०११ वालिपराक्रमवर्णनम्

रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।

सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ॥ ४।११।१ ॥

असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः ।

त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ॥ ४।११।२ ॥

अथ सुग्रीवो वालिवधक्षमं रामबलं परीक्षितुकामस्तद्बलं दर्शयत्येकादशे रामस्येत्यादि । पूजयाञ्चक्रे अञ्जलिबन्धादिना । प्रशशंस तुष्टाव ॥ ४।११।१,२ ॥

वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ।

तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम् ॥ ४।११।३ ॥

पौरुषं बलम् । अनन्तरं यत्कर्तव्यं तद्विधत्स्व ॥ ४।११।३ ॥

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।

क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥ ४।११।४ ॥

समुद्रादिति । “ब्राह्मे मुहूर्त उत्थाय” इति ब्राह्ममुहूर्तस्य सन्ध्याकर्मकालत्वेन तस्मिन्नुत्थाय अनुदिते सूर्ये सन्ध्याकर्मकारणार्थं पश्चिमात्समुद्रात्पूर्वसमुद्रं दक्षिणात्समुद्रादुत्तरं समुद्रं च व्यपगतक्लमः सन् क्रामति । इदं व्यक्तमुत्तरकाण्डे । तारः “चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण । इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ " इति। ननु कथं चतुर्ष्वप्येकसन्ध्याकरणम्? उच्यते एकस्मिन् तटाके पार्श्वभेद इव स्नानाचमनार्ध्यप्रदानजपानां कर्तुं शक्यात्वात् अनुदिते सूर्य इत्युत्तरावधिरभिहितः। पूर्वावधिस्तु ब्राह्मे मुहूर्त उत्थायेत्युनुष्ठानाङ्गत्वेन विहितः कालः। चतुःसमुद्रपरिक्रमस्यानुष्ठानार्थत्वम् “चतुर्भ्योऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण। इमं मुहुर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ " इत्युत्तरश्रीरामायणोक्ततारवचनादवगम्यते ॥ ४।११।४ ॥

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।

ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥ ४।११।५ ॥

अग्राणीति । कन्दुकानीवेति भावः ॥ ४।११।५ ॥

बहवः सारवन्तश्च वनेषु विविधा द्रुमाः ।

वालिना तरसा भग्ना बलं प्रथयतात्मनः ॥ ४।११।६ ॥

बहव इति । मक्षिकोत्सारणरीत्येति भावः । सारवन्तः स्थिरांशवन्तः । “सारो बले स्थिरांशे च " इत्यमरः ॥ ४।११।६ ॥

महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः ।

बलं नागसहस्रस्य धारयामास वीर्यवान् ॥ ४।११।७ ॥

कैलासशिखरप्रभः तदाकार इत्यर्थः ॥ ४।११।७ ॥

वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ।

जगाम सुमहाकायः समुद्रं सरितां पतिम् ॥ ४।११।८ ॥

ऊर्मिमन्तमतिक्रम्य सागरं रत्नस़ञ्चयम् ।

मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥ ४।११।९ ॥

वीर्योत्सेकेन वीर्यगर्वेण दुष्टात्मा दुर्बुद्धिः अतिक्रम्य जगाम । पूर्वकालो न विवक्षितः । आक्रामन् जगामेत्यर्थः ॥ ४।११।८,९ ॥

ततः समुद्रो धर्मात्मा समुत्थाय महाबलः ।

अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥ ४।११।१० ॥

समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।

श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ॥ ४।११।११ ॥

समुत्थाय पुरुषवेषेणोत्थाय ॥ ४।११।१०,११ ॥

शैलराजो महारण्ये तपस्विशरणं परम् ।

शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥ ४।११।१२ ॥

गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः ।

स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥ ४।११।१३ ॥

तं भीत इति विज्ञाय समुद्रमसुरोत्तमः ।

हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥ ४।११।१४ ॥

ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः ।

चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥ ४।११।१५ ॥

ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ।

हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः ॥ ४।११।१६ ॥

क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ।

रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥ ४।११।१७ ॥

तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ।

उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ ४।११।१८ ॥

परं तपस्विशरणं तपस्विनां परमावासस्थानम् नित्यनपुंसकम् । प्रस्रवणं निर्झरः । निर्दराः विदीर्णपाषाणरन्ध्राणि ॥ ४।११।१२१८ ॥

