०३७ किष्किन्धे वानरसेनामेलनम्

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।

हनुमन्तं स्थितं पार्श्वे सचिवं त्विदमब्रवीत् ॥ ४।३७।१ ॥

अथ सर्ववानरसमानयनं सप्तत्रिंशे एवमित्यादि ॥ ४।३७।१ ॥

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।

मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ ४।३७।२ ॥

महेन्द्रादय एव पञ्च शैलाः ॥ ४।३७।२ ॥

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वतः ।

पर्वतेषु समुद्रान्ते पश्चिमायां तु ये दिशि ॥ ४।३७।३ ॥

तरुणेति । पश्चिमायां दिशि ये स्थिताः तेषु ये वानराः स्थिता इति योजना । अस्तगिरिपर्यन्तपर्वतेष्वित्यर्थः ॥ ४।३७।३ ॥

आदित्यभवने चैव गिरौ सन्ध्याभ्रसन्निभे ।

पद्मतालवनं भीमं संश्रिता हरिपुङ्गवाः ॥ ४।३७।४ ॥

अञ्जनाम्बुदसङ्काशाः कुञ्जरप्रतिमौजसः ।

अञ्जने पर्वते चैव ये वसन्ति प्लवङ्गमाः ॥ ४।३७।५ ॥

आदित्यभवने उदयगिरौ । पद्माः चन्दनविशेषाः ॥ ४।३७।४,५ ॥

मनःशिलागुहावासा वानराः कनकप्रभाः ।

मेरुपार्श्वगताश्चैव ये धूम्रगिरिसंश्रिताः ॥ ४।३७।६ ॥

तरुणादित्यवर्णाश्च पर्वते च महारुणे ।

पिबन्तो मधु मैरेयं भीमवेगाः प्लवङ्गमाः ॥ ४।३७।७ ॥

वनेषु च सुरम्येषु सुगन्धिषु महत्सु च ।

तापसानां च रम्येषु वनान्तेषु समन्ततः ॥ ४।३७।८ ॥

मनःशिलागुहावासाः मनःशिलामयगुहावासाः । महारुणे महारुणाख्ये । यत्र यच्छब्दो नास्ति, तत्राध्याहर्तव्यः ॥ ४।३७।६८ ॥

तांस्तान् समानय क्षिप्रं पृथिव्यां सर्ववानरान् ।

सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥ ४।३७।९ ॥

सामेति । कल्पैः उपायैः । समानय तदर्थं प्रेषय ॥ ४।३७।९ ॥

प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।

त्वरणार्थं तु भूयस्त्वं हरीन्सम्प्रेषयापरान् ॥ ४।३७।१० ॥

प्रेषिता इति । प्रेषितदूतत्वरणार्थोक्तिः स्वस्य प्रकृतकार्ये पूर्वमेव सावधानतां लक्ष्मणाय द्योतयितुम् ॥ ४।३७।१० ॥

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।

इहानयस्व तान् सर्वान् शीघ्रं तु मम शासनात् ॥ ४।३७।११ ॥

अहोभिर्दशभिर्ये हि नागच्छन्ति ममाज्ञया ।

हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ ४।३७।१२ ॥

ये इति । दीर्घसूत्राः चिरक्रियाः उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ॥ ४।३७।११,१२ ॥

शतान्यथ सहस्राणां कोट्यश्च मम शासनात् ।

प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ ४।३७।१३ ॥

मेघपर्वतसङ्काशाश्छादयन्त इवाम्बरम् ।

घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ ४।३७।१४ ॥

शतानीति । बहुसङ्ख्याभिधानं लक्ष्मणाय वानरासङ्ख्येयत्वद्योतनार्थम् ॥ ४।३७।१३,१४ ॥

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।

आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम ॥ ४।३७।१५ ॥

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।

दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान् ॥ ४।३७।१६ ॥

त इति । गम्यत इति गतिः वासस्थानम् । पृथिव्यां सर्वान् हरीन् आनयन्तु इति सम्बन्धः ॥ ४।३७।१५१६ ॥

ते पदं विष्णुविक्रान्तं पतत्ित्रज्योतिरध्वगाः ।

प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥ ४।३७।१७ ॥

ते समुद्रेषु गिरिषु वनेषु च सरस्सु च ।

वानरा वानरान् सर्वान् रामहेतोरचोदयन् ॥ ४।३७।१८ ॥

मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।

सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ ४।३७।१९ ॥

ते पदमिति । पतत्ित्रज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः सन्तः विष्णुविक्रान्तं पदम् आकाशं प्रयाताः ॥ ४।३७।१७१९ ॥

ततस्ते ऽञ्जनसङ्काशा गिरेस्तस्मान्महाजवाः ।

तिस्रः कोट्यः प्लवङ्गानां निर्ययुर्यत्र राघवः ॥ ४।३७।२० ॥

अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे स्थिताः ।

तप्तहेममहाभासस्तस्मात्कोट्यो दश च्युताः ॥ ४।३७।२१ ॥

कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् ।

ततः कोटिसहस्राणि वानराणामुपागमन् ॥ ४।३७।२२ ॥

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।

तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ ४।३७।२३ ॥

अङ्गारकसमानानां भीमानां भीमकर्मणाम् ।

विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम् ॥ ४।३७।२४ ॥

तत इति । यत्र येन हेतुना राघवो वर्तते ततः तस्माद्धेतोः तस्मात् गिरेः अञ्जनगिरेः निर्ययुः ॥ ४।३७।२०२४ ॥

क्षीरोदवेलानिलयास्तमालवनवासिनः ।

नारिकेलाशनाश्चैव तेषां सङ्ख्या न विद्यते ॥ ४।३७।२५ ॥

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवा ।

आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ ४।३७।२६ ॥

क्षीरोदेति । अत्रापतन् द्रुतमित्यनुषज्यते । सङ्ख्या न विद्यत इति । उत्तरत्र सङ्ख्याकीर्तनं प्रधानाभिप्रायेण ॥ ४।३७।२५,२६ ॥

ये तु त्वरयितुं याता वानराः सर्ववानरान् ।

ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥ ४।३७।२७ ॥

तस्मिन् गिरिवरे रम्ये यज्ञो माहेश्वरः पुरा ।

सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः ॥ ४।३७।२८ ॥

अन्ननिष्यन्दजातानि मूलानि च फलानि च ।

अमृतास्वादकल्पानि ददृशुस्तत्र वानराः ॥ ४।३७।२९ ॥

तदन्नसम्भवं दिव्यं फलं मूलं मनोहरम् ।

यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ ४।३७।३० ॥

तानि मूलानि दिव्यानि फलानि च फलाशनाः ।

औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ ४।३७।३१ ॥

तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च ।

आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात् ॥ ४।३७।३२ ॥

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।

सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ॥ ४।३७।३३ ॥

ते तु तेन मुहूर्तेन यूथपाः शीघ्रगामिनः ।

किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः ॥ ४।३७।३४ ॥

ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ।

तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ४।३७।३५ ॥

सर्वे परिगताः शैलाः समुद्राश्च वनानि च ।

पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ४।३७।३६ ॥

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।

प्रतिजग्राह तत्प्रीतस्तेषां सर्वमुपायनम् ॥ ४।३७।३७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥

ये त्वति । तुशब्दो हनुमत्प्रेरितवानरख्यावर्तकः, नीलेन पूर्वं प्रेरिता इत्यर्थः । तेषामेव लक्ष्मणसन्निधाने समागमनम् । सद्यो हनुमत्प्रेरितानां तदसम्भवात् । तं प्रसिद्धम् ॥ ४।३७।२७३७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