०४३ उदीचीं प्रति शतबलिप्रेषणम्

ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।

वीरं शतवलिं नाम वानरं वानरर्षभः ॥ ४।४३।१ ॥

उवाच राजा धर्मज्ञः सर्ववानरसत्तमम् ।

वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ ४।४३।२ ॥

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।

वैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ४।४३।३ ॥

अतोत्तरदिशि शतवलिप्रेषणं त्रिचत्वारिंशे ततः सन्दिश्येत्यादि ॥ ४।४३।१३ ॥

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।

सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४।४३।४ ॥

हिमशैलावतंसकां हिमशैलालङ्काराम् ॥ ४।४३।४ ॥

अस्मिन् कार्ये विनिर्वृते कृते दाशरथेः प्रिये ।

ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ४।४३।५ ॥

कृतं हि प्रियमस्माकं राघवेण महात्मना ।

तस्य चेत् प्रतिकारो ऽस्ति सफलं जीवितं भवेत् ॥ ४।४३।६ ॥

अर्थितः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।

तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ ४।४३।७ ॥

एतां बुद्धिमवस्थाय दृश्यते जानकी यथा ।

तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ४।४३।८ ॥

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।

अस्मासु चागतप्रीती रामः परपुरञ्जयः ॥ ४।४३।९ ॥

अस्मिन्निति । कृतार्थाश्चार्थविदश्च कृतार्थर्थविदः तेषां वराः ॥ ४।४३।५९ ॥

इमानि वनगुर्गाणि नद्यः शैलान्तराणि च ।

भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ ४।४३।१० ॥

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च ।

प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ ४।४३।११ ॥

काम्बोजान् यवनांश्चैव शकानारट्टकानपि ।

बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ ४।४३।१२ ॥

चीनान् परमचीनांश्च नीहारांश्च पुनःपुनः ।

अन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव च ॥ ४।४३।१३ ॥

इमानि वक्ष्यमाणानि । नद्यः नदीः । तत्रेति । भरतान् इन्द्रप्रस्थादिप्रदेशान् । कुरून् दक्षिणकुरून् हिमवदन्तान् पुनः पुनरन्वीक्ष्य परिमार्गन्त्विति पूर्वेण सम्बन्धः ॥ ४।४३।१०१३ ॥

लौध्रपद्मकषण्डेषु देवदारुवनेषु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४३।१४ ॥

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।

कालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ ४।४३।१५ ॥

महत्सु तस्य शैलस्य निर्दरेषु गुहासु च ।

विचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ ४।४३।१६ ॥

लोध्रेति । पद्मकाश्चन्दनविशेषाः, साहचर्यात् ॥ ४।४३।१४१६ ॥

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ।

ततः सुदर्शंनं नाम गन्तुमर्हथ पर्वतम् ॥ ४।४३।१७ ॥

तं कालं नाम महागिरिमतिक्रम्य । ततः तस्मात् । सुदर्शनं पर्वतं गन्तुमर्हथ ॥ ४।४३।१७ ॥

ततो देवसखो नाम पर्वतः पतगालयः ।

नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ ४।४३।१८ ॥

तस्य काननषण्डेषु निर्झरेषु गुहासु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४३।१९ ॥

तत इति । पतगालयः पक्षिणामावासभूतः । पक्षिणां वैविध्यमाह नानापक्षिसमाकीर्ण इति ॥ ४।४३।१८,१९ ॥

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ।

अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ ४।४३।२० ॥

तमिति । तमतिक्रम्य तस्माद्देवसखाख्यपर्वतात्परम् । अपर्वतनदीवृक्षं शून्यारण्यस्थलम् । वर्तत इति शेषः ॥ ४।४३।२० ॥

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।

कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ ४।४३।२१ ॥

तं त्विति । कैलासमिति । यद्यपि कैलासो हिमवदेकदेश इति पुराणान्तरोक्तं तथापि तदविरुद्धं ज्ञेयम्, मध्ये शून्यप्रदेशे ऽपि तावत्पर्यन्तं हिमवानिति ॥ ४।४३।२१ ॥