यदि युद्धे ऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ।

तमाचक्ष्व प्रदद्यान्मे यो ऽद्य युद्धं युयुत्सतः ॥ ४।११।१९ ॥

यदीति । त्वं युद्धासमर्थो यदि यदि वा समर्थो ऽपि मद्भयान्निरुद्यमः उभयथापि न त्वां योत्स्यामीत्यर्थः । युयुत्सतः योद्धुमिच्छतः ॥ ४।११।१९ ॥

हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ।

अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥ ४।११।२० ॥

वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः ।

अध्यास्ते वानरः श्रीमान् किष्कन्धामतुलप्रभाम् ॥ ४।११।२१ ॥

हिमवानिति । अनुक्तपूर्वम् इतः पूर्वं केनाप्यनुक्तं वाक्यम् । अत एव क्रोधात् ॥ ४।११।२०,२१ ॥

स समर्थो महाप्राज्ञस्तव युद्धविशारदः ।

द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥ ४।११।२२ ॥

तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।

स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि ॥ ४।११।२३ ॥

श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः ।

जगाम तं पुरीं तस्य किष्किन्धां वालिनस्तदा ॥ ४।११।२४ ॥

धारयन् माहिषं रूपं तीक्ष्णशृङ्गो भयावहः ।

प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ॥ ४।११।२५ ॥

स इति । दातुं समर्थ इत्यन्वयः ॥ ४।११।२२२५ ॥

ततस्तद्द्वारमागम्य किष्कन्धाया महाबलः ।

ननर्द कम्पयन् भूमिं दुन्धुभिर्दुन्दुभिर्यथा ॥ ४।११।२६ ॥

समीपस्थान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः ।

विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा ॥ ४।११।२७ ॥

तद्द्वारं किष्किन्धाद्वारम् । विषाणेन उल्लिखन् उद्भिन्दन् ॥ ४।११।२६,२७ ॥

अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ।

निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥ ४।११।२८ ॥

अन्तःपुरगत इति । सह स्त्रीभिरिति मदातिरेकादिति भावः ॥ ४।११।२८ ॥

मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् ।

हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥ ४।११।२९ ॥

किमर्थं नगरद्वारमिदं रुद्धा विनर्दसि ।

दुन्दुभे विदितो मे ऽसि रक्ष प्राणान् महाबलः ॥ ४।११।३० ॥

तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ।

उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥ ४।११।३१ ॥

व्यक्तान्यक्षराणि येषु तानि व्यक्ताक्षराणि पदानि यस्मिन् कर्मणि तद्व्यक्ताक्षरपदमिति क्रियाविशेषणम् । वनचारिणां भल्लूकादीनाम् ॥ ४।११।२९३१ ॥

न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि ।

मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥ ४।११।३२ ॥

न त्वमिति । स्त्रीसन्निधौ वचनम् स्त्रीजनभ्रामकं वचनमित्यर्थः । ४।११।३२ ॥

अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ।

गृह्यतामुदयः स्वैरं कामभोगेषु वानर ॥ ४।११।३३ ॥

उदयः सूर्योदयः । गृह्यताम् अवधित्वेन गृह्यताम् ॥ ४।११।३३ ॥

दीयतां सम्प्रदानं च परिष्वज्य च वानरान् ।

सर्वशाखामृगेन्द्रस्त्वं संसादय सुहृज्जनान् ॥ ४।११।३४ ॥

सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे ।

क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥ ४।११।३५ ॥

सम्प्रदानं देयद्रव्यम्, वानरान् बन्धून् परिष्वज्य तेभ्यः सम्प्रदानं दीयतां चरमकालदानं दीयतामित्यर्थः । संसादय कञ्चिदपि कालं सङ्गच्छस्व, आत्मसमं राजानमित्यर्थः । क्रीडस्व क्रीड, अद्येति शेषः । दर्पनाशनः पश्चादिति शेषः ॥ ४।११।३४,३५ ॥

यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् ।

हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥ ४।११।३६ ॥

यो हीति । मत्तं मधुपानादिना मत्तं प्रमत्तम् अनवहितं रहितम् आयुधादिशून्यं त्वद्विधं त्वामिव स्त्रीमध्यगतं मदमोहितं मदनमोहितं यो हन्यात्स श्रूणहा गर्भवधकृत् ॥ ४।११।३६ ॥

स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् ।

विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा ॥ ४।११।३७ ॥

स इति । मन्दं प्रहस्य धर्मान्वितवाक्यत्वादिति भावः । ताः विसृज्याब्रवीत् ॥ ४।११।३७ ॥

