०२३ ताराशोकः

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।

पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ॥ ४।२३।१ ॥

अथ मरणानन्तरं ताराविलापस्त्रयोविंशे ततः समुपजिघ्रन्तीत्यादि । लोकाच्च्युतम् अस्माल्लोकाच्च्युतम् । स्वर्गगमित्यर्थः ॥ ४।२३।१ ॥

शेषे त्वं विषमे दुःखमकृत्वा वचनं मम ।

उपलोपचिते वीर सुदुःखे वसुधातले ॥ ४।२३।२ ॥

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ।

शेषे हि तां पिरिष्वज्य मां च न प्रतिभाषसे ॥ ४।२३।३ ॥

शेष इति । दुःखमित्येतत् क्रियाविशेषणम् । सुदुःखे सुतरां दुःखकरे ॥ ४।२३।२,३ ॥

सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ।

सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥ ४।२३।४ ॥

सुग्रीवस्येति । त्वं सुग्रीवस्य त्वत्तो (तव) बहुशः कान्दिशीकस्य वशं प्राप्तः । सुग्रीव एव विक्रन्त इत्येष विधिः दैवव्यापारः अहो आश्चर्यकरो भवति ॥ ४।२३।४ ॥

ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते ।

एषां विलपितं कृच्छ्रमङ्गदस्य च शेचतः ।

मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे ॥ ४।२३।५ ॥

ऋक्षवानरेति । कृच्छ्रं दुःखम् ॥ ४।२३।५ ॥

इदं तद्वीरशयनं यत्र शेषे हतो युधि ।

शायिता निहता यत्र त्वयैव रिपवः पुरा ॥ ४।२३।६ ॥

इदमिति । युधि हतो यत्र शेषे पुरा त्वया निहता रिपवो यत्र शायिताः तदिदं वीरशयनमित्यन्वयः । युद्धपरायणस्य तव युद्धेनैव मरणं प्राप्तं खल्विति भावः ॥ ४।२३।६ ॥

विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ।

मामनाथां विहायैकां गतस्त्वमसि मानद ॥ ४।२३।७ ॥

विशुद्धसत्त्वाभिजनेति । कूटयुद्धाभावाद्विशुद्धबल । सत्कुलप्रसूतत्वाद्विशुद्धकुल (कूटयुद्धाभावाद्विशुद्धबलसत्कुलप्रसूतत्वादभिजनशुद्धकुल) ॥ ४।२३।७ ॥

शूराय न प्रदातव्या कन्या खलु विपश्चिता ।

शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ॥ ४।२३।८ ॥

शूरायेति । अप्रदातव्यत्वे हेतुमाह शूरभार्यामिति ॥ ४।२३।८ ॥

अवभग्नश्च मे मानो भग्ना मे साश्वती गतिः ।

अगाधे च निमग्ना ऽस्मि विपुले शोकसागरे ॥ ४।२३।९ ॥

अवभग्नश्चेति । गतिः पतिशुश्रूषेत्यर्थः । यद्वा गम्यत इति गतिः, सुखमित्यर्थः ॥ ४।२३।९ ॥

अश्मसारमयं नूनमिदं मे हृदयं दृढम् ।

भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम् ॥ ४।२३।१० ॥

अश्मसारेति । अश्मसारमयत्वे हेतुः दृढमिति ॥ ४।२३।१० ॥

सुहृच्चै व हि भर्ता च प्रकृत्या मम च प्रियः ।

आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥ ४।२३।११ ॥

पतिहीना तु या नारी कामं भवतु पुत्रिणी ।

धनधान्यैः सुपूर्णा ऽपि विधवेत्युच्यते जनैः ॥ ४।२३।१२ ॥

हृदयभेदने हेतुमाह सुहृदिति । पञ्चत्वं मरणम् ॥ ४।२३।११,१२ ॥

स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ।

कृमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ ४।२३।१३ ॥

रेणुशोणितसंवीतं गात्रं तव समन्ततः ।

परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ ४।२३।१४ ॥

कृतकृत्यो ऽद्य सुग्रीवो वैरे ऽस्मिन्नतिदारुणे ।

यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ ४।२३।१५ ॥

स्वगात्रैरिति । कृमेः इन्द्रगोपस्य राग इव रागो यस्मिन् स कृमिरागः । परिस्तोमः आस्तरणं यस्मिन् स तथा ॥ ४।२३।१३१५ ॥

शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ।

वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ॥ ४।२३।१६ ॥

शरेणेति । वार्यामि वारिता ऽस्मीत्यर्थः ॥ ४।२३।१६ ॥

उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ।

गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ॥ ४।२३।१७ ॥

उद्बबर्हेति । उद्बबर्ह उद्धृतवान् । नीलः सुग्रीवसेनापतिः ॥ ४।२३।१७ ॥

तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ।

अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥ ४।२३।१८ ॥

तस्येति । निष्कृष्यमाणस्य तस्य द्युतिः अस्तमस्तकसंरुद्धः अस्ताद्रिशिखरनिरुद्धः

दिनकरादुद्गच्छन् रश्मिरिव बभौ । पूर्वश्लोकोक्तसर्पसाम्यापेक्षया चशब्दः ॥ ४।२३।१८ ॥

पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ।

ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् ॥ ४।२३।१९ ॥

अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ।

आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ॥ ४।२३।२० ॥

रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ।

उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ॥ ४।२३।२१ ॥

पेतुरिति । व्रणेभ्यः इति बहुवचनं पाशाधिकरणन्यायेनावयवबहुत्वात् । यद्वा शिलापादपप्रहारकृतव्रणानि । एतावत्पर्यन्तं शोणितनिर्गमशून्यतया स्थितानि इदानीं शरव्रणाच्छोणितनिर्गमकाले सर्वेभ्यो ऽपि शोणितानि सुस्रुवुरित्यर्थः । इदानीं रुधिरनिर्गमादेतावत्पर्यन्तं सर्वात्मना प्राणो न गत इति गम्यते ॥ ४।२३।१९२१ ॥

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ।

सम्प्रसक्तस्य वैरस्य गतो ऽन्तः पापकर्मणा ॥ ४।२३।२२ ॥

बालसूर्योदयतनुं प्रयान्तं यमसादनम् ।

अभिवादय राजानं पितरं पुत्र मानदम् ॥ ४।२३।२३ ॥

एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ।

भुजाभ्यां पीनवृत्ताभ्यामङ्गदो ऽहमिति ब्रुवन् ॥ ४।२३।२४ ॥

अवस्थामिति । पापकर्मणा पापरूपकर्मणा सम्प्रसक्तस्येति सम्बन्धः ॥ ४।२३।२२२४ ॥

अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ।

दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ ४।२३।२५ ॥

अहं पुत्रसहाया त्वामुपासे गतचेतसम् ।

सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम् ॥ ४।२३।२६ ॥

अभिवादयमानमिति । त्वामभिवादयमानमित्यन्वयः ॥ ४।२३।२५,२६ ॥

इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि ।

अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ ४।२३।२७ ॥

या दत्ता देवराजेन तव तुष्टेन संयुगे ।

शातकुम्भमयीं मालां तां ते पश्यामि नेह किम् ॥ ४।२३।२८ ॥

इष्ट्वेति । रामप्रहरणाम्भस्येवावभृथ इति व्यस्तरूपकम् ॥ ४।२३।२७,२८ ॥

राजश्रीर्न जहाति त्वां गतासुमपि मानद ।

सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ ४।२३।२९ ॥

राजश्रीरिति । शैलराजं मेरुम् आवर्तमानस्य अस्तं गच्छत इत्यर्थः ॥ ४।२३।२९ ॥

न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता विनिवारणे तव ।

हता सपुत्रा ऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ ४।२३।३० ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥

न म इति । पथ्यं हितं वचः । न कृतं नानुष्ठितम् ॥ ४।२३।३० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