एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥ ४।१२।१ ॥
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः ।
सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः ॥ ४।१२।२ ॥
अथ प्रत्ययपूर्वकं वालिवधाय गमनं द्वादशे एतच्चेत्यादि ॥ ४।१२।१,२ ॥
स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः ।
भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह ॥ ४।१२।३ ॥
स इति । सः एकसालोद्देशेन विसृष्टः स्वर्णपरिष्कृतः स्वर्णपट्टालङ्कृतः । अनेन सर्वोत्तमत्वमुक्तम् । सालानिति । सप्त सालान् भित्त्वा गिरिप्रस्थे गिरिप्रस्थमार्गेण भूमिं विवेश । इत्थं ह्युक्तमभियुक्तैः “सालांश्च सप्त सगिरीन् सरसातलान्” इति । संक्षेपे च “गिरिं रसातलं चैव” इति । अन्यस्त्वपपाठः ॥ ४।१२।३ ॥
प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः ।
निष्पत्य च पुनस्तूर्णं स्वतूर्णीं प्रविवेश ह ॥ ४।१२।४ ॥
प्रविष्ट इति । धरां भित्त्वा प्रविष्टः स शरः महाजवत्वान्मुहूर्तेन निष्पत्य निर्गत्य पुनस्तां तूणीं प्रविवेश । मन्त्रप्रभावेनाचेतनस्यापि पुनरागमनम् ॥ ४।१२।४ ॥
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुङ्गवः ।
रामस्य शरवेगेन विस्मयं परमं गतः ॥ ४।१२।५ ॥
तानिति । दृष्ट्वेत्यनेनाल्पज्ञत्वात्सुग्रीवः सालानेव भिन्नान् ददर्श । सप्तभूमिप्रवेशं त्वहमेव धर्मवीर्येण पश्यामीति भावः ॥ ४।१२।५ ॥
स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः ।
सुग्रीवः परमप्रीतो राघवाय कृताञ्चलिः ॥ ४।१२।६ ॥
इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः ।
रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम् ॥ ४।१२।७ ॥
सेन्द्रानपि सुरान्त्सर्वांस्त्वं बाणैः पुरुषर्षभ ।
समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो ॥ ४।१२।८ ॥
येन सप्त महासाला गिरिर्भूमिश्च दारिताः ।
बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ॥ ४।१२।९ ॥
अद्य मे विगतः शोकः प्रीतिरद्यः परा मम ।
सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥ ४।१२।१० ॥
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् ।
वालिनं जहि काकुत्स्थ मया बद्धो ऽयमञ्जलिः ॥ ४।१२।११ ॥
स इति । स सुग्रीवः परमप्रीतः सन् राघवाय कृताञ्जलिः मूर्ध्ना भूमौ न्यपतत् । शिरसा भूमिं स्पृष्ट्वा प्रणनामेत्यर्थः । प्रलम्बीकृतभूषण इत्यनेन उदरास्पर्श उक्तः । अनेन भगवद्विषये प्रणामप्रकारः शिक्षितो भवति ॥ ४१२।६११ ॥
ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम् ।
प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः ॥ ४।१२।१२ ॥
अस्माद्गच्छेम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः ।
गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम् ॥ ४।१२।१३ ॥
तत इति । लक्ष्मणानुमतमिति क्रियाविशेषणम् । भ्रातृगन्धिनं भ्रातृहिंसकम् । “गन्धनावक्षेपण” इत्यत्र तथा प्रयोगात् । इति रामः सुग्रीवं प्रत्युवाचेति पूर्वेणान्वयः ॥ ४।१२।१२,१३ ॥
सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम् ।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ ४।१२।१४ ॥
सर्व इति । आत्मानं स्वं स्वमित्यर्थः ॥ ४।१२।१४ ॥