मत्तो ऽयमिति मा मंस्था यद्यभीतो ऽसि संयुगे ।

मदो ऽयं सम्प्रहारे ऽस्मिन् वीरपानं समर्थ्यताम् ॥ ४।११।३८ ॥

मत्त इति । संयुगे यद्यभीतो ऽसि तदा अयं मत्त इति मा मंस्थाः । अयं मदः अस्मिन् सम्प्रहारे युद्धे वीरपानं समर्थ्यतां वीरपानं कृतमिति मन्यताम् । वीरपानं नाम युद्धोपक्रमे उत्साहवर्धनाय वीरैः क्रियमाणं पानम् ॥ ४।११।३८ ॥

तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चनीम् ।

पित्रा दत्तां महेन्द्रेण यद्धाय व्यवतिष्ठत ॥ ४।११।३९ ॥

उत्क्षिप्य अंसयोरुपरि विन्यस्य एतत्काञ्चनमालाधारणकाले यः पुरो युद्धायागच्छति तस्य बलं सर्वं तवैव भविष्यतीति महेन्द्रेण दत्तामित्यर्थः । व्यवतिष्ठत व्यवातिष्ठत ॥ ४।११।३९ ॥

विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ।

आविध्यत तदा वाली विनदन् कपिकुञ्जरः ॥ ४।११।४० ॥

आविध्यत अभ्रामयत् ॥ ४।११।४० ॥

वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम् ।

श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥ ४।११।४१ ॥

व्यापातयाञ्चक्रे भूमौ पातयामास । अथ पात्यतः पात्यमानस्य श्रोत्राभ्यां रक्तं सुस्राव । श्रोत्रमूलविषाणपीडनादिति भावः ॥ ४।११।४१ ॥

तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः ।

युद्धं समभवद्घोरं दुन्दुभेर्वानरस्य च ॥ ४।११।४२ ॥

अयुध्यत तदा वाली शक्रतुल्यपराक्रमः ।

मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥ ४।११।४३ ॥

क्रोधसंरम्भात् क्रोधवेगात् ॥ ४।११।४२,४३ ॥

परस्परं घ्नोतस्तत्र वानरासुरयोस्तदा ।

आसीददसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥ ४।११।४४ ॥

व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः ।

तं तु दुन्दुभिमुत्पाट्य धरण्यामभ्यपातयत् ॥ ४।११।४५ ॥

परस्परमिति । घ्नतोः सतोः ॥ ४।११।४४,४५ ॥

युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा ।

पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥ ४।११।४६ ॥

प्राणहरे तस्मिन् युद्धे निष्पिष्टो दुन्दुभिः पञ्चत्वं भूतानां पृथग्भावम्, मरणमिति यावत् । आगतः प्राप्तः, पपात ॥ ४।११।४६ ॥

तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।

चिक्षेप बलवान् वाली वेगेनैकेन योजनम् ॥ ४।११।४७ ॥

तोलयित्वा चालयित्वा एकेन वेगेन एकप्रयत्नेन ॥ ४।११।४७ ॥

तस्य वेगप्रविद्धस्य वक्त्रात् क्षतजबिन्दवः ।

प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति ॥ ४।११।४८ ॥

वेगप्रविद्धस्य वेगेन क्षिप्तस्य ॥ ४।११।४८ ॥

तान् दृष्ट्वा पतितांस्तस्य मुनिः शोणितविप्रुषः ।

क्रुद्धस्तत्र महाभागश्चिन्तयामास को न्वयम् ॥ ४।११।४९ ॥

शोणितविप्रुष इति पुँल्लिङ्गत्वमार्षम् । तत्र शोणितबिन्दुविषये क्रुद्धः सन् कोन्वयमिति चिन्तयामास ॥ ४।११।४९ ॥

येनाहं सहसा स्पृष्टः शोणितेन दुरात्मना ।

को ऽयं दुरात्मा दुर्बद्धिरकृतात्मा च बालिशः ॥ ४।११।५० ॥

इत्युक्त्वाथ विनिष्क्रम्य ददर्श मुनिपुङ्गवः ।

महिषं पर्वताकारं गतासुं पतितं भुवि ॥ ४।११।५१ ॥

को न्वयमित्येतद्विवृणोति येनेति । स्पृष्टः अन्तर्भावितण्यर्थः । दुरात्मा दुःस्वभावः अत एव दुर्बुद्धिः । अकृतात्मा अवशीकृतान्तःकरणः । बालिशः मूर्खः ॥ ४।११।५०,५१ ॥

