०२८ प्रावृड्वर्णनम्

स तथा वालिनं हत्वा सुग्रीवमभिषिच्य च ।

वसन्माल्यवतः पृष्ठे रामो लक्ष्मणमब्रवीत् ॥ ४।२८।१ ॥

अथ रामः स्वस्याश्रितविश्लेषासहिष्णुत्वमन्यापदेशेन लक्ष्मणाय प्रदर्शयन् वर्षर्तुवर्णनमारभते ऽष्टाविंशे स तथेत्यादि । सः, यत्किञ्चिद्विरोधिनिरसनाश्रितसंरक्षणलाभेप्यसत्कल्पमेतन्मन्यमानः माल्यवतः पूर्वं प्रस्रवणाख्यतयोक्तस्य गिरेः पृष्ठे उपरि वसन्, सर्वजनोज्जीवनाय सन्निहित इत्यर्थः ॥ ४।२८।१ ॥

अयं स कालः सम्प्राप्तः समयो ऽद्य जलागमः ।

सम्पश्य त्वं नभो मेघैः संवृतं गिरिसन्निभैः ॥ ४।२८।२ ॥

अयमिति । समयः सुग्रीवस्य स्थानावधित्वेन सङ्केतितः सो ऽयं जलागमः कालः वर्षाकालः अद्य सम्प्राप्तः सम्प्रवृत्तः ॥ ४।२८।२ ॥

नवमासधृतं गर्भं भास्करस्य गभस्तिभिः ।

पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम् ॥ ४।२८।३ ॥

नवेति । द्यौः भास्करस्य गभस्तिभिः किरणैः समुद्राणां रसं पीत्वा नवमासधृतं कार्तिकाद्याषाढपर्यन्तनवमासधृतं रसायनं षड्रसानां कारणं गर्भं जलं प्रसूते जनयति । भास्करस्य गभस्तिभिरित्यनेन “याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति” इति श्रुतिः सूच्यते । समुद्राणां रसमित्यनेन हंसस्य क्षीरनीरविभागचातुर्यवत् नीरलवणविभागसामर्थ्यं द्योत्यते । अत्र प्रस्तुतद्योवर्षवृत्तान्तेनाप्रस्तुतस्यानेकनायकाहितवीर्यगर्भं भस्त्रिकाभिर्धृत्वा काले प्रेमास्पदसुतप्रसवकृद्वधूवृत्तान्तस्य प्रतीतेः समासोक्तिरलङ्कारः । यदि सीता सन्निहिता सापीदानीं नवप्रसूतिः स्यादिति राममनोरथो गम्यते ॥ ४।२८।३ ॥

शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः ।

कुटजार्जुनमालाभिरलङ्कर्तुं दिवाकरम् ॥ ४।२८।४ ॥

शक्यमिति । मेघा एव सोपनानि तेषां पङ्क्तिभिरम्बरमारुह्य कुटजार्जुनानां वार्षिकपुष्पाणां मालाभिः दिवाकरम् अस्मत्कृलगुरुभूतसूर्यमध्ये सदा ध्येयं विष्णुम् “अलङ्कारप्रियो विष्णुः” इति न्यायेनालङ्कुर्तुं शक्यम् । लिङ्गसामान्ये नपुंसकम् । “सह पत्न्या विशालाक्ष्या नारायणमुपागमत्” इत्युक्तरीत्या सीतया सहाराधनं न लब्धमित्युत्कण्ठा द्योत्यते ॥ ४।२८।४ ॥

सन्ध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डरैः ।

स्निग्धैरभ्रपटच्छेदैर्बद्धव्रणमिवाम्बरम् ॥ ४।२८।५ ॥

सन्ध्यारागोत्थितैः उत्थितसन्ध्यारागैः । आहिताग्न्यादित्वात् परनिपातः । वस्त्रखण्डपक्षे उत्थितसन्ध्यातुल्यरागैः अत एव ताम्रैः अन्तेषु प्रान्तेषु अधिकपाण्डरैः अत्यन्तशुभ्रैः स्निग्धै आर्द्रैः अभ्रपटच्छेदैः अभ्राणि मेघा एव पटच्छेदाः वस्त्रखण्डाः तैः बद्धव्रणमिवाम्बरं भाति । उपमालङ्कारः ॥ ४।२८।५ ॥

मन्दमारुतनिश्वासं सन्ध्याचन्दनरञ्जितम् ।

आपाण्डुजलदं भाति कामातुरमिवाम्बरम् ॥ ४।२८।६ ॥

मन्दमारुत एव निश्वासो यस्य तत् तथा । अनेन निरन्तरनिश्वासवत्त्वमुच्यते । सन्ध्या सन्ध्यारागः । स एव चन्दनं तेन रञ्जितम् आलिप्तम् । अनेन तापशान्तिकरशीतोपचार उक्तः । आपाण्डुजलदमित्यनेन विरहपाण्डुतोक्ता । अत एव कामातुरं कान्ताविरहपीडितमिवेत्युत्प्रेक्षा रूपकानुप्राणिता ॥ ४।२८।६ ॥

एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता ।

सीतेव शोकसन्तप्ता मही बाष्पं विमुञ्चति ॥ ४।२८।७ ॥

एषेति । घर्मेण ग्रीष्मसन्तापेन । सीपापक्षे विरहतापेन । परिक्लिष्टा नववारिभिः परिप्लुता सिक्ता । सीतापक्षे अश्रुक्लिन्ना । बाष्पम् ऊष्म अश्रुजलं च विमुञ्चति । प्रथमजलनिपाते हि भूमेरूष्मा समुदञ्चति । श्लोषालङ्कारः ॥ ४।२८।७ ॥

मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः ।

शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः ॥ ४।२८।८ ॥

मेघेति । मेघेत्यादिना मान्द्यमुक्तम् । कह्लारेत्यादिना शैत्यसौरभ्ये । एवं गुणत्वात् वाताः आदरातिशयेन अञ्जलिभिरादाय पातुं शक्यम् । अतिशयोक्तिरलङ्कारः ॥ ४।२८।८ ॥

एष फुल्लार्जुनः शैलः केतकैरधिवासितः ।

सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते ॥ ४।२८।९ ॥

फुल्लार्जुन इत्यनेन मालालङ्कृतत्वमुच्यते । केतकैरधिवासित इत्यनेन चन्दनादिमत्त्वं च सुग्रीवस्य सूच्यते । शान्तारिरित्यनेन शैलस्य निस्तापत्वमुक्तम् । बिम्बप्रतिबिम्बभावेन साम्यप्रतिपादनादुपमालङ्कारः ॥ ४।२८।९ ॥

मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः ।

मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ ४।२८।१० ॥

मेघा एव कृष्णाजिनानि तेषां धराः नीलवर्णतया तद्रूपणम् । शुभ्रत्वेन धाराया उपवीतत्वरूपणम् । धारा निर्झरधाराः । मारुतापूरितगुहा इत्यनेन शब्दहेतुवायुमत्कण्ठत्वमुच्यते । प्राधीताः प्रकर्षेणाध्येतुमुपक्रान्ताः । आदिकर्मणि क्तः । रूपकानुप्राणित उपमालङ्कारः ॥ ४।२८।१० ॥

कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम् ।

अन्तः स्तनितनिर्घोषं सवेदनमिवाम्बरम् ॥ ४।२८।११ ॥

कशाभिरिति । विद्युद्भिरेव हैमीभिः कशाभिः व्यस्तरूपकम् । ताडितमिव स्थितम् । स्तनितमेव निर्घोषो यस्य तत् । अत एव अन्तः सवेदनमिवाम्बरं भाति । कशाभिघातेन उच्चैरधीयानसखेदमाणवकसाम्यमुच्यते । उपमोत्प्रेक्षारूपकाणामङ्गाङ्गिभावेन सङ्करः ॥ ४।२८।११ ॥

नीलमेघाश्रिता विद्युत् स्फुरन्ती प्रतिभाति मे ।

स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी ॥ ४।२८।१२ ॥

स्फुरन्ती चलन्ती । तपस्विनी शोच्या ॥ ४।२८।१२ ॥

इमास्ता मन्मथवतां हिताः प्रतिहता दिशः ।

अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः ॥ ४।२८।१३ ॥

घनैरनुलिप्ता इव स्थिताः । नष्टग्रहनिशाकराः अदृष्टशुक्रादिग्रहचन्द्राः । “णश अदर्शने” इत्यस्मान्निष्ठा । यद्वा नष्टग्रहः ग्रहणरहितः, अदृश्यमान इत्यर्थः । तादृशश्चन्द्रो यासु ताः । अत एव प्रतिहताः अज्ञातप्राच्युदीच्यादिदिशाविभागाः ता इमाः दिशः मन्मथवतां सस्त्रीकाणां हिताः सुखकराः, विरहिणां तु दुःखकरा इत्यर्थः । यद्वा मन्मथवताम् अभिसारिकजनानां हिताः ॥ ४।२८।१३ ॥

क्वचिद्वाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान् ।

कुटजान् पश्य सौमित्रे पुष्पितान् गिरिसानुषु ।

मम शोकाभिभूतस्य कामसन्दीपनान् स्थितान् ॥ ४।२८।१४ ॥

क्वचिदित्यादिसार्धश्लोक एकान्वयः । बाष्पाभिसंरुद्धान् अभिनवजलकणसेचनसमुत्थनिदाधोष्मसमावृतान् । कामुकपक्षे आनन्दबाष्पवतः । वर्षागमेन समुत्सुकान् आप्यायितान् अन्यत्र स्त्रीसङ्गमसन्तुष्टान् गिरिसानुषु पुष्पितान् अन्यत्र सहासान् अत एव मम शोकाभिभूतस्य कामसन्दीपनान्, अन्यरतिदर्शनस्योद्दीपनत्वादिति भावः । अनेन केषुचिदस्मदीयेषु ब्रह्मानुभवसन्तुष्टेषु सत्सु केषाञ्चिदस्मदनुभवाभावो ममातीव दुःसह इत्युक्तम् ॥ ४।२८।१४ ॥

