ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम् ।
शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ ४।२६।१ ॥
अथ सुग्रीवाभिषेकः षड्विंशे तत इत्यादि । क्लिन्नवाससम् आर्द्रवस्त्रम् । सद्यः स्नानादिति भावः । शाखामृगमहामात्राः वानरूपा मन्त्रिणः ॥ ४।२६।१ ॥
अभिगम्य महाबाहुं राममक्लिष्टकारिणम् ।
स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ ४।२६।२ ॥
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः ।
अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः ॥ ४।२६।३ ॥
सर्वे सुग्रीवादयः ॥ ४।२६।२,३ ॥
भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ।
वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ ४।२६।४ ॥
भवता समनुज्ञातः प्रविश्य नगरं शुभम् ।
संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥ ४।२६।५ ॥
भवत्प्रसादादिति । वानराणां राज्यमित्यन्वयः ॥ ४।२६।४,५ ॥
स्नातो ऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ।
अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः ॥ ४।२६।६ ॥
अतिनिपुणतया हनुमान् प्रथमं सङ्ग्रहेण विज्ञाप्य तच्छृण्वति रामे पुनर्विशदमाह स्नात इति ॥ ४।२६।६ ॥
इमां गिरिगुहां रम्यामभिगन्तुमितो ऽर्हसि ।
कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षयन् ॥ ४।२६।७ ॥
एवमुक्तो हनुमता राघवः परवीरहा ।
प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ ४।२६।८ ॥
चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम् ।
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः ॥ ४।२६।९ ॥
सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः ।
प्रविष्टो विधिवद्वीरः क्षिप्रं राज्ये ऽभिषिच्यताम् ॥ ४।२६।१० ॥
एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ।
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् ॥ ४।२६।११ ॥
गिरिगुहां किष्किन्धाम् । वानराणां स्वामिना सम्बन्धं कुरु, सुग्रीवं वानरराजं कुर्वित्यर्थः ॥ ४।२६।७११ ॥
इममप्यङ्गदं वीर यौवराज्ये ऽभिषेचय ।
ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण ते ।
अङ्गदो ऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ ४।२६।१२ ॥
भाजनं योग्यमित्यर्थः ॥ ४।२६।१२ ॥
पूर्वो ऽयं वार्षिको मासः श्रावणः सलिलागमः ।
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसञ्ज्ञकाः ॥ ४।२६।१३ ॥
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् ।
अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥ ४।२६।१४ ॥
इयं गिरिगुहा रम्या विशाला युक्तमारुता ।
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ ४।२६।१५ ॥
अस्त्विभिषेकः, सीतान्वेषणरावणवधादिकं प्रत्युद्योगः क्रियत इत्याशङ्क्याह पूर्व इत्यादि । पूर्वः वर्षत्वपेक्षया प्रथमः । वर्षाः वर्षर्तुः । “स्त्रियां पावृट् स्त्रियां भूम्नि वर्षाः” इत्यमरः । तत्र भवो वार्षिकः । “द्वौ द्वौ मार्गादिमासौ स्यादृतुः” इति श्रावणभाद्रपदौ वर्षर्तुः । तदेकदेशत्वाच्छ्रावणो वार्षिक इत्युच्यते । “वर्षाभ्यष्ठक्” इति ठक्प्रत्ययः । वार्षिकसञ्ज्ञाश्चत्वारो मासा इति आश्वयुजाषाढाभ्यां चतुष्ट्वमिति ज्ञेयं छत्ित्रन्यायात् । वर्षमुखत्वाद्वर्षानन्तरकालत्वाच्च चत्वारो ऽपि युद्धेयोग्या न भवन्ति । कश्चित्तु “पक्षा वै मासाः” इति श्रुतिपक्षमाश्रित्य चत्वारो वार्षिका मासा इत्युक्तम् । श्रावणः प्रथमो मास इत्यत्रापि प्रथमः पक्ष इत्यर्थः । “चत्वारो वार्षिका मासा गता वर्षशतोपमाः” इत्युपसंहारादित्याह ॥ ४।२६।१३१५ ॥