सुग्रीवो व्यनदद् घोरं वालिनो ह्वानकारणात् ।
गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम् ॥ ४।१२।१५ ॥
सुग्रीव इति । ह्वानम् आह्वनम् । गाढं परिहितः बलवृद्धये दृढबद्धपरिधानः ॥ ४।१२।१५ ॥
तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः ।
निश्चक्राम सुसंरब्धो भास्करो ऽस्ततटादिव ॥ ४।१२।१६ ॥
भास्करो ऽस्ततटादिवेति । यथा सूर्यो ऽस्ततटादवतरन्नदृष्टरश्मिर्भवति तथेदानीं किष्किन्धानिर्गमनं वालिनो ऽल्पकालेन नाशहेतुरिति द्योतनार्थमस्ततटादित्युक्तम् । अस्मद्देशोदयगिरिः प्रदेशान्तरापेक्षया अस्तगिरिरित्युक्तमित्यप्याहुः ॥ ४।१२।१६ ॥
ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत् ।
गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव ॥ ४।१२।१७ ॥
ततः सुतुमुलमिति । बुधाङ्गारकाख्ययोर्ग्रहयोरिव ॥ ४।१२।१७ ॥
तलैरशनिकल्पैश्च वज्रकल्पैश्चमुष्टिभिः ।
जघ्नतुः समरे ऽन्योन्यं भ्रातरौ क्रोधमूर्च्छितौ ॥ ४।१२।१८ ॥
अशनिः मेघज्योतिः ॥ ४।१२।१८ ॥
ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु ।
अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ ॥ ४।१२।१९ ॥
यन्नावगच्छत् सुग्रीवं वालिनं वापि राघवः ।
ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम् ॥ ४।१२।२० ॥
एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना ।
अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे ॥ ४।१२।२१ ॥
तत इत्यादिश्लोकद्वयमेकान्वयम् । उभावश्विनौ देवाविव तावुभौ समुदीक्ष्य सुग्रीवं वालिनं वा विशेषतो यन्नावगच्छत् ततः तस्मात् रामः शरं मोक्तुं बुद्धिं न कृतवानित्यन्वयः ॥ ४।१२।१९२१ ॥
क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः ।
वालिनाभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥ ४।१२।२२ ॥
तं प्रविष्टं वनं दृष्ट्वा वाली शापभयार्दितः ।
मुक्तो ह्यसि त्वमित्युक्त्वा सन्निवृत्तो महाद्युतिः ॥ ४।१२।२३ ॥
[ निवृत्तः स्वपुरीं प्राप क्रोधाविष्टो महाबलः ।]
राघवो ऽपि सहभ्रात्रा सह चैव हनूमता ।
तदेव वनमागच्छत् सग्रीवो यत्र वानरः ॥ ४।१२।२४ ॥
जर्जरीकृतः परुषत्वक्कृतः ॥ ४।१२।२२२४ ॥
तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ।
ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन् ॥ ४।१२।२५ ॥
वसुधामवलोकयन्निति लज्जानुभावः ॥ ४।१२।२५ ॥
आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ।
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥ ४।१२।२६ ॥
आह्वयस्वेति । दर्शयित्वा च विक्रममिति व्यतिरेकोक्तिः । त्वया किं कृतं, किं चिन्तितमित्यर्थः । कृतिरनेकार्थः ॥ ४।१२।२६ ॥
तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ।
वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥ ४।१२।२७ ॥
तामेव वेलामिति । अत्यन्तसंयोगे द्वितीया । “वालिनं जहि काकुत्स्थ” इति प्रार्थनवेलायामित्यर्थः । ततः तथोक्तं चेत् ॥ ४।१२।२७ ॥
तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥ ४।१२।२८ ॥
तस्येति । करुणं सदयम् अब्रवीत् ॥ ४।१२।२८ ॥
सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीयताम् ।
कारणं येन बाणो ऽयं न मया स विसर्जितः ॥ ४।१२।२९ ॥
