बोध्यम् । इत्यब्रवीदिति पूर्वेणान्वयः ॥ ४।४४।७ ॥

ततः कार्यसमासङ्गमवगम्य हनूमति ।

विदित्वा हनुमानं च चिन्तयामास राघवः ॥ ४।४४।८ ॥

ततः सुग्रीववचनात् हनूमति कार्यसमासङ्गं कार्यविषयासक्तिम् अवगम्य अस्मिन् सुग्रीवेण स्वकार्यभारो निक्षिप्त इति ज्ञात्वेत्यर्थः । स्वयमपि हनुमन्तं कार्यसाधकं विदित्वा चिन्तयामास ॥ ४।४४।८ ॥

सर्वथा निश्चितार्थो ऽयं हनूमति हरीश्वरः ।

निश्चितार्थकरश्चापि हनुमान् कार्यसाधने ॥ ४।४४।९ ॥

चिन्ताप्रकारमाह सर्वथेत्यादिना श्लोकद्वयेन । अन्ते इतिकरणं बोध्यम् । कार्यसाधने विषये निश्चितार्थः निश्चितकार्यसाधकः । हनुमानपि निश्चितार्थकरः ॥ ४।४४।९ ॥

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः ।

भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ ४।४४।१० ॥

तदेवमिति । अस्य कार्यफलोदयः अस्य सम्बन्धीनि कार्यसिद्धिः । ध्रुवः निश्चितः ॥ ४।४४।१० ॥

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ।

कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥ ४।४४।११ ॥

व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठम् । कृतार्थः संवृत्त इव, अमन्यतेति शेषः ॥ ४।४४।११ ॥

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।

अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः ॥ ४।४४।१२ ॥

राजपुत्र्या अभिज्ञानम् अभिज्ञायते ऽनेनेत्यात्रिज्ञानम् । ननु त्यक्तसकलधनस्य वन्यवृत्त्या वर्तमानस्य कुतो ऽङ्गुलीयकमिति चेत् इदमेकमेतत्कार्यार्थं रक्षितवान् । अथ एवाङ्गुलीयमुन्मुच्येति नोक्तम् । यद्वा रामनामाङ्कितमङ्गुलीयकं सीतायाः कदाचिद्रावणागमनात् पूर्वं प्रणयपरत्वेन रामेण स्वीकृतमिति बोध्यम् । यद्वा भार्यास्नेहेन कनिष्ठिकायां सदा मुद्रिका धार्यत इति देशाचारः । यद्वा विवाहकाले जनकेन दत्तमिदं वरालङ्कारत्वेन । “गृहीत्वा पेक्षमाणा सा भर्तुः करविभूषणम्” । इत्युक्तेः ॥ ४।४४।१२ ॥

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा ।

मत्सकाशादनुप्राप्तमनुद्विग्ना ऽनुपश्यति ॥ ४।४४।१३ ॥

भवद्वचनमेवालं किमर्थमेतद्दीयते? तत्राह अनेनेति । पश्यति द्रक्ष्यति ॥ ४।४४।१३ ॥

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ।

सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ॥ ४।४४।१४ ॥

स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः ।

वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥ ४।४४।१५ ॥

हनुमन्तं प्रशंसति व्यवसाय इति । सत्त्वयुक्तो विक्रमः बलं च विक्रमश्चेत्यर्थः ॥ ४।४४।१४,१५ ॥

स तत्प्रकर्षन् हरिणां बलं महद्बभूव वीरः पवनात्मजः कपिः ।

गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ॥ ४।४४।१६ ॥

प्रकर्षन् नयन् । हरिणामित्यत्र दीर्घाभाव आर्षः ॥ ४।४४।१६ ॥

अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः ।

पवनसुत यथा ऽभिगम्यते सा जनकसुता हनुमान् तथा कुरुष्व ॥ ४।४४।१७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

पुनरपि गच्छन्तं प्रति रामवचनम् अतिबलेति । अतिबलेति सम्बुद्धिः । हरिवरविक्रम सिंहश्रेष्ठविक्रम सुग्रीवतुल्याविक्रमेति वा । श्लोकान्ते इति रामो ऽब्रवीदित्यध्याहार्यम् ॥ ४।४४।१७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