ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः ।
जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ ४।१३।१ ॥
समुद्यम्य महच्चापं रामः काञ्चनभूषितम् ।
शरांश्चादित्यसङ्काशान् गृहीत्वा रणसाधकान् ॥ ४।१३।२ ॥
अथ पुनः किष्किन्धाप्रवेशस्त्रयोदशे ऋश्यमूकादित्यादि ॥ ४।१३।१,२ ॥
अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।
सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥ ४।१३।३ ॥
पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः ।
तारश्चैव महातेजा हरियूथपयूथपः ॥ ४।१३।४ ॥
अग्रत इति । संहतग्रीवः निबिडकण्ठ इत्यर्थः । इदं स्वरूपकीर्तनम्, गजपुष्पीबन्धनेन वा ॥ ४।१३।३,४ ॥
ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः ।
प्रसन्नाम्बुवहाश्चैव सरितः सागरङ्गमाः ॥ ४।१३।५ ॥
अथ कार्यसिद्धिसूचकपदार्थानुभवविशेषं दर्शयति ते वीक्षमाणा इत्यादिना ॥ ४।१३।५ ॥
कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा ।
शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ४।१३।६ ॥
कन्दराणि गृहाकारगुहाविशेषान् । निर्दराणि स्फुटितशेलरन्ध्रविशेषान् । गुहाः देवखातबिलानि । दरीः गुहाविशेषान् ॥ ४।१३।६ ॥
वैडूर्यविमलैः पर्णैः पद्मैश्चाकोशकुङ्मलैः ।
शोभितान् सजलान् मार्गे तटाकांश्च व्यलोकयन् ॥ ४।१३।७ ॥
आकोशकुड्मलैः ईषद्विकसितमुकुलैः ॥ ४।१३।७ ॥
कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः ।
चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान् ॥ ४।१३।८ ॥
कारण्डैः “कारण्डको महापक्षी” इति वैजयन्ती । सारसैः सरोनिवासैः शकुनैरुपनादितान् तटाकान् व्यलोकयन्निति पूर्वेणान्वयः ॥ ४।१३।८ ॥
मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान् ।
चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान् ॥ ४।१३।९ ॥
मृदुशष्पेति । चरतः स्थितांश्चापश्यन् ॥ ४।१३।९ ॥
तटाकवैरिणश्चापि शुक्लदन्तविभूषितान् ।
घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ॥ ४।१३।१० ॥
तटाकवैरिण इत्यादि । तटाकवैरिणः कलुषीकरणात् । एकचरान् एकाकिनः द्विरदाः द्विदन्ता इति चतुर्दन्तव्यावृत्तिः ॥ ४।१३।१० ॥
मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान् ।
वारणान् वारिदप्रख्यान् महीरेणुसमुक्षितान् ॥ ४।१३।११ ॥
वने वनचरांश्चान्यान् खेचरांश्च विहङ्गमान् ।
पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ ४।१३।१२ ॥
गिरितटोत्कृष्टान् उल्लिखितगिरितटान् ॥ ४।१३।११,१२ ॥
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः ।
द्रुमषण्ड वनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ ४।१३।१३ ॥
तेषां त्विति । द्रुमषण्डं वृक्षषण्डमयमिति लतागुल्मव्यावृत्तिः ॥ ४।१३।१३ ॥
एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते ।
मेघसङ्घातविपुलः पर्यन्तकदलीवृतः ॥ ४।१३।१४ ॥
किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं हि मे ।
कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ ४।१३।१५ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
गच्छन्नेवाचचक्षे ऽथ सुग्रीवस्तन्महद्वनम् ॥ ४।१३।१६ ॥
एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ।
उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥ ४।१३।१७ ॥
अत्र सप्तजना नाम मुनयः संशितव्रताः ।
सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ ४।१३।१८ ॥
एष इति । मेघ इवेति नीलवर्णे उपमा ॥ ४।१३।१४१८ ॥
सप्तरात्रकृताहारा वायुना वनवासिनाः ।
दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥ ४।१३।१९ ॥
सप्तरात्रेति । सप्तरात्रकृताहाराः वायुना सप्तरात्रस्य एकवारं कृताहाराः । सप्तभिर्वर्षशतैरित्यन्वयः ॥ ४।१३।१९ ॥
तेषामेवंप्रभावानां द्रुमप्राकारसंवृतम् ।
आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥ ४।१३।२० ॥
पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः ।
विशन्ति मोहाद्ये तत्र निवर्तन्ते न ते पुनः ॥ ४।१३।२१ ॥
तेषामित्यादि । विशन्तीति । ये मोहादत्राश्रमे विशन्ति न ते निवर्तन्ते किन्तु तत्रैव नश्यन्तीत्यर्थः ॥ ४।१३।२०,२१ ॥
विभूषणरवास्तत्र श्रूयन्ते सकलाक्षराः ।
तूर्यगीतस्वनाश्चात्र गन्धो दिव्यश्च राघव ॥ ४।१३।२२ ॥
दिवं गताः शरीरान्तरेण पुनरत्रागत्याप्सरोभिः क्रीडन्तीत्याशयेनाह विभूषणेत्यादिना । भूषणरवेण नृत्तमुपलक्ष्यते । सकलाक्षरा इति गीतस्वनविशेषणम् । तूर्यशब्दो ऽत्र गीतभिन्नवाद्यपरः ॥ ४।१३।२२ ॥
त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्यत्र प्रकाशते ।
वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ॥ ४।१३।२३ ॥
एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः ।
मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ ४।१३।२४ ॥
त्रेतेति । त्रेताग्निदीपने लिङ्गमाह धूमो हीति । घनः निबिडः ॥ ४।१३।२३,२४ ॥
कुरु प्रणामं धर्मात्मन् तान् समुद्दिश्य राघव ।
लक्ष्णणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ ४।१३।२५ ॥
कुर्विति । समुद्दिश्य किञ्चित्फलमुद्दिश्य तेषां प्रणामं कुरु ॥ ४।१३।२५ ॥
प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम् ।
न तेषामशुभं किञ्चिच्छरीरे राम दृश्यते ॥ ४।१३।२६ ॥
प्रणमन्तीति । शरीरे अशुभं व्याध्यादिकम् ॥ ४।१३।२६ ॥
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः ।
समुद्दिस्य महात्मानस्तानृषीनभ्यवादयत् ॥ ४।१३।२७ ॥
महात्मानः महात्मनः ॥ ४।१३।२७ ॥
अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः ।
सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः ॥ ४।१३।२८ ॥
ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात् ।
ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ ४।१३।२९ ॥
अभिवाद्येत्यनेन सर्वेषामभिवादनमनूद्यते । अत्राभिवादनं नमस्कारः, तेषां परोक्षत्वात् । अनेन सज्जनप्रणामो विजयावह इत्ययमर्थः सूचितः । तदिदं द्योत्यते उपरितनश्लोके उदिताग्र्यतेजस इति । प्रणामेनिति भावः ॥ ४।१३।२८,२९ ॥
ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः ।
पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह ॥ ४।१३।३० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥ १३ ॥
सह युगपत् ॥ ४।१३।३० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रयोदशः सर्गः ॥ १३ ॥