रजः प्रशान्तं सहिमो ऽद्य वायुर्निदाघदोषप्रसराः प्रशान्ताः ।

स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ ४।२८।१५ ॥

अथ भगवत्कटाक्षफलमन्यापदेशेन दर्शयति रज इत्यादिना । रज इत्युपलक्षणम् । रजस्तमसी प्रक्रान्ते । वायुशब्देन सततसंसारगतिर्जन इत्युच्यते । सहिम इति शीतलहृदयत्वम् । निदाघेत्यादिना आध्यात्मिकादितापशान्तिः । यात्रा संसारगतिः । स्वदेशान् स्वप्राप्यभूतपरमपदम् । स्वभावार्थस्तु स्पष्ट एव ॥ ४।२८।१५ ॥

सम्प्रस्थिता मानसवासलुब्धाः प्रियान्विताः सम्प्रति चक्रवाकाः ।

अभीक्ष्णवर्षोदकविक्षतेषु यानानि मार्गेषु न सम्पतन्ति ॥ ४।२८।१६ ॥

मानसवासलुब्धाः हंसाः सम्प्रस्थिताः । वर्षभीततया क्वचिल्लीनाः परमहंसाख्यानां सन्न्यासिनां चातुर्मास्यतया सञ्चारनिवृत्तिर्द्योत्यते । चक्रवाकाः कामोद्रेकेण प्रियासमन्विता भवन्ति । यानासम्पतने हेतुः अभीक्ष्णेति । यानानि शकटरथादीनि । सम्प्रस्थिता इत्यनेन कृतवैराग्यत्वमुत्यते । प्रियान्विता इति भगवद्भक्तिः । अभीक्ष्णेत्यादिना भगवत्कटाक्षेण निवृत्तकर्मत्वमुत्यते ॥ ४।२८।१६ ॥

क्वचित्प्रकाशं क्वचिदप्रकाशं नभः प्रकीर्णाम्बुधरं विभाति ।

क्वचित्क्वचित्पर्वतसन्निरुद्धं रूपं यथा शान्तमहार्णवस्य ॥ ४।२८।१७ ॥

क्वचिदिति । प्रकीर्णाम्बुधरं विप्रकीर्णमेघम् । अत एव क्वचित्प्रकाशं क्वचिदप्रकाशं नभः क्वचित्क्वचित् पर्वतसन्निरुद्धम् । शान्तमहार्णवस्य निस्तरङ्गसमुद्रस्य रूपं स्वरूपमिव भाति । अनेन मन्दाज्ञानेन प्रकाशाप्रकाशं ब्रह्मस्वरूपमुच्यते ॥ ४।२८।१७ ॥

व्यामिश्रितं सर्जकदम्बपुष्पैर्नवं जलं पर्वतधातुताम्रम् ।

मयूरकेकाभिरनुप्रयातं शैलापगाः शीघ्रतरं वहन्ति ॥ ४।२८।१८ ॥

सर्जैः असनपुष्पैः कदम्बपुष्पैश्च व्यामिश्रितं सम्मिलितम् । पर्वतधातुताम्रमित्यनेन नदीनां पर्वतादुत्पत्तिरुक्ता । मयूराणां केकाभिः केकारवैः अनुप्रयातम् अनुस्यूतं नवं जलं वहन्ति । अत्र सात्त्विकराजसज्ञानमिश्रं भगवद्विषयानुरागयुक्तं भक्तिप्रेरितस्तुतिरवमुखरितपरिसरं हृदयं वहन्तो भक्ताः कथ्यन्ते ॥ ४।२८।१८ ॥

रसाकुलं षट्पदसन्निकाशं प्रभुज्यते जम्बुफलं प्रकामम् ।

अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम् ॥ ४।२८।१९ ॥

रसाकुलं माधुर्यव्याप्तम् । षट्पदसन्निकाशं भृङ्गवन्नीलम् । जम्बु जम्ब्वाख्यं फलम् । “जम्बूः स्त्री जम्बु जाम्बवम्” इत्यमरः । प्रकामम् अतिशयेन प्रभुज्यते, जनैरिति शेषः । अनेकवर्णं रक्तहरिताद्यनेकरूपम् । आम्रफलं चूतफलम् । अनेन भगवत्कृत्या जीवफलभोग उच्यते ॥ ४।२८।१९ ॥

विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसन्निकाशाः ।

गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः ॥ ४।२८।२० ॥

विद्युदिति । नक्षत्रमालास्थानीया बलाकमाला शैलेन्द्रस्य कूटानां शृङ्गाणामाकृतेः संस्थानस्य सन्निकाशास्तुल्याः । अनेन सर्वलोकप्रसिद्धाः सकलावावदूकाः वेदमार्गप्रतिष्ठापका उक्ताः ॥ ४।२८।२० ॥

वर्षोदकाप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबर्हिणानि ।

वनानि निर्वृष्टबलाहकानि पश्यापराह्णेष्वधिकं विभान्ति ॥ ४।२८।२१ ॥

निर्वृष्टाः वर्षुकाः बलाहकाः मेघाः येषु तानि । कर्तरि क्तः । अत्र दिव्यदम्पत्योः स्वकरोद्धृतकुम्भजलसिक्तालवालकलितोद्यानतुल्या लोकाः सर्वे भगवत्कृपावर्षेण सम्पन्नार्थकामा इत्युच्यते ॥ ४।२८।२१ ॥

समुद्वहन्तः सलिलातिभारं बलाकिनो वारिधरा नदन्तः ।

महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रम्य पनः प्रयान्ति ॥ ४।२८।२२ ॥

समुद्वहन्त इति । सगर्भस्त्रीजनाः पर्वतमारोहन्त इव महत्सु शृङ्गेषु पुनःपुनर्विश्रम्य प्रयान्ति । अनेन “हृदयेनोद्वहन् हरिम्” इत्युक्तरीत्या भगवद्ध्यानेन युक्ताः विशदज्ञानाः सन्ततस्तुतिशीलाः पूर्वाघोत्तराघक्लोशं क्रमेणोत्तीर्य परां कोटिमापन्नाः प्रतिपाद्यन्ते ॥ ४।२८।२२ ॥

मेघाभिकामा परिसन्पतन्ती सम्मोदिता भाति बलाकपङ्क्तिः ।

वातावधूता वरपौण्डरीकी लम्बेव माला रचिता ऽम्बरस्य ॥ ४।२८।२३ ॥

मेघेति । गर्भधारणार्थं मेघमभिकामयत इति मेघाभिकामा, परिसम्पतन्ती मेघं प्राप्तुमागच्छन्तीत्यर्थः । सम्मोदिता सञ्जातसम्मोदा । पुण्डरीकाणां सितपद्मानां विकारः पौण्डरीकी, वरा चासौ पौण्डरीकी चेति कर्मधारयः । लम्बा रचिता लम्बमानतया कृता । अनेन भगवन्तं कालमेघश्यामं प्राप्तुं प्रवृत्ता भक्तिरूपापन्नधीर्भवति सत्पुरुषस्येति द्योत्यते ॥ ४।२८।२३ ॥

बालेन्द्रगोपान्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन ।

गात्रानुवृत्तेन शुकप्रभेण नारीव लाक्षोक्षितकम्बलेन ॥ ४।२८।२४ ॥

बालेन्द्रगोपैः अन्तरेषु चित्रितेन नानावर्णीकृतेन नवशाद्बलेन उपलक्षिता भूमिः शुकप्रभेण प्राचुर्येण शुकवर्णेन लाक्षोक्षितकम्बलेन मध्ये मध्ये लाक्षारसरञ्जितेन कम्बलेन नारीव भाति । अत्र भगवत्कटाक्षवर्षेण किञ्चिदुदञ्चितभक्तिका उच्यन्ते ॥ ४।२८।२४ ॥

निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरभ्युपैति ।

हृष्टा बलाका घनमभ्युपैति कान्ता सकामा प्रियमभ्युपैति ॥ ४।२८।२५ ॥

निद्रेति । आषाढे स्वापारम्भः, श्रावणे निद्रासक्तिरुच्यते । अत्र तुल्ययोगितालङ्कारः । लोकोज्जीवनप्रवृत्त्या हरेस्तदेकचित्तत्वं शेषभूतानां शेषिपारतन्त्र्यसिद्धिश्च द्योतिता ॥ ४।२८।२५ ॥

जाता वनान्ताः शिखिसम्प्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः ।

जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा ॥ ४।२८।२६ ॥

शिखिभिः सम्प्रनृत्तं येषु ते तथोक्ताः । कदम्बशब्देन कदम्बपुष्पमुच्यते । सकदम्बपुष्पशाखा इत्यर्थः । सस्यवनेन सस्यसमूहेन । अभिरामा रम्या । अनेन सर्वानुकूल्यमुक्तम् ॥ ४।२८।२६ ॥

