०४१ दक्षिणां प्रति हनुमदादिप्रेषणम्

ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् ।

दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ ४।४१।१ ॥

अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे ततः प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ॥ ४।४१।१ ॥

नीलमग्निसुतं चैव हनुमन्तं च वानरम् ।

पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥ ४।४१।२ ॥

सुहोत्रं च शरारिं च शरगुल्मं तथैव च ।

गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ ४।४१।३ ॥

मैन्दं च द्विविदं चैव विजयं गन्धमादनम् ।

उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥ ४।४१।४ ॥

नीलमित्यादि । अत्रोक्तः सुषेणस्तारापितुरन्यः ॥ ४।४१।२४ ॥

अङ्गदप्रमुखान्वीरान् वीरः कपिगणेश्वरः ।

वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित् ॥ ४।४१।५ ॥

वेगविक्रमसम्पन्नप्रेषणे हेतुमाह विशेषविदिति ॥ ४।४१।५ ॥

तेषामग्रेसरं चैव महद्वलमसङ्गम् ।

विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ ४।४१।६ ॥

तेषामिति । असङ्गम् अविलम्बगामि, वेगवदिति यावत् । बलं सैन्यम् । अग्रेसरम् अग्रचरं विधाय ॥ ४।४१।६ ॥

ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः ।

कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ ४।४१।७ ॥

ये केचनेति । तान् समुद्देशान् ॥ ४।४१।७ ॥

सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम् ।

नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥ ४।४१।८ ॥

ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम् ।

वरदां च महाभागां महोरगनिषेविताम् ॥ ४।४१।९ ॥

मेखलामुत्कलां चैव दशार्णनगराण्यपि ।

अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत ॥ ४।४१।१० ॥

सहस्रशिरसमित्यादि । पूर्ववन्मध्यदेशापेक्षया विन्ध्यस्य दक्षिणत्वव्यपदेशः ॥ ४।४१।८१० ॥

विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि ।

तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ ४।४१।११ ॥

अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ।

नदीं गोदावरीं चैव सर्वमेवानुपश्यत ।

तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान् ॥ ४।४१।१२ ॥

तत्र सर्वमेवानुपश्यतेत्यन्तेन विन्ध्यस्य पश्चिमभागस्थांस्तद्दक्षिणपार्श्वस्थांश्च नदीनगरदेशानुपदिशति विदर्भानित्यादिना । पूर्वभागस्थान् देशानुपदिशति नदीं गोदावरीमिति । दण्डकारण्यवर्तिगोदावरीखण्डमित्यर्थः ॥ ४।४१।११,१२ ॥

अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः ।

विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ॥ ४।४१।१३ ॥

सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ ४।४१।१४ ॥

अयोमुखः सह्यः ॥ ४।४१।१३,१४ ॥

ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् ।

तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ ४।४१।१५ ॥

तत इति । अप्सरोगणैः विहितां पूजितामित्यर्थः ॥ ४।४१।१५ ॥

तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ।

द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम् ॥ ४।४१।१६ ॥

ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ।

ताम्रपणीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ ४।४१।१७ ॥

सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी ।

कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ ४।४१।१८ ॥

तस्येति । तस्य प्रसिद्धस्य ॥ ४।४१।१६१८ ॥

ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।

युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥ ४।४१।१९ ॥

तत इति । पाण्ड्यानां पाण्ड्यराजानाम् । युक्तं योग्यम् । कवाटम्, अनेन नगरं लक्ष्यते । मुक्तारूपैर्मणिभिः रत्नैः भूषितम्, तदुत्पत्तिदेशत्वादिति भावः ॥ ४।४१।१९ ॥

ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् ।

अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ ४।४१।२० ॥

चित्रनानानगः श्रीमान् महेन्द्रः पर्वतोत्तमः ।

जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ ४।४१।२१ ॥

नानाविधैर्नगैः सर्वैर्लताभिश्चोपशोभितम् ।

देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ ४।४१।२२ ॥

सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम् ।

तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ ४।४१।२३ ॥

द्वीपस्तस्यापरे पारे शतयोजनमायतः ।

अगम्यो मानुषैर्दीप्तस्तं मार्गध्व समन्ततः ।

तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ ४।४१।२४ ॥

अथ महेन्द्रं वर्णयति तत इत्यादिना । मार्गितव्या विशेषत इत्यन्तमेकान्वयम् । ततः पाण्ड्यनगरात् समुद्रमासाद्य अर्थनिश्चयं कर्तव्यसमुद्रलङ्घनाद्यर्थनिश्चयं सम्प्रधार्य कृत्वा अगस्त्येन तत्र सागरे अन्तरे अवकाशे निवेशितः । श्रीमान् पुष्पफलादिसमृद्धिमान्, श्रीमान् कान्तिमान् महेन्द्रो ऽस्ति । तं पर्वतं पर्वसु पर्वसु समुद्रस्नानायागच्छति । तस्यापरे पारे आन्तरालिकतीरे द्वीपो ऽस्ति तं मार्गध्वम् । तत्र सर्वात्मना सर्वप्रयत्नेन विशेषतः सीता मार्गितव्या इत्यर्थः ॥ ४।४१।२०२४ ॥

स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः ।

राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ ४।४१।२५ ॥

दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी ।

अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥ ४।४१।२६ ॥

स हीति । एवं रावणालयावगमे ऽपि इतरदिक्षु वानरप्रेषणं स्थानान्तरे सीतामादाय किं न गच्छेदिति शङ्क्येति बोध्यम् ॥ ४।४१।२५,२६ ॥