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।

कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ ४।४३।२२ ॥

विशाला नलिनी यत्र प्रभूतकमलोत्पला ।

हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ ४।४३।२३ ॥

तत्रेत्यादि । तत्र कैलासे । नलिनी मानसाख्यसरसी ॥ ४।४३।२२,२३ ॥

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।

धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ ४।४३।२४ ॥

तत्रेति । तत्र कैलासे ॥ ४।४३।२४ ॥

तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च ।

रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४३।२५ ॥

तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ ४।४३।२५ ॥

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।

अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ ४।४३।२६ ॥

वसन्ति हि महात्मानास्तत्र सूर्यसमप्रभाः ।

देवैरप्यर्चिताः सम्यग् देवरूपा महर्षभः ॥ ४।४३।२७ ॥

कौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि च ।

निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ ४।४३।२८ ॥

बिलं स्कन्दशक्तिकृतम् ॥ ४।४३।२६२८ ॥

क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।

अवृक्षं कामशैलं च मानसं विहगालयम् ॥ ४।४३।२९ ॥

क्रौञ्चस्येत्यादि । शिखरं च प्रधानभूतं शिखरं च अवृक्षं अवृक्षाख्यं प्रत्यन्तपर्वतम् । विहगालयं मानसं मानकाख्यं गिरिं च निरीक्ष्य ते विचेतव्या इति पूर्वेण सम्बन्धः ॥ ४।४३।२९ ॥

न गतिस्तत्र भूतानां देवदानवरक्षसाम् ।

स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ ४।४३।३० ॥

न गतिरिति । तत्र मानसाख्ये पर्वते । ससानुप्रस्थभूधरः, सानवः उपत्यकाः, प्रस्थाः मध्यतटाः, भूधराः अधित्यकाः ॥ ४।४३।३० ॥

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ।

मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ ४।४३।३१ ॥

क्रौञ्चं गिरिमतिक्रम्य कौञ्चगिरेः परतः । मैनाको नाम पर्वतः, वर्तत इति शेषः ॥ ४।४३।३१ ॥

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ।

स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ ४।४३।३२ ॥

अश्वमुखीनां किम्पुरुषस्त्रीणाम् ॥ ४।४३।३२ ॥

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।

सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ४।४३।३३ ॥

तं देशमिति । आश्रमं सिद्धसेवितम्, अस्तीति शेषः ॥ ४।४३।३३ ॥

वन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः ।

प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ ४।४३।३४ ॥

हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः ।

तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥ ४।४३।३५ ॥

तपःसिद्धाः अणिमाद्यष्टैश्वर्यसिद्धियुक्ताः ॥ ४।४३।३४,३५ ॥

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ।

गजः पर्येति तं देशं सदा सह करेणुभिः ॥ ४।४३।३६ ॥

औपवाह्यः राजार्हं वाहनम् । “राजवाहस्त्वौपवाह्यः” इत्यमरः ॥ ४।४३।३६ ॥

तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् ।

अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ ४।४३।३७ ॥

अथ महामेरुपर्यन्तेलावृतप्रदेशानुपदिशति तत्सर इति । उत्तरत्र “हिमवन्तं च मेरुं च समुद्रमं च तथोत्तरम्” इति वक्ष्यमाणत्वादत्र मेरुकीर्तनप्रसक्तिरेव नास्तीति न भ्रमितव्यम् । व्योम, वर्तत इति शेषः । व्योम्नो नष्टचन्द्रदिवाकरादित्वं नियतमार्गवर्तिनां चन्द्रसूर्यादीनां मेरुनिकटे किरणसञ्चाराभावात् । तदुक्तं विष्णुपुराणे “यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः । ऋते हेमगिरेर्मेरोरुपरि ब्रह्मणः सभाम् ॥ " इति ॥ ४।४३।३७ ॥

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।

विश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ ४।४३।३८ ॥

गभस्तिभिरिति । स देशः अर्कस्य गभस्तिभिरिव स्थितैः स्वयम्प्रभैः स्वतः सिद्धज्ञानैः प्रकाशते ॥ ४।४३।३८ ॥

