०१५ तारोपदेशः

अथ तस्य निनादं तु सुग्रीवस्य महात्मनः ।

शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः ॥ ४।१५।१ ॥

अथ ताराबुद्धिः पञ्चदशे अथ तस्येत्यादि । महात्मनः महाधैर्यस्य ॥ ४।१५।१ ॥

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।

मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥ ४।१५।२ ॥

श्रुत्वेति । स्थितस्येति शेषः । एकपदे एकस्मिन्नेव स्थाने, सद्य इत्यर्थः । आपतितः उत्पन्न इत्यर्थः ॥ ४।१५।२ ॥

स तु रोषपरीताङ्गो वाली सन्ध्यातपप्रभः ।

उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ४।१५।३ ॥

स त्विति । रोषेण परीताङ्गः विपरीताङ्गः, विकृतवेष इत्यर्थः । अत एव सन्ध्यातपप्रभः “कोपपावकयावकिताननः” इति प्रयोगात्कोपरक्तदेहत्वात्सन्ध्यातपप्रभत्वम् । किञ्च उपरक्तः समीपरक्तः, कृतपरिवेष इत्यर्थः । परिवेषयुक्तो हि सूर्यो निष्प्रभो दृश्यते । उपरक्तो राहुग्रस्तो वा ॥ ४।१५।३ ॥

वाली दंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निसन्निभः ।

भात्युत्पतितमद्माभः समृणाल इव ह्रदः ॥ ४।१५।४ ॥

शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।

वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ ४।१५।५ ॥

दंष्ट्राकरालः दंष्ट्रादन्तुरः । “कालो दन्तुरे तुङ्गे” इत्यमरः । क्रोधाद्धेतोः दीप्ताग्निसन्निभः अत एवोत्पतितपद्मः विकसितरक्तोत्पलः । “उत्पतितपद्माभ” इति पाठे उत्पतिता स्वोपरि प्रसृता पद्मानामाभा यस्मिन् स इत्यर्थः । समृणालो ह्रदः इव भाति बभौ ॥ ४।१५।४,५ ॥

तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा ।

उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥ ४।१५।६ ॥

परिष्वज्य स्ववचनश्रवणाभिमुख्यायालिङ्ग्य स्नेहात् परिष्वज्येत्यन्वयः । दर्शितसौहृदा यथा भवति तथोवाचेत्यर्थः । सम्भ्रान्ता त्वरिता “सम्भ्रमस्त्वरा” इत्यमरः । हितोदर्कं हितफलकम् ॥ ४।१५।६ ॥

साधु क्रोधमिमं वीर नदीवेगमिवागतम् ।

शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ ४।१५।७ ॥

साध्विति । काल्यं प्रातः शयनादुत्थितः पुरुषः भुक्तां स्रजमिव नदीवेगमिव आगतम् अप्रतिबद्धं क्रोधं साधु निश्शेषं त्यज ॥ ४।१५।७ ॥

काल्यमेतेन सङ्ग्रामं करिष्यसि च वानर ।

वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥ ४।१५।८ ॥

काल्यं प्रातःकाले, एतेन युद्धं करिष्यसि । फल्गुता लाघवं वा शत्रुबाहुल्यं शत्रुगौरवं वा न विद्यते । अतः किमर्थमद्यैव निर्गच्छसीत्यर्थः ॥ ४।१५।८ ॥

सहसा तव निष्क्रामो मम तावन्न रोचते ।

श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ॥ ४।१५।९ ॥

सहसा निर्गमे को दोष इत्यत्राह सहसेति ॥ ४।१५।९ ॥

पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि ।

निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ ४।१५।१० ॥

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।

इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ ४।१५।११ ॥

प्रथमं युक्तिमाह पूर्वमित्यादिश्लोकद्वयमेकान्वयम् । पूर्वमापतितः ते त्वया क्रोधान्निष्यत्य यो युधि निरस्तः, हन्यमानो दिशो गतश्च सः त्वामाह्वयते । पुनरेत्य स्थितस्य तस्यैतदाह्वानं मे शङ्कां सहायसहितत्वशङ्कां जनयतीति योजना । इवशब्दो वाक्यालङ्कारे ॥ ४।१५।१०,११ ॥

दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ।

निनादश्चापि संरम्भो नैतदल्पं हि कारणम् ॥ ४।१५।१२ ॥

अवधारणे हेत्वन्तरमप्याह दर्पश्चेति । नर्दतस्तस्य दर्पश्च व्यवसायश्च यत्नश्च निनादश्च संरम्भश्च यादृशः अस्य एतत्कारणमल्पं न भवतीति योजना ॥ ४।१५।१२ ॥

नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।

अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ ४।१५।१३ ॥

फलितमाह नासहायमिति । अवष्टब्धसहायश्च परिगृहीतसहाय एव । कुतः? एषः यमाश्रित्य गर्जति तादृशगर्जनहेतुसहायाश्रित एष इत्यर्थः ॥ ४।१५।१३ ॥

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ।

अपरीक्षितवीर्येण सुग्रीवः सह नेष्यति ॥ ४।१५।१४ ॥

सहायस्यातिशये किं मानमित्यत आह प्रकृत्येति ॥ ४।१५।१४ ॥

पूर्वमेव मया वीर श्रुतं कथयतो वचः ।

अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः ॥ ४।१५।१५ ॥

न केवलं युक्त्यायं निर्णयः, वचनाच्चेत्याह पूर्वमिति । वचो यत् प्रासङ्गिकं कथयतो ऽङ्गदस्य वचः मया श्रुतं तत् हितं वचः त्वां प्रति वक्ष्यामि ॥ ४।१५।१५ ॥

अङ्गदस्तु कुमारो़ ऽयं वनान्तमुपनिर्गतः ।

प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता ॥ ४।१५।१६ ॥

अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ ।

इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ।

सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ॥ ४।१५।१७ ॥

अङ्गद इति । वनान्तमुपवनान्तमभिनिर्गतः विहारार्थं गतः । प्रवृत्तिर्वार्ता “वार्ता प्रवृत्तिर्वृत्तान्तः” इत्यमरः । तत्र ऋश्यमूके दुरासदावित्यनन्तरमितिकरणं बोध्यम् । प्राप्तविति प्रवृत्तिस्तेन कथितेति सम्बन्धः ॥ ४।१५।१६,१७ ॥

तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः ।

रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ॥ ४।१५।१८ ॥

तौ कीदृशावित्यपेक्षायाम् एकस्य स्वरूपकथनेनान्यस्य स्वरूपमप्यर्थादुक्तं भवतीति मत्वा प्रधानभूतरामस्वरूपमाह तवेत्यादिना श्लोकत्रयेण । रामः उक्तविशेषणविशिष्ट इत्यन्वयः ॥ ४।१५।१८ ॥

निवासवृक्षः साधूनामापन्नानां परा गतिः ।

आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥ ४।१५।१९ ॥

तत्त्वस्थितिं सूचयन्त्याह निवासेति । यथा सुग्रीवस्य सहायः एवं ममापि कुतो न स्यादित्यत्राह साधूनामिति । स्वच्छायापेक्षिणाम् अनुकूलानां निवासवृक्षः । वृक्ष इत्यभेदाध्यवसायेन सर्वाथा सादृश्यमुच्यते । यथा वृक्षः प्रथमं तापमहृत्य पुष्पफलप्रदानादिना सर्वेन्द्रियतर्पणः तथायमित्यर्थः । निवास इति विशेषणेन कादाचित्कच्छायकतरुव्यावृत्तिः । “वासुदेवतरुच्छाया नातिशीता न घर्मदा । नरकाङ्गारशमनी सा किमर्थं न सेव्यते ॥ " इत्युक्तत्वात्। सुग्रीवद्रोहकरणेन नास्माकं साधुत्वलेश इत्याशयः। साधूनामेवम्, आपन्नानां तु परा गतिः “योगक्षेमं वहामि” इत्युक्तरीत्या आश्रितविषये उपायदशाप्रभृतिफलपर्यन्तसर्वकार्यकर इत्यर्थः। तत्राप्यार्तानां संश्रयश्चैव। आश्रितेष्वपि आर्तानां तु सर्वदा समीचीनाश्रयः, सर्वकार्यनिर्वाहक इत्यर्थः। भवत्वेवम्, ममापि कश्चिदाश्रयो भविष्यतीत्यत्राह यशसश्चैकभाजनमिति। एंवविधरक्षको लोकेऽन्यो नास्तीत्यर्थः। अत्र “चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ " इत्युक्ताश्चतुर्विधाधिकारिण उच्यन्ते । साधूनां जिज्ञासूनाम्, कैवल्यकामानामित्यर्थः । आपन्नानाम् अपूर्वैश्वर्यकामानाम् । आर्तानां भ्रष्टैश्वर्यकामानाम् । यशसः “ज्ञानी त्वात्मैव मे मतम्” इत्युक्तयशोयुक्तस्य । एकवचनेन तस्य सुदुर्लभत्वमुक्तम् । एकभाजनम् अद्वितीयाश्रयः । यद्वा साधूनामुपासकानाम् आपन्नानां “सकृदेव प्रपन्नाय” इत्युक्तरीत्या ईषत्प्रपन्नानाम् । आर्तानाम् आर्तप्रपन्नानाम् । “आर्तो वा यदि वा दृप्तः परेषां शरणागतः” इति वक्ष्यमाणत्वत् । यशसश्चैकभाजनमित्यनेन एवंभूतो ऽन्यो नास्तीत्युच्यते ॥ ४।१५।१९ ॥

ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः ।

धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ ४।१५।२० ॥

आश्रीतफलप्रदानोपयोगिज्ञानसम्पत्तिमाह ज्ञानविज्ञानसम्पन्न इति । ज्ञानं लौकिकज्ञानम्, विज्ञानं शास्त्रजन्यज्ञानम् ताभ्यां सम्पन्नः । यद्वा विज्ञानेन धर्मभूतेन सम्पन्नः । ज्ञानश्चासौ विज्ञानसम्पन्नश्चेति । कर्मधारयः । ज्ञानस्वरूपो ज्ञानगुणकश्चेत्यर्थः । ज्ञानसम्पत्तिमुक्त्वा ऽनुष्ठानसम्पत्तिमाह निदेशे निरतः पितुरिति । प्रधानत्वात्पितृवचनपरिपालनत्वमुक्तम् । इदमुपलक्षणं धर्मान्तराणाम् । अनेन सौलभ्यं चोक्तम् । समस्तकल्याणगुणसमृद्धिमाह गुणानामाकर इति । बहुवचनेनासङ्ख्येयत्वमुक्तम् । आकर इत्यनेन गुणातिरिक्तत्वं गुणिन उक्तम् । महानित्यनेन गुणानामप्युत्कर्षावहं गुणिस्वरूपमुच्यते । धातूनामित्यनेन गुणानां ज्ञानशक्तिबलैश्वर्यादिभेदेन नानाविधत्वमुक्तम् । शैलेन्द्रो हिमवान् अनेनाप्रकम्प्यत्वमुक्तम् ॥ ४।१५।२० ॥

तत्क्षमं न विरोधस्ते सह तेन महात्मना ।

दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ ४।१५।२१ ॥

तदिति । रणकर्मसु दुर्जयेनेत्यन्वयः ॥ ४।१५।२१ ॥

शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम् ।

श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥ ४।१५।२२ ॥

ते अभ्यसूयितुं नेच्छामि । त्वद्विषये अभ्यसूयां दोषाविष्करणं कर्तुं कदाचिदपि नेच्छामीत्यर्थः । यद्वा मया वक्ष्यमाणे हिते त्वया अभ्यसूया न कार्येत्यर्थः ॥ ४।१५।२२ ॥

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ।

विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा ॥ ४।१५।२३ ॥

अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ।

सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः ॥ ४।१५।२४ ॥

लालनीयो हि ते भ्राता यवीयानेष वानरः ।

तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ ४।१५।२५ ॥

यौवराज्येन अभिषेचय यौवराज्येनोपलक्षितो यथा भवति तथाभिषिञ्चेत्यर्थः ॥ ४।१५।२३२५ ॥

न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन ।

दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ॥ ४।१५।२६ ॥

वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु ।

सुग्रीवो विपुलग्रीवस्तव बन्धुः सदा मतः ॥ ४।१५।२७ ॥

प्रत्यनन्तरं त्वदनन्तरम् । समीपवर्तिनं वा कुरुष्व ॥ ४।१५।२६,२७ ॥

भ्रातुः सौहृदमालम्ब नान्या गितिरिहास्ति ते ॥ ४।१५।२८ ॥

भ्रातुरित्यर्धम् । आलम्ब आलम्बस्व ॥ ४।१५।२८ ॥

यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ।

याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ ४।१५।२९ ॥

अवैषि जानासि । प्रत्यत्नेन बहुप्रयत्नेन ॥ ४।१५।२९ ॥

प्रसीद पथ्यं शृणु जल्पितं हि मे न रोषमेवानुविधातुमर्हसि ।

क्षमो हि ते कोसलराजसूनुना न विग्रहः शक्रसमानतेजसा ॥ ४।१५।३० ॥

स्ववचनाश्रवणे बाधकं सूचयन्त्याह प्रसीदेति । प्रसीद त्यक्तरोषो भव । पथ्यं हितम् । जल्पितं वचनम् । भावे क्तः । शक्रसमानतेजसा शक्रतेजस्तुल्यतेजसा । अनेन वालिनो रामस्याधिक्यमुक्तम् ॥ ४।१५।३० ॥

तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे ।

न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ॥ ४।१५।३१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चदशः सर्गः ॥ १५ ॥

तदा वक्तव्यकाले, वालिनं प्रतीति शेषः । भाषतेर्द्विकर्मकत्वात् । तस्य तस्मै । चतुर्थ्यर्थे षष्ठी । “रुच्यर्थानाम्” इति हि स्मृतिः । विनाशकालत्वे हेतुः कालाभिपन्नस्येति । मृत्युना गृहीतस्येत्यर्थः ॥ ४।१५।३१ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