एवं निस्संशयान् कृत्वा संशयान्नष्टसंशयाः ।

मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ॥ ४।४१।२७ ॥

ननु पूर्वं “न जाने निलयं तस्य सर्वथा पापरक्षसः” इत्युक्तम्, सम्प्रति “स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः” इत्युच्यते, अतो विरुद्धमिदमित्याशङ्क्य परिहरति एवमिति । एवं मदुक्तरीत्या संशयान् संशयविषयभूतान् देशान् निःसंशयान् संशयाविषयीभूतान् निश्चितसदसद्भावान् कृत्वा नष्टसंशयाः सन्तः अमिततेजसो नरेन्द्रस्य पत्नीं मृगयध्वम् । यदृच्छादर्शनापरिस्फुटज्ञातमर्थं कथं निश्चयेन कथयामीति न जान इति पूर्वमुक्तम् । इदानीं तथाविधमप्यर्थमन्वेषणगौरवाय निश्चयेन ब्रवीमिति भावः ॥ ४।४१।२७ ॥

तमतिक्रय्म लक्ष्मीवान् समुद्रे शतयोजने ।

गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ ४।४१।२८ ॥

चन्द्रसूर्यांशुसङ्काशः सागराम्बुसमावृतः ।

भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ ४।४१।२९ ॥

तमतिक्रम्येति । “परावरयोगे च” इति क्त्वाप्रत्ययः । एवं पूर्वत्रापरत्र च बोध्यम् ॥ ४।४१।२८,२९ ॥

तस्यैवं काञ्चनं शृङ्गं सेवते यं दिवाकरः ।

श्वेतं राजतमेकं च सेवते यं निशाकरः ॥ ४।४१।३० ॥

न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।

प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ ४।४१।३१ ॥

तस्यैकमिति । दक्षिणायन इति शेषः ॥ ४।४१।३०,३१ ॥

तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः ।

अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ ४।४१।३२ ॥

तमतिक्रम्यते । हे दुर्धर्षाः सूर्यवान् नाम पर्वतः, वर्तत इति शेषः । दुर्विगाहेनाध्वना उपलक्षितः । योजनानि चतुर्दश, पुष्पितकसूर्यवतोरन्तराल इति शेषः ॥ ४।४१।३२ ॥

ततस्तमप्यतिक्रम्य वैद्युतो नामपर्वतः ।

सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ ४।४१।३३ ॥

तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ।

मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥ ४।४१।३४ ॥

तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ।

अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ ४।४१।३५ ॥

वराणां श्रेष्ठानामर्हाणीति वरार्हाणि । परं ततः परं देशम् ॥ ४।४१।३३३५ ॥

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ।

शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ ४।४१।३६ ॥

अगस्त्यभवनं विशेषयति तत्र योजनेति । शरणं गृहम् ॥ ४।४१।३६ ॥

तत्र भोगवती नाम सर्पाणामालयः पुरी ।

विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ॥ ४।४१।३७ ॥

रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ।

सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः ।

निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ ४।४१।३८ ॥

नत्रेत्यादि । निर्याय अगस्त्यभवनान्निर्गत्य ॥ ४।४१।३७,३८ ॥

तत्र चानन्तरा देशा ये केचन सुसंवृताः ॥ ४।४१।३९ ॥

तत्रेति । ये अनन्तराः अव्यवहिता देशाः । ते मार्गितव्या इति शेषः ॥ ४।४१।३९ ॥

तं च देशमतिक्रम्य महानृषभसंस्थितः ।

सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ ४।४१।४० ॥

तं च देशमतिक्रम्य, तस्माद्देशात्परत इत्यर्थः । ऋषभसंस्थितः ऋषभतुल्यसंस्थातः ॥ ४।४१।४० ॥

तं च देशमतिक्रम्य महानृषभसंस्थितः ।

सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ ४।४१।४१ ॥

न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन ।

रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ॥ ४।४१।४२ ॥

तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ।

शैलूषो ग्रामणीः शिग्रुः शुभ्रो बभ्रुस्तथैव च ॥ ४।४१।४३ ॥

रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ।

अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ॥ ४।४१।४४ ॥

ततः परं न वः सेव्यः पितृलोकः सुदारुणः ।

राजधानी यमस्यैषां कष्टेन तमसा वृता ॥ ४।४१।४५ ॥

एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः ।

शक्यं विचेतुं गन्तुं वा नातो गतिमातां गतिः ॥ ४।४१।४६ ॥

सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते ।

गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ ॥ ४।४१।४७ ॥

यस्तु मासान्निवृत्तो ऽग्रे दृष्टा सीतेति वक्ष्यति ।

मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ ४।४१।४८ ॥

गोशीर्षंकं गोरोचनासदृशवर्णम् । पद्मकं पद्मदलसवर्णम् । हरिश्यामं तमालदलवर्णम् । अग्निसमप्रभम् अग्निसदृशवर्णम् । एवंविधं दिव्यं चन्दनं यत्रोत्पद्यते स ऋषभः पर्वतो वर्तत इति पूर्वेणान्वयः ॥ ५।४१।४१४८ ॥

ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः ।

कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ ४।४१।४९ ॥

ततः तस्मात् पुरुषात् प्रियतरो नास्ति । मम प्राणात् विशेषतः, सः प्रियतर इति शेषः ॥ ४।४१।४९ ॥

अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः ।

मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरषार्थमारभध्वम् ॥ ४।४१।५० ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥

तदधिगुणं तदनुगुणम् । पुरुषार्थं पुरुषव्यापारम् । अत्र संयमिनीपर्यन्तमभिधानात् सप्तद्वीपसागरगमनमर्थसिद्धम् । एवमुत्तरसर्गयोरपि बोध्यम् । अत्र सार्धपञ्चाशत् श्लोकाः ॥ ४।४१।५० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