तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ ४।१६।१ ॥
गर्जतो ऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः ।
मर्षयिष्याम्यहं केन कारणेन वरानने ॥ ४।१६।२ ॥
अथ वालिवधः षोडशे तामेवमित्यादि ॥ ४।१६।१,२ ॥
अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ ४।१६।३ ॥
अधर्षितानामिति । धर्षणामर्षणं धर्षणस्य आमर्षणं सहनमिति वा । धर्षणायाः तिरस्कारस्य मर्षणमिति वार्थः ॥ ४।१६।३ ॥
सोढुं न च समर्थो ऽहं युद्धकामस्य संयुगे ।
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः ॥ ४।१६।४ ॥
सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जत इति । हीनग्रीवस्येति परुषोक्तिः ॥ ४।१६।४ ॥
न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।
ध्रमज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ ४।१६।५ ॥
पापं निरपराधवधम् ॥ ४।१६।५ ॥
निवर्तस्व सह स्त्रीभिः कथं भूयो ऽनुच्छसि ।
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥ ४।१६।६ ॥
निवर्तने क्रियमाणे ऽपि भूयः सौहृदं सुहृत्कर्तव्यं हितोपदेश इति यावत् । भक्तिः कृता प्रकाशितेत्यर्थः ॥ ४।१६।६ ॥
प्रति योत्साम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् ।
दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ ४।१६।७ ॥
सुग्रीवं प्रतियोत्स्यामि ॥ ४।१६।७ ॥
अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम् ।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ ४।१६।८ ॥
सम्प्रहारव्याकुलेन त्वया कथं तस्य प्राणरक्षणं कर्तुं शक्यं तत्राह अहं हीति । यथेप्सितम् ईप्सितं तत्प्राणरक्षणमनतिक्रम्य । आजौ युद्धे स्थितस्य ॥ ४।१६।८ ॥
न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् ।
कृतं तारे सहायत्वं सौहृदं दर्शितं मयि ॥ ४।१६।९ ॥
शापितासि मम प्राणैर्निवर्तस्व जयेन च ।
अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ ४।१६।१० ॥
नेति । गर्वितं गर्वम् । आयस्तम् आयासं, प्रत्यत्नमिति यावत् । सहिष्यतीति परस्मैपदमार्षम् । सहायत्वं बुद्धिसाहाय्यम् ॥ ४।१६।९,१० ॥
तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ ४।१६।११ ॥
तं त्विति । दक्षिणा स्वस्मिन् परस्मिंश्च तुल्यहिता ॥ ४।१६।११ ॥
ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी ।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ ४।१६।१२ ॥
प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम् ।
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ ४।१६।१३ ॥
मन्त्रवत् स्वस्त्ययनमन्त्रवत् । मन्त्रश्च वैदिकादन्य इति ज्ञेयः ॥ ४।१६।१२,१३ ॥
स निःश्वस्य महातेजा वाली परमरोषणः ।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया ॥ ४।१६।१४ ॥
स निःश्वस्येति । चारयन् प्रस्थित इति शेषः ॥ ४।१६।१४ ॥
स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम् ।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ ४।१६।१५ ॥
स ददर्शेति । सुसंवीतं वाससा सुष्ठु परिवीतम् । अवष्टब्धं युयुत्सया भूमिमाक्रम्य स्थितम् ॥ ४।१६।१५ ॥
स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ।
गाढं परिदधे वासो वाली परमरोषणः ॥ ४।१६।१६ ॥
पर्यवस्थितं समीपे अवस्थितम् ॥ ४।१६।१६ ॥
स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ ४।१६।१७ ॥
श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः ।
सुग्रीवो ऽपि तमुद्दिश्य वालिनं हेममालिनम् ॥ ४।१६।१८ ॥
तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम् ।
आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ ४।१६।१९ ॥
एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः ।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ ४।१६।२० ॥
स वालीति । कृतक्षणः कृतोत्सवः लब्धावसरो वा । “निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः” इत्यमरः ॥ ४।१६।१७२० ॥
एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ।
तवैव चाहरन् प्राणान् मुष्टिः पततु मूर्धनि ॥ ४।१६।२१ ॥
एवमिति । पततु मूर्धनीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥ ४।१६।२१ ॥
ताडितस्तेन सङ्क्रुद्धः समभिक्रम्य वेगितः ।
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ ४।१६।२२ ॥
सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा ।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ ४।१६।२३ ॥
