प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् ।
वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ ४।३८।१ ॥
विसर्जयित्वा स हनीन् शूरांस्तान्कृतकर्मणः ।
मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ ४।३८।२ ॥
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ।
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ॥ ४।३८।३ ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ।
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥ ४।३८।४ ॥
एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ ४।३८।५ ॥
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ।
विसर्जयामास तदा तारामन्याश्च योषितः ॥ ४।३८।६ ॥
अथ रामेण सुग्रीवसमागमो ऽष्टात्रिंशे प्रतिगृह्येत्यादि । उपायनम् उपदाम् ॥ ४।३८।१६ ॥
एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत् ।
तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ ४।३८।७ ॥
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः ।
तानुवाच ततः प्राप्तान् राजा ऽर्कसदृशप्रभः ॥ ४।३८।८ ॥
उपस्थापयत क्षिप्रं शिबिकां मम वानराः ॥ ४।३८।९ ॥
श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ।
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥ ४।३८।१० ॥
तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ।
लक्ष्मणारुह्यातां शीघ्रमिति सौमित्रिमब्रवीत् ॥ ४।३८।११ ॥
एतेति । एत आगच्छत ॥ ४।३८।७११ ॥
इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसन्निभम् ।
बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ ४।३८।१२ ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः ॥ ४।३८।१३ ॥
शङ्खभेरीनिनादैश्च हरिभिश्चाभिनन्दितः ।
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ ४।३८।१४ ॥
स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ।
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥ ४।३८।१५ ॥
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ।
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ॥ ४।३८।१६ ॥
इत्युक्त्वेति । हरिभिः वाहकहरिभिः ॥ ४।३८।१२१६ ॥
आसाद्य च ततो रामं कृताञ्जलिपुटो ऽभवत् ।
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा ॥ ४।३८।१७ ॥
तटाकमिव तद् दृष्ट्वा रामः कुड्मलपङ्कजम् ।
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ ४।३८।१८ ॥
आसाद्येति । तथा ऽभवन् कृताञ्जलिपुटा अभवन् ॥ ४।३८।१७,१८ ॥
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ।
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥ ४।३८।१९ ॥
परिष्वज्य च धर्मात्मा निषीदेति ततो ऽब्रवीत् ॥ ४।३८।२० ॥
तं निषण्णं ततो दृष्ट्वा क्षितौ रामो ऽब्रवीद्वचः ॥ ४।३८।२१ ॥
धर्ममर्थं च कामं च यस्तु काले निषेवते ।
विभज्य सततं वीर स राजा हरिसत्तम ॥ ४।३८।२२ ॥
हित्वा धर्मं तथा ऽर्थं च कामं यस्तु निषेवते ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ ४।३८।२३ ॥
पादयोरिति । पूर्वं दूरादञ्जलिः कृतः सम्प्रति समीपे पादयोः पतनम् ॥ ४।३८।१९२३ ॥
अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः ।
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ ४।३८।२४ ॥
उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन ।
सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ॥ ४।३८।२५ ॥
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ ४।३८।२६ ॥
अमित्राणामिति । त्रिवर्गफलभोक्ता यथाकालं धर्मार्थकामरूपफलभोक्ता । अयथाकालानुष्ठानवैषम्यं द्योतयति तुशब्दः । धर्मेण राजधर्मेण ॥ ४।३८।२४२६ ॥
प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ।
तव देव प्रसादाच्च भ्रातुश्च जयतां वर ॥ ४।३८।२७ ॥
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ ४।३८।२८ ॥
प्रनष्टेत्यादि सार्धश्लोकमेकं वाक्यम् । देव त्वत्प्रसादात्तव भ्रातुः प्रसादाच्च कपिराज्यादिकं पुनश्च प्राप्तम् ॥ ४।३८।२७२८ ॥
एते वानरमुख्याश्च शतशः शत्रुसूदन ।
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ ४।३८।२९ ॥
ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव ।
कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ ४।३८।३० ॥
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः ।
स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥ ४।३८।३१ ॥
एत इति । आदाय आहूय ॥ ४।३८।२९३१ ॥
शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः ।
अयुतैश्चावृता वीराः शङ्कुभिश्च परन्तप ॥ ४।३८।३२ ॥
अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः ।
समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ।
आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः ॥ ४।३८।३३ ॥
मेरुमन्दरसङ्काशा विन्ध्यमेरुकृतालयाः ।
ते त्वामभिगमिष्न्यन्ति राक्षसं ये सबान्धवम् ।
निहत्य रावणं सङ्ख्ये ह्यानयिष्यान्ति मैथिलीम् ॥ ४।३८।३४ ॥
शतैरित्यादि । अत्र केचित्पदमध्याहर्तव्यम् । केचित् प्लवङ्गमाः शतैः कपिशतैः आवृता आगमिष्यन्ति । केचिच्छतसहस्रैरावृता आगमिष्यन्ति । केचित्कोटिभिरावृता आगमिष्यन्ति । केचिदयुतैरावृता आगमिष्यन्ति । केचिच्छङ्कुभिः । केचिदर्बुदैः । केचिन्मध्यैः । केचिदन्तैरावृता आगमिष्यन्ति । केचिद्धरयः समुद्रैरावृता आगमिष्यन्ति । केचित्परार्धैरावृता आगमिष्यन्तीति योजना । सङ्ख्यालक्षणमुक्तं ज्योतिःशास्त्रे “एकं दश शतमस्मात्सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथार्बुदवृन्दे खर्वं निखर्वं च । तस्मान्महासरोजं शङ्कुं सरितां पतिं त्वन्तम् । मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तथा ज्ञेयम्” इति । हरियूथपा इत्येतत्प्रथमान्तविशेषणत्वेन सर्वत्र सम्बध्यते ॥ ४।३८।३२३४ ॥
ततस्तमुद्योगमवेक्ष्य बुद्धिमान् हरिप्रवीरस्य निदेशवर्तिनः ।
बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ४।३८।३५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः ॥ ३८ ॥
तत इति । प्रबुद्धनीलोत्पलतुल्यदर्शनः विकसितनीलोत्पलदर्शनीयवर्णः ॥ ४।३८।३५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टात्रिंशः सर्गः ॥ ३८ ॥