समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम् । त्ित्र त्त्र त्र
सारसारवसङ्घुष्टं रम्यज्योत्स्नानुलेपनम् ॥ ४।२९।१ ॥
समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसङ्ग्रहम् ।
अत्यर्थमसतां मार्गमेकान्तगतमानसम् ॥ ४।२९।२ ॥
निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् ॥ ४।२९।३ ॥
स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरन्तमहोरात्रं कृतार्थं विगतज्वरम् ॥ ४।२९।४ ॥
क्रीडन्तमिव देवेशं नन्दने ऽप्सरसां गणैः ।
मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम् ॥ ४।२९।५ ॥
उत्सन्नराज्यसन्देशं कामवृत्तमवस्थितम् ।
निश्चितार्थो ऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ ४।२९।६ ॥
प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः ॥ ४।२९।७ ॥
हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।
हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत् ॥ ४।२९।८ ॥
अत हनुमान् रामभक्तो ऽपि स्वस्वाम्यनुज्ञाभावेन तं ध्यायन् सुग्रीवसमीप एव स्थितः स्वस्वामिना सर्वस्वामिहितानुगुणं कार्यमारब्धवानित्याहैकोनत्रिंशे समीक्ष्येत्यादि हनुमान्वाक्यमब्रवीदित्यन्तमेकं वाक्यम् । हनुमान् उक्तगुणविशिष्टं व्योम उक्तगुणविशिष्टं सुग्रीवं च समीक्ष्य । हरीशं प्रसाद्य हरीश्वरमुपागम्य प्रणयाद्वाक्यमब्रवीदिति सम्बन्धः । विमलमित्यादिना सेनासन्नाहस्य प्राप्तकालत्वमुक्तम् । समृद्धार्थमित्यादिना समयातिक्रमहेतवः प्रदर्श्यन्ते । समृद्धार्थं सम्पूर्णरत्नवस्त्राभरणादिकम् । मन्दः अल्पः धर्मार्थयोः सङ्ग्रहः सम्पादनं यस्य तम् । एकान्तगतमानसम् एकस्मिन् कामपुरुषार्थे अन्तं निश्चयं गतं मानसं यस्य तथोक्तम् । यद्वा असतां कामुकानां मार्गम् एकान्तगतम् अत्यन्तगतं मानसं यस्य स तथा । “तीव्रैकान्तनितान्तानि” इत्यमरः । निर्वृत्तकार्यं निष्पन्नवालिवधरूपकार्यम् । सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतानीप्सितान् मनोरथान् राज्यप्राप्त्यनन्तरमेवं करिष्यामीति सङ्कल्पविषयीभूतानर्थान् तारां च प्राप्तवन्तमिति सम्बन्धः । कृतार्थं निष्पन्नधनम् ।
मन्त्रिणामनवेक्षकं मन्त्रिकृतकार्यापरामर्शकम् । उत्सन्नराज्यसन्देशं नष्टराज्यनियमनम् । कामवृत्तं कामव्यापारम् । अवस्थितं कामव्यापारपरतन्त्रतया ऽवस्थितमित्यर्थः । निश्चितार्थः निश्चितकर्तव्यः । अत्र हेतुः अर्थतत्त्वज्ञ इति । कालोचितो धर्मः कालधर्मः तद्विशेषवित् । वाक्यवित् तदुचितव्यवहारवित् । हितम् उदर्कसुखकरम् । तत्त्वं यथार्थम् । पथ्यं नीतिमार्गादनपेतम् । सामधर्मार्थनीतिमत् साम च धर्मश्च अर्थश्च नीतिश्च सामधर्मार्थनीति तदस्यास्तीति सामधर्मार्थनीतिमत् । प्रणयप्रीतिसंयुक्तम् प्रणयः समानविषयस्नेहः, प्रीतिः न्यूनविषयः । विश्वासकृतनिश्चयम् आप्तवाक्यत्वविश्वासे विषये कृतनिश्चयम् ॥ ४।२९।१८ ॥
राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।
मित्राणां सङ्ग्रहः शेषस्तं भवान् कर्तुमर्हति ॥ ४।२९।९ ॥