वहन्ति वर्षन्ति नदन्ति भान्ति ध्यायन्ति नृत्यन्ति समाश्वसन्ति ।

नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनःऀ प्लवङ्गाः ॥ ४।२८।२७ ॥

वहन्तीति । यथासङ्ख्यमलङ्कारः । प्लवङ्गाः वानराः समाश्वसन्ति । एकत्रैव बहुभक्ष्यलाभेन अचलचित्ता भवन्तीत्यर्थः ॥ ४।२८।२७ ॥

प्रहर्षिताः केतकपुष्पगन्धमाघ्राय हृष्टा वननिर्झरेषु ।

प्रपातशब्दाकुलिता गज्रन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ ४।२८।२८ ॥

हृष्टाः पूर्वमेव सन्तुष्टाः केतकगन्धमाघ्राय प्रहर्षिताः प्रकर्षेण सन्तुष्टाः । वननिर्झरेषु यः प्रपातशब्दः पतनकृतशब्दः तेनाकुलिताः ॥ ४।२८।२८ ॥

धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः ।

क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ ४।२८।२९ ॥

धारेति । क्षणार्जितं तत्क्षणसम्पादितं पुष्परसेनावगाढम् उत्पन्नं मदं धारानिपातैः अभिहन्यमानाः, अत एव पुष्पं विहाय केवलं शाखासु लम्बमानाः षट्चरणाः भृङ्गाः त्यजन्ति, कदम्बपुष्पेषु रसबाहुल्यात्क्षणेन मदः क्षणेन तद्धानिश्च भवतीत्यर्थः ॥ ४।२८।२९ ॥

अङ्गारचूर्णोत्करसन्निकाशैः फलैः सुपर्याप्तरसैः समृद्धैः ।

जम्बूद्रुमाणां प्रविभान्ति शाखा निलीयमाना इव षट्पदौघैः ॥ ४।२८।३० ॥

अङ्गारचूर्णानाम् इङ्गालचूर्णानाम् उत्करैः समूहैस्तुल्याः अङ्गारचूर्णोत्करसन्निकाशाः, तद्वन्नीला इत्यर्थः ॥ ४।२८।३० ॥

तडित्पताकाभिरलङ्कृतानामुदीर्णगम्भीरमहारवाणाम् ।

विभान्ति रूपाणि बलाहकानां रणोद्यतानामिव वारणानाम् ॥ ४।२८।३१ ॥

तडिदिति । विद्युत्पताका इति श्लोकोक्तमेवार्थमादरातिशयेन भङ्ग्यन्तरेणोक्तवान् ॥ ४।२८।३१ ॥

मार्गानुगः शैलवनानुसारी सम्प्रस्थितो मेघरवं निशम्य ।

युद्धाभिकामः प्रतिनागशङ्की मत्तो गजेन्दः प्रतिसन्निवृत्तः ॥ ४।२८।३२ ॥

मार्गेति । मार्गानुगः सन्मार्गचारी, वेदमार्गानुसारी दिग्जयाय प्रवृत्तः प्रतिवादिशब्दं श्रुत्वा वादाहवकाङ्क्षी प्रतिसन्निवृत्तः पुरुषधौरेयो ऽत्र गम्यते ॥ ४।२८।३२ ॥

क्वचित्प्रगीता इव षट्पदौघैः क्वचित्प्रनृत्ता इव नीलकण्ठैः ।

क्वचित्प्रमत्ता इव वारणेन्द्रैर्विभान्त्यनेकाश्रयिणो वनान्ताः ॥ ४।२८।३३ ॥

क्वचिदिति । प्रकृष्टं गीतं येषां ते प्रगीताः । एवमुत्तरत्रापि योज्यम् । अनेकाश्रयिणः गीतनृत्तमदाश्रयिणः ॥ ४।२८।३३ ॥

कदम्बसर्जार्जुनकन्दलाढ्या वनान्तभूमिर्नववारिपूर्णा ।

मयूरमत्ताभिरुतप्रनृत्तैरापानभूमिप्रतिमा विभाति ॥ ४।२८।३४ ॥

कदम्बैः, सर्जैः, बन्धूकैः, कन्दलैः, भूतालपुष्पैश्चाढ्या मयूराणां मत्ताभिरुतैः प्रनृत्तैश्च आपानभूमिप्रतिमा मद्यपानस्थलीतुल्या विभाति । सा हि संस्कारपुष्पाढ्या मद्यपूर्णा उन्मादनृत्तवत्पुरुषयुक्ता च भवति ॥ ४।२८।३४ ॥

मुक्तासकाशं सलिलं पतद्वै सुनर्मलं पत्त्रपुटेषु लग्नम् ।

हृष्टा विवर्णच्छदना विहङ्गाः सुरेन्द्रदत्तं तृषिताः पिबन्ति ॥ ४।२८।३५ ॥

मुक्तेति । विवर्णच्छदनाः विविधवर्णपक्षाः विहङ्गाः चातकाः सुरेन्द्रदत्तं देवेन्द्रदत्तम् । चातकाः भूस्थं जलं न पिबन्ति, किन्तु सद्यो वर्षदेवताभूतेन्द्रदत्तमेव पिबन्तीति प्रसिद्धिः ॥ ४।२८।३५ ॥