स तु विज्ञाय तपसा वानरेण कृतं हि तत् ।

उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥ ४।११।५२ ॥

स त्विति । तपसा तपोमाहात्म्येन ॥ ४।११।५२ ॥

इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ।

वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ।

सम्भग्नाः पादपाश्चेमे क्षिपतेहासुरीं तनुम् ॥ ४।११।५३ ॥

इहेति । अप्रवेष्टव्यम् न प्रवेष्टव्यमित्यर्थः । सम्भग्ना इति । आसुरीं तनुमिह क्षिपतेत्यन्वयः ॥ ४।११।५३ ॥

समन्ताद्योजनं पूर्णमाश्रमं मामकं यदि ।

आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ॥ ४।११।५४ ॥

स न भविष्यति नश्यतीत्यर्थः ॥ ४।११।५४ ॥

ये चापि सचिवास्तस्य संश्रिता मामकं वनम् ।

न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ॥ ४।११।५५ ॥

ये चेति । तस्य वालिनः ॥ ४।११।५५ ॥

यदि ते ऽपीह तिष्ठन्ति शपिष्ये तानपि ध्रुवम् ।

वने ऽस्मिन् मामके नित्यं पुत्रवत्परीरक्षिते ॥ ४।११।५६ ॥

पत्त्राङ्कुरविनाशाय फलमूलाभवाय च ॥ ४।११।५७ ॥

यदीति । अस्मिन् वने पत्त्राङ्कुरविनाशाय फलमूलाभवाय च यदीह तिष्ठन्तीत्यन्वयः ॥ ४।११।५६,५७ ॥

दिवसश्चास्य मर्यादा यं द्रष्टा श्वो ऽस्मि वानरम् ।

बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥ ४।११।५८ ॥

दिवस इति । अस्य शापस्य । एको ऽयं दिवसो मर्यादा । श्वः परेद्युः यं द्रष्टास्मि सः शैलो भविष्यति ॥ ४।११।५८ ॥

ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् ।

निश्चक्रमुर्वनात्तस्मात्तान् दृष्ट्वा वालिरब्रवीत् ॥ ४।११।५९ ॥

ततस्त्विति । गिरं शापम् ॥ ४।११।५९ ॥

किं भवन्तः समस्ताश्च मतङ्गवनवासिनः ।

मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥ ४।११।६० ॥

किं भवन्त इति । वनौकसां वानरेभ्यः ॥ ४।११।६० ॥

ततस्ते कारणं सर्वं तदा शापं च वालिनः ।

शशंसुर्वानराः सर्वे वालिने हेममालिने ॥ ४।११।६१ ॥

ततस्ते कारणमिति । कारणं दुन्दुभिपतनम् ॥ ४।११।६१ ॥

एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् ।

स महर्षिं तदासाद्य याचते स्म कृताञ्जलिः ॥ ४।११।६२ ॥

एतच्छ्रुत्वेति । स्पष्टम् ॥ ४।११।६२ ॥

महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा ।

शापधारणभीतस्तु वाली विह्वलतां गतः ॥ ४।११।६३ ॥

ततः शापभयाद्भीत ऋश्यमूकं महागिरिम् ।

प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥ ४।११।६४ ॥

तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् ।

विचरामि सहामात्यो विषादेन विवर्जितः ॥ ४।११।६५ ॥

महर्षिरिति । विह्वलातां गत इति, जगामेति शेषः ॥ ४।११।६३६५ ॥

एषोस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते ।

वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥ ४।११।६६ ॥

एष इति । अस्थिनिचयः शुष्ककाय इति यावत् ॥ ४।११।६६ ॥

इमे च विपुलाः सालाः सप्त शाखावलम्बिनः ।

यत्रैकं घटते वाली निष्प्रत्त्रयितुमोजसा ॥ ४।११।६७ ॥

एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् ।

कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥ ४।११।६८ ॥

इमे चेति । विपुलाः स्थूलाः शाखावलम्बिनः लम्बितशाखाः, शाखावृतत्वेन दुर्ज्ञेयलक्ष्या इत्यर्थः । यत्र सालेषु एकं सालम् ओजसा नतु धनुषा निष्पत्त्रयितुं निर्गतशरपत्त्रं कर्तुं घटते शक्नोति । एकं सालं भित्त्वा शरो निष्पत्त्रं यथा तथा वृक्षान्तरासक्तमूलं गच्छति तथा वेद्धुं समर्थ इत्यर्थः । धनुर्विना केवलबाणेन एकं सालं विध्यतीत्यर्थः । यद्वा वेद्धुं शक्तः नतु कदाचित्तथा कृतवानिति घटत इति पदेन व्यज्यते । एवमुत्तरत्रापि योज्यम् । यद्वा स्वजातिविरुद्धत्वेन युद्धे धनुर्गहणाभावे ऽपि लीलार्थं धनुरस्तीति ध्येयम् ॥ ४।११।६७,६८ ॥

