इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ ४।३६।१ ॥
अथ लक्ष्मणसुग्रीवसौहृदभाषणं षट्त्रिंशे इत्युक्त इत्यादि ॥ ४।३६।१ ॥
तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ ४।३६।२ ॥
तस्मिन्निति । सुमहत्त्रासमिति “आन्महतः” इत्याकाराभाव आर्षः । क्लिन्नम् आर्द्रम् ॥ ४।३६।२ ॥
ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ।
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥ ४।३६।३ ॥
स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् ॥ ४।३६।४ ॥
तत इति । बहुगुणं बहुविधभोगप्रदम् । महत् दिव्यम् ॥ ४।३६।३,४ ॥
प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥ ४।३६।५ ॥
प्रनष्टेति । इदं पूर्वोक्तं सर्वम् ॥ ४।३६।५ ॥
कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।
तादृशं विक्रमं वीर प्रतिकर्तुमरिन्दम ॥ ४।३६।६ ॥
क इति । तादृशं विक्रमं प्रतिकर्तुम्, तादृशस्य विक्रमस्य प्रतिकर्तुमित्यर्थः ॥ ४।३६।६ ॥
सीतां प्रप्स्यति धर्मात्मा वधिष्यति च रावणम् ।
सहायमात्रेण मया राघवः स्वेन तेजसा ॥ ४।३६।७ ॥
सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ।
शैलश्च वसुधा चैव बाणेनैकेन दारिताः ॥ ४।३६।८ ॥
धनुर्विस्फारयाणस्य यस्य शब्देन लक्ष्मण ।
सशैला कम्पिता भूमिः सहायैस्तस्य किन्नु वै ॥ ४।३६।९ ॥
अनुयात्रां नरेन्द्रस्य करिष्ये ऽहं नरर्षभ ।
गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥ ४।३६।१० ॥
सीतामिति । सहायमात्रेण मयेत्युपलक्षणे तृतीया । स्वयमेवार्थसाधकः अहं तु तस्य परिकरमात्रमिति भावः ॥ ४।३६।७१० ॥
यदि किञ्चिदतिक्रान्तं विश्वासात् प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ ४।३६।११ ॥
इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
अभवील्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥ ४।३६।१२ ॥
सर्वथा हि मम भ्राता सनाथो वानरेश्वर ।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ ४।३६।१३ ॥
यस्ते प्रभावः सुग्रीव य़च्च ते शौचमार्जवम् ।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ ४।३६।१४ ॥
सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ ४।३६।१५ ॥
यदीति । अतिक्रान्तम् अतिक्रमणम् । क्षमितव्यं क्षन्तव्यम् ॥ ४।३६।१११५ ॥
धर्मज्ञस्य कृतज्ञस्य सङ्ग्रामेष्वनिवर्तिनः ।
उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ ४।३६।१६ ॥
उपपन्नम् अर्हम् । युक्तं युक्तियुक्तम् ॥ ४।३६।१६ ॥
दोषज्ञः सति सामर्थ्ये को ऽन्ये भाषितुमर्हति ।
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ ४।३६।१७ ॥
सदृशश्चासि रामस्य विक्रमेण बलेन च ।
सहायो दैवतैर्दत्तश्चिराय हरिपुङ्गव ॥ ४।३६।१८ ॥
किन्तु शीघ्रमितो वीर निष्क्राम त्वं मया सह ।
सान्त्वय स्ववयस्यं त्वं भार्याहरणकर्शितम् ॥ ४।३६।१९ ॥
दोषज्ञः स्वदोषज्ञः । लोके हि समर्थः पुरुषः स्वदोषमपह्नते नतु प्रकाशयति, न तथा त्वामिति भावः ॥ ४।३६।१७१९ ॥
यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।
मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥ ४।३६।२० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥
स्वोक्तपरुषवाक्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तत्वमुपपादयन् स्वापराधं शमयति यच्चेति । भाषितं सीतोद्देशेन श्रवणासह्यं विलापम् ॥ ४।३६।२० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