षट्पादतन्त्रीमधुराभिधानं प्लवङ्गमोदीरितकण्ठतालम् ।

आविष्कृतं मेघमृदङ्गनादैर्वनेषु सङ्गीतमिव प्रवृत्तम् ॥ ४।२८।३६ ॥

षट्पादा भृङ्गाः एव तन्त्री तस्या मधुराभिधानं मधुरनादः यस्मिन् तत् । प्लवङ्गमोदीरितं मण्डूकनाद एव कण्ठतालो यस्मिन् तत् । मेघा एव मृदङ्गाः मर्दलाः तेषां नादैराविष्कृतं प्रकटीकृतं सङ्गीतं वनेषु प्रवृत्तमिव सम्बभूवेति योजना ॥ ४।२८।३६ ॥

क्वचित्प्रनृत्तैः क्वचिदुन्नदद्भिः क्वचिच्च वृक्षाग्रनिषण्णकायैः ।

व्यालम्बबर्हाभरणैर्मयूरैर्वनेषु सङ्गीतमिव प्रवृत्तम् ॥ ४।२८।३७ ॥

सङ्गीतविषये केचिन्नृत्यन्ति केचिद्गायन्ति केचित् प्रधाना अनुभवन्ति तत्सर्वं वने ऽपि दर्शयति नृत्यन्तो मयूराः नर्तकस्थानीयाः, नदन्तो मयूराः गायकस्थानीयाः, वृक्षाग्रनिषण्णकायाः मयूराः अनुभवितृस्थानीयाः । अतस्तैः सङ्गीतं प्रवृत्तमिव ॥ ४।२८।३७ ॥

स्वनैर्घनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसन्निरुद्धाम् ।

अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥ ४।२८।३८ ॥

प्लवगाः मण्डूकाः । घनानां स्वनैः चिरसन्निरुद्धां चिरकालव्यापारनिरोधिकां निद्रां विहाय प्रबुद्धा इति सम्बन्धः ॥ ४।२८।३८ ॥

नद्यः समुद्वाहितचक्रवाकास्तटानि शीर्णान्यपवाहयित्वा ।

दृप्ता नवप्राभृतपूर्णभोगा द्रुतं स्वभार्तारमुपोपयान्ति ॥ ४।२८।३९ ॥

अथ नदीनां स्वभर्तृसङ्गममिच्छन्तीभिरुत्कटमन्मथाभिर्युवतिभिः साम्यमुच्यते । समुद्वाहितचक्रवाकाः वारिपूरोन्नमितचक्रवाकाः स्तनस्थानीयाः । अपवाहयित्वेत्येतन्नवोढोचितलज्जातिलङ्घनस्थानीयम् । नवप्राभृतपूर्णभोगाः प्राभृतं फलाद्युपहारः, भोगश्चन्दनकर्पूरकुसुमताम्बूलादिः । स्वभर्तारं समुद्रम् उपोपयान्ति, उपयान्तीत्यर्थः ॥ ४।२८।३९ ॥

नीलेषु नीलाः प्रविभान्ति सक्ता मेघेषु मेघा नववारिपूर्णाः ।

दवाग्निदग्धेषु दवाग्निदग्धाः शैलेषु शैला इव बद्धमूलाः ॥ ४।२८।४० ॥

नीलेष्विति । दवाग्निदग्धेषु बद्धमूला दवाग्निदग्धाः शैला इव नीलेषु मेघेषु सक्ता नववारिपूर्णाः नीला मेघाः प्रविभान्ति । बद्धमूलत्वस्थाने नववारिपूर्णा इत्युक्तम् । उभयत्र स्थायित्वमर्थः ॥ ४।२८।४० ॥

प्रहृष्टसन्नादितबर्हिणानि सशक्रगोपाकुलशाद्वलानि ।

चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि ॥ ४।२८।४१ ॥

प्रहृष्टेति । वनान्तराणि वनमध्यानि चरन्ति, वनमध्येषु चरन्तीत्यर्थः ॥ ४।२८।४१ ॥

नवाम्बुधाराहतकेसराणि द्रुतं परित्यज्य सरोरुहाणि ।

कदम्बपुषाणि सकेसराणि नवानि हृष्टा भ्रमराः पतन्ति ॥ ४।२८।४२ ॥

नवेति । कदम्बकेसराणामहतत्वे हेतुः नवानीति ॥ ४।२८।४२ ॥

मत्ता गजेन्द्रा मुदिता गजेन्द्रा वनेषु विश्रान्ततरा मृगेन्द्राः ।

रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥ ४।२८।४३ ॥

मत्ता इति । मृगेन्द्राः सिंहाः । नगेन्द्राः पर्वतश्रेष्ठाः । रम्याः पल्लवपुष्पाङ्कुरादिमत्त्वादिति भावः । प्रक्रीडित इति कर्तरि निष्ठा ॥ ४।२८।४३ ॥