तथा ब्रुवाणं सुग्रीवं प्रहसँल्लक्ष्मणो ऽब्रवीत् ।

कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥ ४।११।६९ ॥

तथेति । कस्मिन्निति । मुहूर्तेन चतुःसमुद्रगमने उत्क्षिप्तपर्वतशिखरग्रहणे दुन्दुभिकायोत्क्षेपणे सालभेदने वेत्यर्थः ॥ ४।११।६९ ॥

तमुवाचाथ सुग्रीवः सप्त सालानिमान् पुरा ।

एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ ४।११।७० ॥

तमिति । पुरा वाली इमान् सप्त सालान् विव्याध । अथ च अनन्तरमपि एवमेकैकशः असकृद्विव्याधेति योजना । यद्वा स वाली एवंविधानिमान् सप्त सालान् एकैकशः पुरा विव्याध अनन्तरमप्यसकृद्विव्याध ॥ ४।११।७० ॥

रामो ऽपि दारयेदेषां बाणेनैकेन चेद्द्रुमम् ।

वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥ ४।११।७१ ॥

राम इति । एषां मध्ये एकं द्रुमम् एकेन बाणेन यदि विदारयेत् तदा तादृशं

विक्रमं दृष्ट्वा वालिनं निहतं मन्ये ॥ ४।११।७१ ॥

हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण ।

उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुःशते ॥ ४।११।७२ ॥

उद्यम्य प्रकोष्ठेनोत्क्षिप्य द्वे धनुःशते धनुःशतद्वयदूरम् । धनुर्नाम चतुर्हस्तमानम् । “किष्कुः स्यादवटो हस्तश्चतुर्विंशतिरङ्गुलः । चतुर्हस्तो धनुर्दण्डो धनुर्धन्वन्तरं युगम् ॥ " इति वैजयन्ती। एवं सुग्रीवस्तमुवाचेति पूर्वेणान्वयः ॥ ४।११।७२ ॥

एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् ।

ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोब्रवीत् ॥ ४।११।७३ ॥

शूरश्च शूरघाती च प्रख्यातबलपौरुषः ।

बलवान् वानरो वाली संयुगेष्वपराजितः ॥ ४।११।७४ ॥

दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ।

यानि सञ्चिन्त्य भीतो ऽहमृश्यमूकं समाश्रितः ॥ ४।११।७५ ॥

तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् ।

विचिन्तयन्न मुञ्चामि ऋश्यमूकमहं त्विमम् ॥ ४।११।७६ ॥

एवमविश्वासकरणे सुहृद्दुर्मनायेतेत्यालोच्य यथा रामः सन्तुष्यति तथा वदति एवमुक्त्वेत्यादिना ॥ ४।११।७३७६ ॥

उद्विग्नः शङ्कितश्चापि विचरामि महावने ।

अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः ॥ ४।११।७७ ॥

उपलब्धं च मे श्लाध्यं सन्मित्रं मित्रवत्सल ।

त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥ ४।११।७८ ॥

किन्तु तस्य बलज्ञो ऽहं दुर्भ्रातुर्बलशालिनः ।

अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥ ४।११।७९ ॥

उद्विग्न इति । उद्विग्नः भीतः ॥ ४।११।७७७९ ॥

न खल्वहं त्वां तुलये नावमन्ये न भीषये ।

कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ॥ ४।११।८० ॥

नेति । स्पष्टम् ॥ ४।११।८० ॥

कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ।

सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥ ४।११।८१ ॥

[ स्निग्धानां प्रीतियुक्तानां सुहृदां सुहृदं प्रति ।

कातरं हृदयं राम प्रत्ययं नाधिगच्छति ॥

यदि बाणेन भेत्ता त्वं सालान् सप्ताद्य राघव ।

वालिनं समरे हन्तुं समर्थः स्यात्ततो भवान् ॥ ]

