०१० वालिना सुग्रीवनिर्भर्त्सनम्

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् ।

अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ॥ ४।१०।१ ॥

अथ वालिदोषदर्शनेन रामस्य दृढतरा वालिवधप्रतिज्ञा दशमे तत इत्यादि ॥ ४।१०।१ ॥

दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः ।

अनाथस्य हि मे नाथस्त्वमेको नाथनन्दनः ॥ ४।१०।२ ॥

अनाथान् नन्दयतीत्यनाथनन्दनः ॥ ४।१०।२ ॥

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।

छत्त्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम् ॥ ४।१०।३ ॥

उद्यतम् अर्पितं प्रतीच्छस्व प्रतीच्छ ॥ ४।१०।३ ॥

आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप ।

दृष्ट्वाहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥ ४।१०।४ ॥

संवत्सरं बिलद्वारि स्थितः अहं च बिलद्वारि समुत्थितं शोणितं दृष्ट्वा आर्तश्चामि ॥ ४।१०।४ ॥

शोकसंविग्नहृदये भृशं व्याकुलितेन्दियः ।

अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा ।

तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ॥ ४।१०।५ ॥

शोकसंविग्नहृदयः शोककम्पितहृदयः तद्बिलद्वारम् । तथा त्वया दृष्टप्रकारेण अपिधाय प्रच्छाद्य प्राविशम् ॥ ४।१०।५ ॥

विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च ।

अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि ॥ ४।१०।६ ॥

इह विषादादागतं मां दृष्ट्वा । विषादात् राज्यनाशविषादात् ॥ ४।१०।६ ॥

त्वमेव राजा मानार्हः सदा चाहं यथापुरम् ।

राजभावनियोगो ऽयं मया त्वद्विरहात्कृतः ॥ ४।१०।७ ॥

सामात्यपौरनगरं स्थितं निहतकण्टकम् ।

न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ॥ ४।१०।८ ॥

मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण ।

याचे त्वां शिरसा राजन् मया बद्धो ऽयमञ्जलिः ॥ ४।१०।९ ॥

अहं यथापुरं पूर्ववद्युवराजो भवामीत्यर्थः । राजभावनियोगः राजत्वेन राज्यशासनम् ॥ ४।१०।७९ ॥

बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः ।

राजभावे नियुक्तो ऽहं शून्यदेशजिगीषया ॥ ४।१०।१० ॥

बलादिति । शून्यदेशजिगीषया राजशून्यदेशवशीकरणेच्छया ॥ ४।१०।१० ॥

स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ।

धिक् त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह ॥ ४।१०।११ ॥

स्निग्धमिति । तत्तत्परुषभाषणम् अश्लीलतया विशिष्य नोक्तम् ॥ ४।१०।११ ॥

प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान् ।

मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ॥ ४।१०।१२ ॥

विदितं वो यथा रात्रौ मायावी स महासुरः ।

मां समाह्वयत क्रूरो युद्धकाङ्क्षी सुदुर्मतिः ॥ ४।१०।१३ ॥

तस्य तद्वचनं श्रुत्वा निस्सृतो ऽहं नृपालयात् ।

अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ॥ ४।१०।१४ ॥

स तु दृष्टैव मां रात्रौ सद्वितीयं महाबलः ।

प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां तमनुद्रुतौ ॥ ४।१०।१५ ॥

अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ॥ ४।१०।१६ ॥

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम् ।

अयमुक्तो ऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ ४।१०।१७ ॥

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ।

बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ ४।१०।१८ ॥

स्थितो ऽयमिति मत्वा तु प्रविष्टो ऽहं दुरासदम् ।

तं च मे मार्गमाणस्य गतः संवत्सरस्तदा ॥ ४।१०।१९ ॥

प्रकृतीरिति । मामुद्दिश्य प्रकृत्यादीनाहेत्यर्थः ॥ ४।१०।१२१९ ॥

स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ।

निहतश्च मया तत्र सो ऽसुरो बन्धुभिः सह ॥ ४।१०।२० ॥

अनिर्वेदात् अक्लेशात् ॥ ४।१०।२० ॥

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्विलम् ।

पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ॥ ४।१०।२१ ॥

भूतले भूविवरे स्तनतः गर्जतः तत्पूर्वोक्तं तस्य बिलं स्तनतः तस्य आस्यात् प्रवृत्तेन रुधिरौघेण पूर्णं सत् दुराक्रममासीदिति योजना ॥ ४।१०।२१ ॥

सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम् ।

निष्क्रामन्नैव पश्यामि बिलस्य पिहितं मुखम् ॥ ४।१०।२२ ॥

दुन्दुभेः सुतं भ्रातरमित्यर्थः । यद्वा नायं मायावी मयपुत्रः, किन्तु दुन्दुभिपुत्रोन्य इति बोध्यम् । “पूर्वजो दुन्दुभेः सुतः” इति हि पूर्वमप्युक्तम् । पिहितमिति हेतुगर्भम् । पिहितत्वान्मुखं न पश्यामि ॥ ४।१०।२२ ॥

विक्रोशमानस्य तु मे सुग्रीवेति पुनःपुनः ।

यदा प्रतिवचो नास्ति ततो ऽहं भृशदुःखितः ॥ ४।१०।२३ ॥

विक्रोशमानस्य आह्वयत । “क्रुश आह्वने रोदने च” इति धातुः ॥ ४।१०।२३ ॥

पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् ।

ततो ऽहं तेन निष्क्रम्य पथा पुरमुपागतः ॥ ४।१०।२४ ॥

पादेति । तद्विलं विदारितं क्वचित्सरन्ध्रीकृतम् । तेन पथा रन्ध्रमार्गेण ॥ ४।१०।२४ ॥

अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयता ऽ ऽत्मनः ।

सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ ४।१०।२५ ॥

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ।

निर्वासयामास तदा वाली विगतसाध्वसः ॥ ४।१०।२६ ॥

अत्र बिले ॥ ४।१०।२५,२६ ॥

तेनाहमपविद्धश्च हृतदारश्च राघव ।

तद्भायाच्च मही क्रान्तेयं सवनार्णवा ॥ ४।१०।२७ ॥

अपविद्धः ताडितः ॥ ४।१०।२७ ॥

ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः ।

प्रविष्टो ऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ ४।१०।२८ ॥

कारणान्तरे मतङ्गशापनिमित्ते सति वालिनो दुराधर्षं दुराक्रमम् ॥ ४।१०।२८ ॥

एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ।

अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ ४।१०।२९ ॥

वैरानुकथनं वैरकारणाख्यानम् ॥ ४।१०।२९ ॥

वालिनस्तु भयार्तस्य सर्वलोकाभयङ्कर ।

कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ ४।१०।३० ॥

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम् ।

वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ ४।१०।३१ ॥

अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः ।

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ ४।१०।३२ ॥

यावत्तं नाभिपश्यामि तव भार्यापहारिणम् ।

तावत्स जीवेत् पापात्मा वाली चारित्रदूषकः ॥ ४।१०।३३ ॥

वालिन इति पञ्चमी ॥ ४।१०।३०३३ ॥

आत्मानुमानात् पश्यामि मग्नं त्वां शोकसागरे ।

त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥ ४।१०।३४ ॥

तस्य तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।

सुग्रिवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ४।१०।३५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे दशमः सर्गः ॥ १० ॥

आत्मानुमानात् “आत्मवत्सर्वभूतानि” इति न्यायादित्यर्थः । तारयिष्यामि शोकसागरादिति शेषः ॥ ४।१०।३४,३५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने दशमः सर्गः ॥ १० ॥