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ ४।४३।३९ ॥

तं त्विति । निम्नगा, वर्तत इति शेषः ॥ ४।४३।३९ ॥

उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ।

ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ ४।४३।४० ॥

उभयोरिति । तस्याः शैलोदायाः उभयोस्तीरयोः कीचका नाम वेणवः सन्ति । ते उभयतीरजाः कीचकाः अन्योन्यसङ्ग्रथिततया गमनसाधनभूताः सन्तः सिद्धान् परं तीरं नयन्ति प्रत्यानयन्ति च ॥ ४।४३।४० ॥

उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४।४३।४१ ॥

कुरवः उत्तरकुरुसञ्ज्ञकाः देशाः वर्तन्त इति शेषः । कृतपुण्यानां प्रतिश्रयाः आश्रयभूताः आवासभूताः ॥ ४।४३।४१ ॥

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ।

नीलवैडूर्यपत्त्राभिर्नद्यास्तत्र सहस्रशः ॥ ४।४३।४२ ॥

ततः कृतपुण्यप्रतिश्रयत्वाद्धेतोः । कृतपुण्यभोग्यभूमित्वात् उक्तविशेषा नद्यः सन्तीति भावः । पद्मिनीभिः पद्मलताभिः कृतोदकाः पर्याप्तोदकाः । “युगपर्याप्तयोः कृतम्” इत्यमरः ॥ ४।४३।४२ ॥

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।

तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४।४३।४३ ॥

रक्तेत्यविभक्तिकनिर्देशः । रक्तैरुपत्पलनैर्हिरण्मयैरुत्पलवनैः, तरुणादित्यसदृशैरुत्पलवनैश्चैत्यर्थः । तत्रात्र तेष्वेतेषु कुरुष्वित्यन्वयः ॥ ४।४३।४३ ॥

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।

नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४।४३।४४ ॥

महार्हमणयो नीलरत्नानि । तत्तुल्यपत्रैः ॥ ४।४३।४४ ॥

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।

उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४।४३।४५ ॥

निस्तुलाभिः वर्तुलाभिः । “वर्तुलं निस्तुलं वृत्तम्” इत्यमरः । महाघनैः बहुमूल्यैः । उद्भूतपुलिनाः उन्नतपुलिना । निम्नागाः भान्तीति शेषः ॥ ४।४३।४५ ॥

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।

जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४।४३।४६ ॥

सर्वेति । नगोत्तमैः पर्वतश्रेष्ठैः । अवगाढाः प्रविष्टा इति निम्नगाविशेषणम् ॥ ४।४३।४६ ॥

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।

दिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ ४।४३।४७ ॥

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ ४।४३।४८ ॥

पत्ररथाकुलाः पक्षिभिराकुलाः । सर्वकामान् सर्वाभीष्टान् ॥ ४।४३।४७,४८ ॥

मुक्तावैडूर्यचित्राणि भूषणानि तथैव च ।

स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च ।

सर्वर्तुसखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ ४।४३।४९ ॥

महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः ।

शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ ४।४३।५० ॥

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ।

पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ४।४३।५१ ॥

स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ।

गन्धर्वाः किन्निराः सिद्धा नागा विद्याधरास्तथा ।

रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ ४।४३।५२ ॥

मुक्तेति । सर्वर्तुसुखसेव्यानि हेमन्ताद्यृतुष्वपि सुखेन सेवितुं योग्यानि ॥ ४।४३।४९५२ ॥

