वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन् ।
आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः ॥ ४।२२।१ ॥
एवममोघरामशराभिघातेन मोहसमाविष्टं वालिनं मृतं निश्चित्य संस्कारादिकरणाय त्वरमाणे हनुमति दैवात्किञ्चित्समाश्वस्तो वाली कर्तव्यभागं नियच्छति द्वाविंशे वीक्षमाण इत्यादि । मन्दासुः अल्पप्राणः ॥ ४।२२।१ ॥
तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरः ।
आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ ४।२२।२ ॥
तमिति । आभाष्य सम्बोध्य ॥ ४।२२।२ ॥
सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बषात् ।
कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ४।२२।३ ॥
सुग्रीवेति । किल्बिषात् राज्यविवासनदारहणरूपकिल्बिषाद्धेतोः मां दोषेण गन्तुं दोषसहितं ज्ञातुं नार्हसि, किन्तु भविष्येण भाविफलेन हेतुना जातेन बुद्धिमोहेन बालात्कृष्यमाणं मां गन्तुमर्हसि ॥ ४।२२।३ ॥
युगपद्विहितं तात न मन्ये सुखमावयोः ।
सौहार्दं भ्रातृयुक्तं हि तदिदं तात नान्यथा ॥ ४।२२।४ ॥
युगपदिति । आवयोः भ्रात्रोः भातृयुक्तं भ्रातृत्वप्रयुक्तं सौहार्दं सुखं राज्यमुखं च । एतदुभयं दैवेन युगपन्न विहितं मन्ये ध्रुवम् । अव्ययमेतत् । तदिदं दैवकृतं युगपदविधानम् अन्यथा न हि अन्यप्रकारं न भवति हि ॥ ४।२२।४ ॥
प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम् ।
मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ४।२२।५ ॥
प्रतीति । प्रतिपद्य, पालयेति शेषः । यद्वा प्रतिपद्य प्राप्नुहि । श्यन्नन्तो ऽयम् । वैवस्वतक्षयं यमगृहम् ॥ ४।२२।५ ॥
जीवितं हि राज्यं च श्रियं च विपुलामिमाम् ।
प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः ॥ ४।२२।६ ॥
जीवितमिति । अगर्हितं यशः केनाप्यवध्यो वालीति प्रसिद्धं यशः ॥ ४।२२।६ ॥
अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः ।
यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि ॥ ४।२२।७ ॥
अस्यामवस्थायां चरमावस्थायां यद्वचो वक्ष्यामि एतद्यद्यप्यसुकरं तथाप्यवश्यं कर्तुमर्हसि । मदुक्तरीत्या राजा भवेत्यर्थः ॥ ४।२२।७ ॥
सुखार्हं सुखसंवृद्धं बालमेनमबालिशम् ।
बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ।
मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम् ॥ ४।२२।८ ॥
सुखार्हमिति । वयसा बालमप्यबालिशं बालबुद्धिरहितम् । ममेति । प्राणैः प्राणेभ्यः, मम पुत्रं औरसम् पुत्रमिव पश्येति संबन्धः ॥ ४।२२।८ ॥
मया हीनमहीनार्थं सर्वतः परिपालय ।
त्वमेवास्य हि दाता च परित्राता च सर्वतः ।
भयेष्वभयदश्चैव यथा ऽहं प्लवगेश्वर ॥ ४।२२।९ ॥
एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः ।
रक्षसां तु वधे तेषामग्रतस्ते भविष्यति ॥ ४।२२।१० ॥
अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे ।
करिष्यत्येष तारेयस्तरस्वी तरुणो ऽङ्गदः ॥ ४।२२।११ ॥
मयेत्यादि । अस्य अङ्गदस्य दाता, वस्त्राभरणादीनामिति शेषः । सर्वतः शत्रुभ्यः परित्राता । भयेष्वभयदः शत्रुपुत्रत्वेन स्थानान्निष्कासनादिभयहेतुषु विषये अभयदः ॥ ४।२२।९११ ॥
सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये ।
औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ ४।२२।१२ ॥
सुषेणेति । अर्थसूक्ष्मविनिश्चये सूक्ष्मार्थविनिश्चये औत्पातिके उत्पातविषयज्ञाने च । परिनिष्ठिता सञ्जातनिष्ठा, समर्थेति यावत् ॥ ४।२२।१२ ॥
यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम् ।
नहि तारामतं किञ्चिदन्यथा परिवर्तते ॥ ४।२२।१३ ॥
यदिति । न परिवर्तते न भवतीत्यर्थः ॥ ४।२२।१३ ॥
राघवस्य च ते कार्यं कर्तव्यमविशङ्कया ।
स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः ॥ ४।२२।१४ ॥
राघवस्य चेति । विमानितः, राघव इति शेषः ॥ ४।२२।१४ ॥
इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम् ।
उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि ॥ ४।२२।१५ ॥
इमामिति । सम्प्रजह्यान्मृते मयि मृते सति श्रीरिमां काञ्चनीं मालां सम्प्रजह्यात् । ततः पूर्वमेव मयि जीवति गृहाणेति भावः ॥ ४।२२।१५ ॥
इत्येमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ।
हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥ ४।२२।१६ ॥
इतीति । दीनः अभूदिति शेषः । ग्रहग्रस्तः राहुग्रस्तः ॥ ४।२२।१६ ॥
तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ।
जग्रह सो ऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ ४।२२।१७ ॥
तदिति । तत्तदनन्तरं शान्तः त्यक्तवैरः ॥ ४।२२।१७ ॥
तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वा ऽ ऽत्मजं स्थितम् ।
संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥ ४।२२।१८ ॥
तामिति । प्रेत्यभावाय मरणाय । संसिद्धः कृतनिश्चयः ॥ ४।२२।१८ ॥
देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये ।
सुखदुःखसहः काले सुग्रीववशगो भव ॥ ४।२२।१९ ॥
यथा हि त्वं महाबाहो लालितः सततं मया ।
न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते ॥ ४।२२।२० ॥
अद्य मत्प्रयाणानन्तरं देशाकालौ भजस्व । गत्यर्था ज्ञानार्थाः । देशाकालौ जानीहि । अस्मिन् देशे अस्मिन् काले च एवं वर्तितव्यम्, एवं न वर्तितव्यमिति विवेचयेत्यर्थः । प्रियाप्रिये क्षममाणः प्रभोः प्रियवचनवदप्रियवचनमपि सोढव्यमित्यर्थः । काले सुखदुःखसहः दुःखकाले सुखं सुखकाले दुःखं च सहमान इत्यर्थः । सुग्रीववशगो भव सुग्रीवपरतन्त्रो भव ॥ ४।२२।१९,२० ॥
मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिन्दम ।
भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ ४।२२।२१ ॥
मास्येति । अस्य सुग्रीवस्यामित्रैर्गतं प्राप्तं पुरुषं मा गच्छेः । अस्य शत्रुमित्रं न भजेरित्यर्थः । शत्रुभिः सह च मा गच्छेः ॥ ४।२२।२१ ॥
न चातिप्रणयः कार्यः कर्तव्यो ऽप्रणयश्च ते ।
उभयं हि महान् दोषस्तस्मादन्तरदृग्व ॥ ४।२२।२२ ॥
न चेति । अतिप्रणयः अतिस्नेहः, अप्रणयः स्नेहाभावश्च । अन्तरदृग्भव मध्यमभावमवलम्बस्वेत्यर्थः ॥ ४।२२।२२ ॥
इत्युक्त्वा ऽथ विवृत्ताक्षः शरसम्पीडितो भृशम् ।
विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥ ४।२२।२३ ॥
इतीति । विवृत्ताक्षः भ्रामितनेत्रः । विवृतैः प्रकाशितैः, अत एव भीमैः दशनैः दन्तैरुपलक्षितः उत्क्रान्तजीवितः उद्गतप्राणः ॥ ४।२२।२३ ॥
ततो विचुक्रुशुस्तत्र वानरा हरियूथपाः ।
परिदेवयमानास्ते सर्वे प्लवगपुङ्गवाः ॥ ४।२२।२४ ॥
तत इति । परिदेवयमानाः रुदन्त इत्यर्थः । प्लवगपुङ्गवाः बलेन श्रेष्ठाः । पुनश्च हरियूथपाः यूथस्य निर्वोढारः । वानराः वानरजातयः ॥ ४।२२।२४ ॥
किष्किन्धा ह्यद्य शून्य ऽसीत्स्वर्गते वानराधिपे ।
उद्यानानि च शून्यानि पर्वताः काननानि च ।
हते प्लवगशार्दूले निष्प्रभा वानराः कृताः ॥ ४।२२।२५ ॥
परिदेवनमेवाह किष्किन्धेत्यादिना । शून्या शून्यप्राया ॥ ४।२२।२५ ॥
यस्य वेगेन महता काननानि वनानि च ।
पुष्पौघेणानुबध्यन्ते करिष्यति तदद्य कः ॥ ४।२२।२६ ॥
यस्येति । वेगेन पराक्रमेण काननानि अरण्यानि, वनानि जलानि सरांसीत्यर्थः । पुष्पौघेण अनुबध्यन्ते सम्बध्यन्ते, सदा पुष्पितानि भवन्तीत्यर्थः । तत्पुष्पानुबन्धनम् अद्य तु वालिमरणानन्तकाले । यद्वा वनानि क्षुद्रारण्यानि यस्मिन् वालिनि गच्छति सति तदूरुवेगेनाविशेषेण सर्वाणि वनानि पुष्पैः सहानुगच्छन्तीत्यर्थः ॥ ४।२२।२६ ॥
येन दत्तं महद्युद्धं गन्धर्वस्य महात्मनः ।
गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च ॥ ४।२२।२७ ॥
नैव रात्रौ न दिवसे तद्युद्धमुपशाम्यति ।
ततस्तु षोडशे वर्षे गोलभो विनिपातितः ॥ ४।२२।२८ ॥
हत्वा तं दुर्विनीतं तु वाली दंष्ट्राकरालवान् ।
सर्वाभयकरो ऽस्माकं कथमेष निपातितः ॥ ४।२२।२९ ॥
येनेति । गोलभस्य गोलभाख्यस्य । उपशाम्यति उपाशाम्यत् । भूते लट् । दंष्ट्राकरालवान् करालदंष्ट्रावान् । परनिपातः ॥ ४।२२।२७२९ ॥
हते तु वीरे प्लवगाधिपे तदा प्लवङ्गमास्तत्र न शर्म लेभिरे ।
वनेचराः सिंहयुते महावने यथा हि गावो निहते गवां पतौ ॥ ४।२२।३० ॥
हत इति । शर्म सुखम् । सिंहयुत इति । सिंहस्थानीयो रामः ॥ ४।२२।३० ॥
ततस्तु तारा व्यसनार्णवाप्लुता मृतस्य भर्तुर्वदनं समीक्ष्य सा ।
जगाम भूमिं परिरभ्य वालिनं महाद्रुमं छिन्नमिवाश्रिता लता ॥ ४।२२।३१ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वाविंशः सर्गः ॥ २२ ॥
ततस्त्विति । व्यसनार्णवे आप्लुता मग्नेति यावत् ॥ ४।२२।३१ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