कार्तिके समनुप्राप्ते त्वं रावणवधे यत ।
एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥ ४।२६।१६ ॥
अभिषिक्तः स्वराज्ये च सुहृदः सम्प्रहर्षय ॥ ४।२६।१७ ॥
इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः ।
प्रविवेश पुरीं रम्यां किष्कन्धां वालिपालिताम् ॥ ४।२६।१८ ॥
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ।
अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन् ॥ ४।२६।१९ ॥
कार्त्तिक इति । कार्त्तिके मासि समनुप्राप्ते समीपं प्रप्ते, आश्वायुजान्त इत्यर्थः । यत यतस्व, सेनासन्नहनं कुरु । कार्त्तिकशबदस्य आश्वयुजान्तपरत्वं स्वयमेव वक्ष्यति “वयमाश्वयुजे मासि पिङ्गाक्षप्रतिचोदिताः” इति । प्रतिचोदनं सन्नहनं न तु निर्गमः । निर्गमस्तु मार्गशीर्षे । स्वसङ्केतितकार्त्तिकातिक्रमादेव रामस्य सुगीर्वे कोपो लक्ष्मणप्रेषणं च । स्वयम्प्रभाबिलनिर्गमनानन्तरं “द्रुमान् वासन्तिकान् दृष्ट्वा” इत्येतत् वसन्तपुष्पोद्गमोपक्रमभूतपत्रविगलनहेतुफाल्गुनापेक्षया । पक्षान्तरे फाल्गुनचैत्रयोर्वसन्तत्वोक्तेर्वा । अयमत्र क्रमो ऽनुसन्धेयः । “उत्तरस्यादिना पूर्वस्यावधिं जानीयात्” इति न्यायेन उत्तरस्योत्तरस्य ग्रहणात् पूर्वपूर्वकालसङ्ख्याज्ञापनं वाल्मीकेः शैली । तथा च चैत्रे रामस्य साकेतान्निर्गमः । अगस्त्याश्रमागमनात्पूर्वं दश संवत्सरा गता इत्युक्तम् । अथ पञ्चवट्यां वर्षत्रयानन्तरं चैत्रे प्राप्ते शूर्पणखानासिकाच्छेदनखरवधादिकं कृतमित्यवगम्यते । रावणेन च मारीचवचनादिना किञ्चिद्विलम्ब्य तस्मिन्नेव चैत्रे सीता हृता । सीताविरहेण दूयमानस्य रामस्य वसन्तवर्णने “चैत्रवनानिलः” इत्युक्तेः लङ्कायां सीतायाः संवत्सरवासोक्तेश्च । पुनः फाल्गुणे हि रावणवधः । आषाढे वालिवधः । शरदि सेनासन्नहनम् । मार्गशीर्षे वानरप्रस्थापनम् । स्वयम्प्रभाबिले बहुकालयापनम् । “कालश्च नो महान् यातः” इत्युक्तेः । बहिर्निर्गमनानन्तरं फाल्गुनशुद्धत्रयोदश्यां हनुमतः समुद्रतरणम् । चतुर्दश्यां पुनरागमनम् । पौर्णमास्यां दण्डयात्रेत्यादि । अन्यद्युद्धकाण्डे वक्ष्यते । समयः सङ्केतः ॥ ४।२६।१६१९ ॥
ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ।
प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ ४।२६।२० ॥
प्रणम्येति । मूर्ध्ना प्रणम्य वसुधायां पतिताः समाहिताः अनन्यमनस्काः ॥ ४।२६।२० ॥
सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् ।
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ॥ ४।२६।२१ ॥
प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम् ।
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ ४।२६।२२ ॥
भ्रातुरन्तःपुरं प्रविवेशेति । तारां सम्मान्य, स्ववशीकरणार्थमिति भावः ॥ ४।२६।२१,२२ ॥
तस्य पाण्डुरमाजह्रुश्छत्त्रं हेमपरिष्कृतम् ।
शुक्ले च वालव्यजने हेमदण्डे यशस्करे ॥ ४।२६।२३ ॥
तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि ।
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च ॥ ४।२६।२४ ॥
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ।
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥ ४।२६।२५ ॥
चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून् ।
अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी ।
दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ॥ ४।२६।२६ ॥