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ।

सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ ४।४३।५३ ॥

सर्व इति । सहयोषितः योषित्सहिताः ॥ ४।४३।५३ ॥

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः ।

श्रूयते सततं तत्र सर्वभूतमनोहरः । ४।४३।५४ ॥

गीतेति । सोत्कृष्टहसितस्वनः उत्कृष्टहासशब्दसहितः ॥ ४।४३।५४ ॥

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ।

अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ ४।४३।५५ ॥

तत्रेति । असत्प्रियः अविद्यमानाङ्गनः । गुणाः सुखादयः ॥ ४।४३।५५ ॥

समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ ४।४३।५६ ॥

समतिक्रम्येति । पयसां निधिः लवणसमुद्रः अस्तीति शेषः ॥ ४।४३।५६ ॥

तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ।

इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ।

देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ ४।४३।५७ ॥

तत्र लवणसमुद्रे मध्ये मध्यदेशे ये दिवनं गता इत्यनुषज्यते ॥ ४।४३।५७ ॥

स तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते ।

सूर्यलक्ष्म्या ऽभिविज्ञेयस्तपतेव विवस्वता ॥ ४।४३।५८ ॥

स देशः विसूर्यो ऽपि रात्रौ विगतसूर्यो ऽपि तस्य सोमगिरेर्भासा प्रकाशते । कथमिव? सूर्यलक्ष्म्या अभिविज्ञेयः ज्ञातव्यपदार्थको देशः तपता विवस्वतेव ॥ ४।४३।५८ ॥

भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ।

ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ ४।४३।५९ ॥

विश्वात्मा विश्वशरीरकः । भगवान् षाड्गुण्यपरिपूर्णो वासुदेवः । “एवमेव महान् शब्दो मैत्रेयभगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ " इत्युक्तेः। नचेदमपि शम्भुविशेषणम्, एकादशात्मकत्वविरोधात्। नहि विश्वात्मकत्वमेकादशात्मक्तवं चैकत्र सम्भवति। एकादशात्मकः एकादशमूर्तिः। शम्भुः रुद्रः। देवेशो ब्रह्मा। ब्रह्मर्षिपरिवारितः तत्र वसति। इयं च क्रिया सर्वत्रापि सम्बध्यते। यद्यत्र कश्चित् प्रकरणाभावात् विष्णुरत्र नोच्यत इति कथयेत् तर्हि रुद्रोऽपि नोच्येत। कथमिति चेत्? शं भावयतीति शम्भुरिति व्युत्पत्त्या “शम्भू ब्रह्मत्रिलोचनौ” इति कोशकारवचनाच्च सर्वाण्यपि विशेषणानि ब्रह्मपराणि भवेयुरिति ॥ ४।४३।५९ ॥

न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः ।

अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ ४।४३।६० ॥

स हि सोमगिरिर्नाम देवानामपि दुर्गमः ।

तमालोक्य ततः क्षिप्रमुपावर्त्तितुमर्हथ ॥ ४।४३।६१ ॥

न कथञ्चनेति । कुरूणामुत्तरेण “षष्ठ्यपीष्यते " इत्यनेनैनपा योगे षष्ठी । अन्येषामपि शक्तिविशेषविशिष्टदैत्यादीनामपि । वः युष्मभिः, न गन्तव्यम् ॥ ४।४३।६०,६१ ॥

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ।

अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४।४३।६२ ॥

एतावत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात् परम् । समुद्रद्वीपादिकम् अभास्करममार्यादं च प्रदेशं न जानीमः । ततः परस्य देशस्य सर्वैर्गन्तुमशक्यत्वेन मयापि अनवगतत्वादिति भावः ॥ ४।४३।६२ ॥

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।

यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ४।४३।६३ ॥

सर्वमिति । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः, गम्यत्वेनोक्तप्रदेशानां यत्पार्श्वादिकमनुक्तं तत्रापि अन्वेषणे मतिः कर्तव्येत्यर्थः ॥ ४।४३।६३ ॥

ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् ।

कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ ४।४३।६४ ॥

ततः अन्वेषणानन्तरं विदेहजादर्शनजेन कर्मणा दाशरथेर्महत्प्रियं कृतं भविष्यति । मम चापि ततः दाशरथिप्रियात् महत्तरं प्रियं कृतं भविष्यतीति योजना ॥ ४।४३।६४ ॥

ततः कृतार्थाः सहिताः सबान्धावा मया ऽर्चिताः सर्वगुणैर्मनोरमैः ।

चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥ ४।४३।६५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

भूतधराः प्राणिभृतः, प्राणिभिरुपजीव्या इति यावत् ॥ ४।४३।६५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