मेघाः समुद्भूतसमुद्रनादा महाजलोघैर्गगनावलम्बाः ।

नदीस्तटाकानि सरांसि वापीर्महीं च कृत्स्नामपवाहयन्ति ॥ ४।२८।४४ ॥

मेघा इति । अपवाहयन्ति परिवहयन्ति ॥ ४।२८।४४ ॥

वर्षप्रवेगा विपुलाः पतन्ती प्रवान्ति वाताः समुदीर्णघोषाः ।

प्रनष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलैर्विप्रतिपन्नमार्गाः ॥ ४।२८।४५ ॥

वर्षेति । वर्षप्रवेगाः अतिवेगा वृष्टय इत्यर्थः । विपुलाः निरन्तराः । नद्यो जलैः विप्रतिपन्नमार्गाः विरुद्धं प्राप्तमार्गाः ॥ ४।२८।४५ ॥

नरैर्नरन्द्रा इव पर्वतेन्द्राः सुरेन्द्रदत्तैः पवनोपनीतैः ।

घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ४।२८।४६ ॥

अभिषिक्ताः नरेन्द्राः स्वां श्रियमिव अभिषिच्यमानाः पर्वताः स्वं रूपं दर्शयन्ति, नैर्मल्यादिनेति भावः ॥ ४।२८।४६ ॥

घनोपगूढं गगनं सतारं न भास्करो दर्शनमभ्युपैति ।

नवैर्जलौघैर्धरणी विसृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ४।२८।४७ ॥

तमोविलिप्ता दिशः न प्रकाशाः ॥ ४।२८।४७ ॥

महान्ति कूटानि महीधराणां धाराभिधौतान्यधिकं विभान्ति ।

महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥ ४।२८।४८ ॥

प्रपातैः निर्झरैः ॥ ४।२८।४८ ॥

शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः ।

गुहासु सन्नादितबर्हिणासु हारा विकीर्यन्त इवाभिभान्ति ॥ ४।२८।४९ ॥

शैलोत्तमानां विपुलाः प्रपाताः निर्झराः शैलोपलप्रस्खलमानवेगाः सन्तः सन्नादितबर्हिणासु गुहासु विकीर्यन्तः विकीर्यमाणाः हारा इव अवभान्ति ॥ ४।२८।४९ ॥

शीघ्रप्रवेगा विपुलाः प्रपाता निर्धौतशृङ्गोपतला गिरीणाम् ।

मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्सङ्गतलैर्ध्रियन्ते ॥ ४।२८।५० ॥

निर्धौतानि निर्मलीकृतानि शृङ्गोपतलानि शृङ्गसमीपतलानि यैस्ते तथा । गुहोत्सङ्गतलैः गुहामध्यतलैः ॥ ४।२८।५० ॥

सुरतामर्दविच्छिन्नाः स्वर्गस्त्रीहारमौक्तिकाः ।

पतन्तीवाकुला दिक्षु तोयधराः समन्ततः ॥ ४।२८।५१ ॥

सुरतेति । तोयधाराः मौक्तिकाः इव पतन्तीति स्वरूपोत्प्रेक्षा ॥ ४।२८।५१ ॥

निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ।

विकसन्त्या च मालत्या गतो ऽस्तं ज्ञायते रविः ॥ ४।२८।५२ ॥

निलीयमानैरिति । निलीयमानैः नीडेषु गच्छद्भिः ॥ ४।२८।५२ ॥

वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते ।

वैराणि चैव मार्गाश्च सलिलेन समीकृताः ॥ ४।२८।५३ ॥

वृत्ता निवृत्ता अतो ऽग्रे गता सेना प्रतिनिवृत्ता । सलिलेन वैराणि समीकृतानि, सलिलप्रतिरोधाद्वैराणि शान्तानीत्यर्थः । मार्गाश्च समूकृताः जलेन मार्गामार्गविवेको नासीदित्यर्थः ॥ ४।२८।५३ ॥

मासि प्रोष्ठपदे ब्रह्म ब्रणानां विवक्षताम् ।

अयमध्यायसमयः सामगानामुपस्थितः ॥ ४।२८।५४ ॥

मासीति । अनेन भाद्रपदो मासः सम्प्रवृत्त इति सूचयति । ब्रह्म वेदं विवक्षताम् अध्येतुमिच्छताम् अध्यायसमयः वेदारम्भसमयः ॥ ४।२८।५४ ॥