सुग्रीवेति । येन कारणेन बाणो न विसर्जितः तत्कारणं श्रुयताम्, श्रुत्वा क्रोधश्चापनीयतामिति योजना ॥ ४।१२।२९ ॥
अलङ्कारेण वेषेण प्रमाणेन गतेन च ।
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ ४।१२।३० ॥
वेषेण आकारेण प्रमाणेन औन्नत्येन गतेन गमनेन ॥ ४।१२।३० ॥
स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ।
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ।
ततो ऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ४।१२।३१ ॥
वर्चसा तेजसा प्रेक्षितेन वीक्षणेन वाक्यैः भाषणैः व्यक्तिं विशेषम् । तत इति । मोहितः सञ्जातमोहः, विशेषानभिज्ञ इत्यर्थः ॥ ४।१२।३१ ॥
नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् ।
जीवितान्तकरं घोरं सादृश्यात्तु विशङ्कितः ॥ ४।१२।३२ ॥
मूलघातो न नौ स्याद्धि द्वयोरपिकृतो मया ॥ ४।१२।३३ ॥
त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया ।
मौढ्यं च मम बाल्यं च ख्यापितं स्याद्धरीश्वर ॥ ४।१२।३४ ॥
दत्ताभयवधो नाम पातकं महदुच्यते ॥ ४।१२।३५ ॥
अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ।
त्वदधीना वयं सर्वे वने ऽस्मिन् शरणं भवान् ॥ ४।१२।३६ ॥
नोत्सृजामीत्यादिसार्धश्लोक एकान्वयः । अन्ते इतिकरणं द्रष्टव्यम् । द्वयोपरि नौ मया मूलघातो न कृतः स्यादिति हि शरं नोत्सृजामि नोत्सृष्टवानस्मीति योजना । ननु काञ्चनमालारूपो वालिनो विशेषो ऽस्ति । सत्यम्, तस्मिन् दिने तन्न धृत्वा गतवानिति ज्ञेयम् । यद्यप्यत्र मत्तत्वभोगचिह्नाश्रान्तत्वपुरनिर्गतत्वादिकं वाल्यसाधारणमस्ति, समीपस्था हनुमदादयश्च प्रष्टुं शक्याः, स्वयं च सूक्ष्मज्ञः, “प्रेक्षितज्ञास्तु कोसलाः” इत्युक्तेः । तथापि “त्वया मया च कुन्त्या च” इति न्यायेन साधारण्यं परिहर्तुं दृष्टहेतून् कांश्चिदुक्तवान् राम इति ज्ञेयम् ॥ ४।१२।३२३६ ॥
तस्माद्युद्ध्यस्व भूयस्त्वं मा मा शङ्कीश्च वानर ।
एतन्मुहूर्ते सुग्रीव पश्य वालिनमाहवे ।
निरस्तमिषुणैकेन वेष्टमानं महीतले ॥ ४।१२।३७ ॥
तस्मादिति । मा मा शङ्कीरिति, मा मां प्रति मा शङ्कीः शङ्कां मा कुरु । व्यत्ययेन परस्मैपदम् । ४।१२।३७ ॥
अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर ।
येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम् ॥ ४।१२।३८ ॥
अभिज्ञानं चिह्नम् ॥ ४।१२।३८ ॥
गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् ।
कुरु लक्ष्मण कण्ठे ऽस्य सुग्रीवस्य महात्मनः ॥ ४।१२।३९ ॥
गजपुष्पीं नागपुष्पीं नाम लताम् ॥ ४।१२।३९ ॥
ततो गरितटे जातामुत्पाट्य कुसुमाकुलाम् ।
लक्ष्मणो गृजपुष्पीं तां तस्य कण्ठे व्यसर्जयत् ॥ ४।१२।४० ॥
व्यसर्जयत् अमोचयत्, बद्धवान् ॥ ४।१२।४० ॥
स तया शुशुभे श्रीमान् लतया कण्ठसक्तया ।
विपरीत इवाकाशे सूर्यो नक्षत्रमालया ॥ ४।१२।४१ ॥
स तयेत्यादि । विपरीत इवेत्याद्युपरि विव्रीयते ॥ ४।१२।४१ ॥
मालयेव बलाकानां ससन्ध्य इव तोयदः ।
विभ्राजमानो वपुषा रामवाक्यसमाहितः ।
जगाम सह रामेण किष्किन्धां वालिपालिताम् ॥ ४।१२।४२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वादशः सर्गः ॥ १२ ॥
ससन्ध्य इव तोयद इति । सुग्रीवस्य हेमपिङ्गलत्वादिति भावः । अस्मिन् सर्गे सार्धद्विचत्वारिंशच्छ्लोकाः ॥ ४।१२।४२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ॥