राज्यमिति । कौली कुलक्रमागता श्रीः सम्पत् अभिवर्धिता, अप्रतिद्वन्दत्वादिति भावः । मित्राणां सङ्ग्रहः तत्कार्यकरणम् । शेषः अवशिष्टो भवति । इदमेव वचनं प्रसाद्य वाक्यैरित्यादिना पूर्वं प्रशंसितम् ॥ ४।२९।९ ॥
यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥ ४।२९।१० ॥
मित्रकार्यस्यावश्यकर्तव्यत्वमाह यो हीति । कालज्ञः मित्रसङ्ग्रहकालज्ञः । तत्कालातिक्रमे विपरीतं भवतीत्यर्थः । मित्रेषु वर्तते, मित्राधीनो भवतीत्यर्थः ॥ ४।२९।१० ॥
यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप ।
समवेतानि सर्वाणि स राज्यं महदश्नुते ॥ ४।२९।११ ॥
यस्येति । दण्ड्यते ऽनेनेति दण्डः सेनाविशेषः । आत्मा प्रभुरित्यर्थः । समवेतानि समुदितानि । एकन्यूनत्वे महाराज्यहानिरिति भावः ॥ ४।२९।११ ॥
तद्भावन् वृत्तसम्पन्नः स्थितः पथि निरत्यये ।
मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ॥ ४।२९।१२ ॥
तदिति । निरत्यये अविनाशिनि । पथि सन्मार्ग इत्यर्थः । मित्रार्थं मित्रकार्यम् । अभिनीतार्थं प्रापितप्रयोजनं यथा भवति तथा । यथावत् यथाप्रतिज्ञमिति यावत् ॥ ४।२९।१२ ॥
सन्त्यज्य सर्वकर्माणि मित्रार्थे यो ऽनुवर्तते ।
सम्भ्रमाद्धि कृतोत्साहः सो ऽनर्थैर्नावरुध्यते ॥ ४।२९।१३ ॥
सन्त्यज्येति । सर्वकार्माणि स्वभोगसाधनानि सन्त्यज्य । कृतोत्साहः सन् सम्भ्रमात् आदरात् मित्रार्थे विषये यः अनुवर्तते अनुस्यूततया तिष्ठति, सो ऽनर्थैर्नावरुध्यते न सम्बध्यते ॥ ४।२९।१३ ॥
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ।
स कृत्वा महतोप्यर्थान्न मित्रार्थेन युज्यते ॥ ४।२९।१४ ॥
एवं कर्तव्यं मित्रकार्यमुचितकाले कर्तव्यमित्याह यस्त्विति । कालव्यतीतेषु अतिक्रान्तकालेषु ॥ ४।२९।१४ ॥
यदिदं वीर कार्यं नो मित्रकार्यमरिन्दम ।
क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ॥ ४।२९।१५ ॥
यदिदमिति । हेवीर नः अस्माभिः । यदिदं मित्रकार्यं कर्तव्यम् एतत् वैदेह्याः परिमार्गणं क्रियतामिति सम्बन्धः ॥ ४।२९।१५ ॥
तदिदं वीरकार्यं ते कालतीतमरिन्दम ॥ ४।२९।१६ ॥
तदिदमिति । ते कार्यं त्वया कर्तव्यम् । इदं मित्रकार्यम् ॥ ४।२९।१६ ॥
न च कालमतीतं ते निवेदयति कालवित् ।
त्वरमाणो ऽपि सन् प्राज्ञस्तव राजन् वशानुगः ॥ ४।२९।१७ ॥
न चेति । कालवित्, राम इति शेषः । त्वरमाण इत्यर्धं पूर्वेणान्वेति । कालवित् प्राज्ञो रामः त्वरमाणो ऽपि सन् वैदेहीसमानयनाय त्वरमाणो ऽपि सन् न निवेदयतीति सम्बन्धः ॥ ४।२९।१७ ॥
कुलस्य हेतुः स्फीतस्य दीर्घबन्धुश्च राघवः ।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ ४।२९।१८ ॥
कुलस्येति । स्वयं चेति, त्वमपि गुणैरप्रतिम इत्यर्थः ॥ ४।२९।१८ ॥
तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।
हरीश्वर हरिश्रोष्ठानाज्ञापयितुमर्हसि ॥ ४।२९।१९ ॥
तस्येति । अज्ञापयितुम्, वानरसोनामानेतुमिति शेषः ॥ ४।२९।१९ ॥
न हि तावद्भवेत्कालो व्यतीतश्चेदनादृते ।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ ४।२९।२० ॥
इदानीं वानरानयने ऽपि कालव्यतिक्रमस्तुल्य इत्याशङ्क्याह नहीति । चोदनादृते रामप्रेरणं विना । कालो न व्यतीतो भवेत्, रामचोदनानन्तरं कार्यं क्रियते चेत्तदा कालातिक्रमः, तच्चोदनात्पूर्वमस्माभिः कार्यप्रवर्तने न कालातिक्रमदोष इति भावः ॥ ४।२९।२० ॥
अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर ।
किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ ४।२९।२१ ॥
अकर्तुः अनुपकर्तुः ॥ ४।२९।२१ ॥
शक्तिमानपि विक्रान्तो वानरर्क्षगणेश्वर ।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किं न सज्जसे ॥ ४।२९।२२ ॥
कामं खलु शरैः शक्तः सुरासुरमहोरगान् ।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते ॥ ४।२९।२३ ॥
शक्तिमानपीति । प्रीतिं कर्तुम् । आज्ञायाम् आज्ञापने । न सज्जसे नोद्योगं करोषि ॥ ४।२९।२२,२३ ॥
प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम् ।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे ॥ ४।२९।२४ ॥
न देवा न च गन्धर्वा नासुरा न मरुद्गणाः ।
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ ४।२९।२५ ॥
तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ।
रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम् ॥ ४।२९।२६ ॥
प्राणत्यागेति । प्राणत्यागाविशङ्केनेत्यनेन उपकारमहत्त्वं द्योतितम् ॥ ४।२९।२४२६ ॥
नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे ।
कस्यचित्सज्जते ऽस्माकं कपीश्वर तवाज्ञया ॥ ४।२९।२७ ॥
नाधस्तादिति । कस्यचिदिति अस्माकं मध्ये कस्यचिद्गनिर्न सज्जते न मन्दीभवति ॥ ४।२९।२७ ॥
तदाज्ञापय कः किं ते कृते कुत्र व्यवस्यतु ।
हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतो ऽनघाः ॥ ४।२९।२८ ॥
तस्य तद्वचनं श्रुत्वा काले साधु निवेदितम् ।
सुग्रीवः सत्त्वसम्पन्नश्चकार मतिमुत्तमाम् ॥ ४।२९।२९ ॥
स सन्दिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसङ्ग्रहे ॥ ४।२९।३० ॥
तदिति । अप्रधृप्याः कोट्यग्रतः कोट्यधिकाः । हरयः ते सन्ति तेषां मध्ये कः । ते कृते त्वदर्थम् । किं, करोत्विति शेषः । कुत्र कुत्र कार्ये । व्यवस्यतु व्यवसायं करोतु । तदाज्ञापय ॥ ४।२९।२८३० ॥
यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।
समागच्छन्त्यसङ्गेन सेनाग्राणि तथा कुरु ॥ ४।२९।३१ ॥
यथेति । सेनाग्राणि सेनाग्रेसरान्, सेनानेतृ़नित्यर्थः । तथा कुरु तथा आज्ञापय ॥ ४।२९।३१ ॥
ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः ।
समानयन्तु ते सैन्यं त्वरिताः शासनान्म ।
स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु ॥ ४।२९।३२ ॥
ये त्विति । अन्तपालाः सेनापर्यन्तपालकाः ॥ ४।२९।३२ ॥
त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।
तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा ॥ ४।२९।३३ ॥
त्रिपञ्चेति । त्रिपञ्चरात्रादूर्ध्वं पञ्चदशरात्रादनन्तरदिवसे ॥ ४।२९।३३ ॥
हरींश्च वृद्धानुपयातु साङ्गदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।
इति व्यवस्थां हरिपुङ्गवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ ४।२९।३४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥
वृद्धान् जाम्बवत्प्रभृतीन् ॥ ४।२९।३४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