तेन वालिना ताडितः । अत एव सङ्क्रुद्धः वेगितः सञ्जातवेगः, पुनः प्रहारायेति शेषः । अत्र सुग्रीव इत्यध्याहार्यम् । सोत्पीडः सनिर्झरः ॥ ४।१६।२२,२३ ॥
स तु वाली प्रचलितः सालताडनविह्वलः ।
गुरुभारसमाक्रान्तो नौसार्थ इव सागरे ॥ ४।१६।२४ ॥
स त्विति । नौः पोतः ॥ ४।१६।२४ ॥
तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ।
परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ ॥ ४।१६।२५ ॥
तावित्यादि । विक्रान्तौ विक्रमवन्तौ । भीमबलौ च तौ विक्रान्तौ चेति कर्मधारयः । सुपर्णसमवेगिनौ गरुडवेगतुल्यवेगवन्तौ कर्मधारयान्मत्वर्थीयः । चन्द्रसूर्याविव पौर्णमासीचन्द्रसूर्याविव प्रवृद्धावभूतामित्यर्थः ॥ ४।१६।२५ ॥
ततो ऽवर्धत वाली तु बलवीर्यसमन्वितः ।
सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते ॥ ४।१६।२६ ॥
अवर्धत तेजसेति शेषः । परिहीयते पर्यहीयतेत्यर्थः ॥ ४।१६।२६ ॥
वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ।
वालिनं प्रति सामर्षो दर्शयामास लाघवम् ॥ ४।१६।२७ ॥
लाघवं शैघ्र्यम् । “लघु माधुर्यशीघ्रयो” इति निघण्टुः ॥ ४।१६।२७ ॥
वृक्षैः सशाखैः सशिखैर्वज्रकोटिनिभैर्नखैः ।
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनःपुनः ।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ ४।१६।२८ ॥
वृक्षैरित्यादिना । तयोर्युद्धमभूद्घोरमिति पाठः ॥ ४।१६।२८ ॥
तौ शोणिताक्तौ युद्ध्येतां वानरौ वनचारिणौ ।
मेघाविव महाशब्दैस्तर्जमा(या)नौ परस्परम् ॥ ४।१६।२९ ॥
हीयमानमथो ऽपश्यत्सुग्रीवं वानरेश्वरम् ।
वीक्षमाणं दिशश्चैव राघवः स मुहुर्मुहुः ॥ ४।१६।३० ॥
ताविति । युध्येताम् अयुध्यताम् । तर्जमा(या)नाविति उभयत्र आगमशासनस्यानित्यत्वादडभावः मुमभावश्च ॥ ४।१६।२९,३० ॥
ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।
शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ ४।१६।३१ ॥
ततो राम इति । शरं वीक्षते, वालिवधोचितं शरं पर्यालोचयदित्यर्थः ॥ ४।१६।३१ ॥
ततो धनुषि सन्धाय शरमाशीविषोपमम् ।
पूरयामास तच्चापं कालचक्रमिवान्तकः ॥ ४।१६।३२ ॥
तत इति । कालचक्रं यमस्यायुधविशेषः ॥ ४।१६।३२ ॥
तस्य ज्यातलघोषेण त्रस्ताः पत्त्ररथेश्वराः ।
प्रदुद्रुवुर्मृगाश्चैव युगान्त इवमोहिताः ॥ ४।१६।३३ ॥
तस्येति । पत्त्ररथेश्वराः पक्षिश्रेष्ठाः ॥ ४।१६।३३ ॥
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।
राघवेण महाबाणो वालिवक्षसि पातितः ॥ ४।१६।३४ ॥
मुक्तस्त्विति । वज्रस्येव निर्घोषो यस्य तथा प्रदीप्ताशनिसन्निभः प्रदीप्तविद्युत्तुल्यः । “अशनिस्तु द्वयोर्वज्रे सौदामिन्याम्” इति दर्पणः ॥ ४।१६।३४ ॥
ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः ।
वेगेनाभिहतो वाली निपपात महीतले ॥ ४।१६।३५ ॥
इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतेले ।
आश्वयुक्समये मासि गत श्रीको विचेतनः ॥ ४।१६।३६ ॥
तत इत्यादिश्लोकद्वयमेकान्वयम् । उद्धूतः पातितः । आश्वयुक्समये आश्वयुक्समयरूपे मासि पौर्णमास्यां महीतले पातित इत्यन्वयः ॥ ४।१६।३५,३६ ॥
नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम् ।
ससर्ज दीप्तं तममित्रमर्द्दनं सधूममग्निं मुखतो यथा हरः ॥ ४।१६।३७ ॥
अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानलोद्धतः ।
विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ ४।१६।३८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षोडशः सर्गः ॥ १६ ॥
उक्तमर्थं वृत्तान्तरेण सङ्गृह्णाति नरोत्तम इत्यादिश्लोकद्वयेन । कालयुगान्तकोपमं, युगान्तकालोपममित्यर्थः । स्वर्थे कप्रत्ययः । युगान्तकालो युगान्तमृत्युः । काञ्चनरूप्यभूषितं परभागाय स्वर्णरजताभ्यामलङ्कृतम् । सधूममित्यनेन ज्वालोन्मुखत्वमुच्यते । हरः प्रलये संहर्ता । नन्वत्र एकवचनादेकेन बाणेन वाली हत इत्युक्तम् । इदम् उत्तरत्र तारावाक्येन “रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः” इत्यनेन बहुबाणहतत्ववचनेन विरुध्यते । मैवम्, व्याकुलवचनत्वात्तस्य । यतः तारा एकबाणहतं श्रुत्वाप्येवमाह । वक्ष्यति हि " तं भार्या बाणमोक्षेण रामदत्तेन संयुगे । हतं प्लवगशार्दूलं तारा शुश्राव वालिनम् ॥ " इति । सर्गोपक्रमे च “निजघान च तत्रैनं शरेणैकेन राघवः ।” इत्यत्र एकशब्दः प्रयुक्तः । “प्रतिज्ञातं च रामेण तथा वालिवधं प्रति” इति प्रतिज्ञानिर्वाहाय छद्मना ऽपि वालिवधः कृतः । अस्मिन् सर्गे एकोनचत्वारिंशच्छ्लोकाः ॥ ४।१६।३७,३८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षोडशः सर्गः ॥ १६ ॥