निवृत्तकर्मायतनो नूनं सञ्चितसञ्चयः ।

आषाढीमभ्युपगतो भरतः कोसलाधिपः ॥ ४।२८।५५ ॥

निवृत्तं कर्म यस्य तन्निवृत्तकर्म आयतनं गृहं यस्य सः निवृत्तकर्मायतनः, उपरतसकलगृहोपकरणसम्पादन इत्यर्थः । सञ्चितसञ्चयः सम्पादितधननिचयः । आषाढीम् आषाढमाससमाप्तिपौर्णमासीम् अभ्युपगतः व्रताङ्गत्वेन स्वीकृतवान् । अनेन “चत्वारो वार्षिका मासाः” इति पूर्वोक्तमासानाम् आषाढः प्राथमिक इति सूचितम् ॥ ४।२८।५५ ॥

नूनमापूर्यमाणायाः सरय्वा वर्धते रयः ।

मां समीक्ष्य समायान्तमयोध्याया इव स्वनः ॥ ४।२८।५६ ॥

अयोध्यायाः अयोध्यावासिजनस्य ॥ ४।२८।५६ ॥

इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते ।

विजितारिः सदारश्च राज्ये महति च स्थितः ॥ ४।२८।५७ ॥

इमा इति । वर्षा इत्यत्यन्तसंयोगे द्वितीया ॥ ४।२८।५७ ॥

अहं तु हृतदारश्च राज्याच्च महतश्च्युतः ।

नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण ॥ ४।२८।५८ ॥

अहं त्विति । अजितारिश्चेत्यपि ज्ञेयम् । क्लिन्नम् आर्द्रम् ॥ ४।२८।५८ ॥

शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः ।

रावणश्च महान् शत्रुरपारं प्रतिभाति मे ॥ ४।२८।५९ ॥

शोकश्चेति । मम शोकश्च विस्तीर्णः वर्षाश्च भृशदुर्गमाः अत्यन्तं दुरत्ययाः । रावणश्च महान् शत्रुः । अतश्च एतत्ित्रतयम् अपारं दुस्तरं प्रतिभाति ॥ ४।२८।५९ ॥

अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान् ।

प्रणते चैव सुग्रीवे न मया किञ्चिदीरितम् ॥ ४।२८।६० ॥

अयात्रां राज्ञामेतत्कालोचितदण्डयात्राभावम् । प्रणते चैव इदानीमेव सीतान्वेषणरावणनिरसनोद्योगः कर्तव्य इति प्रार्थनापूर्वकं प्रह्वीभूते सत्यपीत्यर्थः ॥ ४।२८।६० ॥

अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम् ।

आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम् ॥ ४।२८।६१ ॥

आत्मकार्यगरीयस्त्वात् अस्मत्प्रयोजनस्यातिमहत्त्वात्, अल्पयत्नेन अल्पकालेन चासाध्यत्वादित्यर्थः । वक्तुं नियोक्तुम् । नेच्छामीति भूतार्थे लट् ॥ ४।२८।६१ ॥

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ।

उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥ ४।२८।६२ ॥

स्वयमिति । कालं शरत्कालम् ॥ ४।२८।६२ ॥

तस्मात्कालप्रतीक्षो ऽहं स्थितो ऽस्मि शुभलक्षण ।

सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ४।२८।६३ ॥

उक्तोपपत्तिभिः पूर्वसर्गोक्तं द्रढयति तस्मादित्यादिना ॥ ४।२८।६३ ॥

उपकारेण वीरो हि प्रतिकारेण युज्यते ।

अकृतज्ञो ऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ४।२८।६४ ॥

उपकारेणेति । अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः अप्रतिकृतः प्रत्युपकारमकुर्वन् सत्त्ववतां महात्मनां मनो हन्ति क्षोभयति । वीरः प्रत्युपकारसमर्थः उपकारेण हेतुना प्रतिकारेण युज्यते हि युज्यत एव । सुग्रीवो ऽप्येवंविधत्वात् प्रत्युपकारं करिष्यतीति भावः । अनेन प्रत्युपकारं कारयित्वा लोके प्रत्युपकारधर्मं प्रवर्तयिष्यामि इत्याशयः ॥ ४।२८।६४ ॥

तमेवमुक्तः प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् ।

उवाच रामं स्वभिरामदर्शनं प्रदर्शयन् दर्शनमात्मनः शुभम् ॥ ४।२८।६५ ॥

अस्य रामवचनस्य पूर्वसर्गान्तोत्तरमाह तमिति । तं राममित्यन्वयः । दर्शनं मतम् ॥ ४।२८।६५ ॥

यथोक्तमेतत्तव सर्वमीप्सितं नरेन्द्र कर्ता नचिराद्धरीश्वरः ।

शरत्प्रतीक्षः क्षमतामिमं भवान् जलप्रपातं रिपुनिग्रहे धृतः ॥ ४।२८।६६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥

यथोक्तमिति । कर्ता करिष्यति । लुट् ॥ ४।२८।६६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