प्ररोहान् पल्लवान् । अनुलेपनं कर्पूरादि । गन्धाः अगरुप्रभृतयः । अक्षतं जातरूपम् । अक्षततण्डुलं हरिद्रामिश्रम् । प्रियङ्गुः सूक्ष्मधान्यविशेषः । वाराही वराहचर्मविकृती । “सुपां सुलुक्” इत्यादिना पूर्वसवर्णदीर्घः ॥ ४।२६।२३२६ ॥
समालम्भनमादाय रोचनां समनः शिलाम् ।
आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश ॥ ४।२६।२७ ॥
समालम्भनम् अनुलेपनविशेषः । “समालम्भो विलेपनम्” इत्यमरः । रोचनां गोरोचनाम् । समनःशिलां शैलधातुविशेषसंहितं तिलकसाधनं मनःशिला ॥ ४।२६।२७ ॥
ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि ।
रत्नैर्वस्त्रैश्च भक्षैश्च तोषयित्वा द्विजर्षभान् ॥ ४।२६।२८ ॥
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् ।
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ ४।२६।२९ ॥
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते ।
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ ४।२६।३० ॥
प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने ।
नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥ ४।२६।३१ ॥
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ।
अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ ४।२६।३२ ॥
शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः ।
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ४।२६।३३ ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव हनुमान् जाम्बवान्नलः ॥ ४।२६।३४ ॥
अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ४।२६।३५ ॥
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः ।
प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः ॥ ४।२६।३६ ॥
रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः ।
अङ्गदं सम्परिष्वज्य यौवराज्ये ऽभ्यषेचयत् ॥ ४।२६।३७ ॥
ततस्ते वानरश्रेष्ठमित्यारभ्य वसवो वासवं यथेत्यन्तमेकं वाक्यम् । यथाकालं विहितकालमनतिक्रम्य । यथाविधि यथाक्रमम् । द्विजर्षभान् याजनार्थमाहूतान् । समिद्धं ज्वलितम् । जातवेदसम् अग्निम् । मन्त्रिविदः वानरपुरोहिताः हेमप्रतिष्ठाने हेममयपादयुक्ते । वरासनविशेषणमेतत् । नदीनदेभ्यस्तीर्थेभ्यः समुद्रेभ्यश्च अपः आहृत्य आनीय, संहृत्य सम्मिश्रीकृत्य तद्विमलं जलं कनककुम्भेषु निधाय तेभ्यो वृषभशृङ्गादिभिरुद्धृत्य, शास्त्रदृष्टेन विधिना क्रमेण, महर्षिविहितेन कल्पसूत्रविहितेन च विधिना अभ्यषिञ्चन्त ॥ ४।२६।२८३७ ॥
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः ।
साधु साध्विति सुग्रीवं महात्मानो ऽभ्यपूजयन् ॥ ४।२६।३८ ॥
सानुक्रोशाः अङ्गदे सदयाः ॥ ४।२६।३८ ॥
रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः ।
प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तति ॥ ४।२६।३९ ॥
तादृशे सुग्रीवाङ्गदाभिषेकरूपोत्सवे वर्तति वर्तमाने सति ॥ ४।२६।३९ ॥
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता ।
बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ ४।२६।४० ॥
हृष्टेति । पताकाध्वजयोर्भेद उक्तः ॥ ४।२६।४० ॥
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ।
रुमां च भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ॥ ४।२६।४१ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षड्विंशः सर्गः ॥ २६ ॥
निवेद्येति । निवेद्य, रामसमीपमागत्य निवेद्येत्यर्थः ॥ ४।२६।४१ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षड्विंशः सर्गः ॥ २६ ॥