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।

स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥ ४।११।८२ ॥

काममिति । वाणी एकरूपं वचनं प्रमाणं बुद्धिः धैर्यम् अचञ्चलता आकृतिर्वेषश्च भस्मच्छन्नमनलमिव स्थितं ते परं तेजः कामम् अतिशयेन सूचयन्ति । अथापि मे कातर्यं जनितमिति पूर्वेणान्वयः ॥ ४।११।८१,८२ ॥

यदि न प्रत्ययो ऽस्मासु विक्रमे तव वानर ।

प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥ ४।११।८३ ॥

यदीति । विक्रमे विषये प्रत्ययं विश्वासम् । समरे विषये ॥ ४।११।८३ ॥

एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः ।

राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ।

तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ॥ ४।११।८४ ॥

एवमिति । सान्त्वमित्यनेन प्रत्ययप्रश्नेन सुग्रीवस्य दुःखितत्वं द्योत्यते । पादाङ्गुष्ठेन अनुद्धृतेन तोलयित्वा चालयित्वा ॥ ४।११।८४ ॥

असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् ।

क्षिप्तं दृष्ट्वा ततः कायं सुगीवः पुनरब्रवीत् ॥ ४।११।८५ ॥

असुरस्येति । तनुं पूर्वापेक्षया स्वल्पम् । कायं शरीरम् ॥ ४।११।८५ ॥

लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ ४।११।८६ ॥

कथं कमित्यत्राह लक्ष्मणस्येति ॥ ४।११।८६ ॥

आर्द्रः समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ।

लघुः संम्प्रति निर्मांसस्तृणभूतश्च राघव ॥ ४।११।८७ ॥

आर्द्र इति । आर्द्रः सरक्तः । प्रत्यग्रः यत्किञ्चित् प्राणचेष्टायुक्तः । लघुत्वं सदृष्टान्तमाह तृणभूत इति ॥ ४।११।८७ ॥

परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ।

क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन ।

नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम् ॥ ४।११।८८ ॥

एवं प्रक्षेपेप्यवैषम्यमुक्त्वा प्रक्षेप्तृतारतम्यमाह परिश्रान्तेनेति । एवं प्रहर्षेण एवंविधप्रहर्षवता । नात्रेति । अत्र दुन्दुभिकायक्षेपकर्मणि तव वा तस्य वा अधिकं बलमिति ज्ञातुं न शक्यम् ॥ ४।११।८८ ॥

आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् ।

स एव संशयस्तात तव तस्य च यद्बले ॥ ४।११।८९ ॥

पुनः सङ्ग्रहेणाह आर्द्रमिति । आर्द्रं शुष्कमित्येतत्सुमहत् अन्तरं तारतम्यं यद्यस्मादस्ति अतस्तव च तस्य च बले युवयोर्बलतारतम्ये स एव संशयो वर्तते, संशयो न निवृत्त इत्यर्थः ॥ ४।११।८९ ॥

सालमेकं तु निर्भिन्द्या भवेद्व्यक्तिर्बलाबले ॥ ४।११।९० ॥

कृत्वेदं कार्मुकं सज्यं हस्तिहस्तमिवाततम् ।

आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥ ४।११।९१ ॥

सालमिति । निर्भिन्द्याः भञ्जय । व्यक्तिः विशेषज्ञानम् ॥ ४।११।९०,९१ ॥

इमं हि सालं सहितस्त्वया शरो न संशयो ऽत्रास्ति विदारयिष्यति ।

अलं विमर्शेन मम प्रियं ध्रुवं कुरुष्व राजात्मज शापितो मया ॥ ४।११।९२ ॥

पुनर्निर्बन्धेन कुपितो भवेदिति सान्त्वयति इममिति । संहितः संहितः “समो वा हितततयोः” इति मलोपः । शरो विदारयिष्यति । विमर्शेन पुनः किमर्थं प्रत्ययोत्पादनमिति विमर्शेन । मम प्रियं नतु त्वत्परीक्षार्थम् ॥ ४।११।९२ ॥

यथा हि तेजस्सु वरः सदा रविर्यथा हि शैलो हिमवान् महाद्रिषु ।

यथा चतुष्पात्सु च केसरी वरस्तथा नराणामसि विक्रमे वरः ॥ ४।११।९३ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकादशः सर्गः । ११ ॥

यथेति । तेजस्सु तेजस्विषु । विक्रमे स्थितानामिति शेषः । अस्मिन् सर्गे त्र्युत्तर नवतिश्लोकाः ॥ ४।११।९३ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