००८ रामेण वालिवधनिश्चयः

परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः ।

लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ॥ ४।८।१ ॥ त्ित्र त्त्र

अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे परितुष्ट इत्यादि ॥ ४।८।१ ॥

सर्वथा ऽहमनुग्राह्यो देवतानामसंशयः ।

उपपन्नगुणोपेतः सखा यस्य भवान्मम ॥ ४।८।२ ॥

देवतानामनुग्राह्यः दयनीयो ऽभवम् । यस्य मे भवान् सखा ऽ ऽसीत् । कीदृशः सखा? उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोपपन्नः ॥ ४।८।२ ॥

शक्यं खलु भवेद्राम सहायेन त्वया ऽनघ ।

सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो ॥ ४।८।३ ॥

शक्यमित्यादि । चतुश्चत्वारिंशत् ॥ ४।८।३ ॥

सो ऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव ।

यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥ ४।८।४ ॥

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ।

न तु वक्तुं समर्थो ऽहं स्वयमात्मगतान् गुणान् ॥ ४।८।५ ॥

सभाज्यः पूज्यः ॥ ४।८।४,५ ॥

महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम् ।

निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव ॥ ४।८।६ ॥

भूयिष्टम् अतिशयेन । आत्मवताम् आत्मज्ञानिनाम् ॥ ४।८।६ ॥

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि च ।

अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ४।८।७ ॥

अढ्यो वापि दरिद्रो वा दुःखितः सुखितो ऽपि वा ।

निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ४।८।८ ॥

साधूनां मित्राणां साधवो मित्राणि ॥ ४।८।७,८ ॥

धनत्यागः सुखत्यागो देहत्यागो ऽपि वा पुनः ।

वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ४।८।९ ॥

तथाविधं स्वस्नेहसदृशं स्नेहं दृष्ट्वा स्थितस्य वयस्यस्य वयस्यार्थे धनत्यागादयः प्रवर्तन्त इति योजना । अनया सुग्रीववचनभङ्ग्या आवाभ्यामेवं वर्तितव्यमिति व्यवस्था द्योत्यते ॥ ४।८।९ ॥

तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम् ।

लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः ॥ ४।८।१० ॥

लक्ष्म्या कान्या वासवस्येव स्थितस्य लक्ष्मणस्याग्रत इति सम्बन्धः । अनेनोक्तार्थे लक्ष्मणानुमतिर्द्योतिता ॥ ४।८।१० ॥

ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम् ।

सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत् ॥ ४।८।११ ॥

स्थितं भूषणग्रहणकालात्प्रभूति तिष्ठन्तमित्यर्थः । लोलं चक्षुरपातयदिति समीचीनशाखालाभार्थं सर्वत्रान्वेषयामासेत्यर्थः ॥ ४।८।११ ॥

स ददर्श ततः सालमविदूरे हरीश्वरः ।

सुपुष्पमीषत्पत्त्राढ्यं भ्रमरैरुपशोभितम् ॥ ४।८।१२ ॥

ईषत्पत्त्राढ्यमिति पल्लवप्रचुरमित्यर्थः ॥ ४।८।१२ ॥

तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ।

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ ४।८।१३ ॥

पर्णबहुलां पल्लवबहुलाम् ॥ ४।८।१३ ॥

तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम् ।

सालशाखां समुत्पाट्य वीनीतपवेशयत् ॥ ४।८।१४ ॥

ताविति । विनीतम् एकासने स्थितिमनङ्गीकुर्वन्तमित्यर्थः । उपवेशयत् उपावेशयत् ॥ ४।८।१४ ॥

सुखोपविष्टं रामं तु प्रसन्नमुदधिं यथा ।

फलपुष्पसमाकीर्णे तस्मिन् गिरिवरोत्तमे ॥ ४।८।१५ ॥

ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ।

उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम् ॥ ४।८।१६ ॥

अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः ।

ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः ॥ ४।८।१७ ॥

सो ऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः ।

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ ४।८।१८ ॥

सुखोपविष्टमित्यादिश्लोकद्वयमेकान्वयम् । द्वितीयरामपदमभिरामार्थकम् । प्रसन्नमुदधिं यथा तद्वत् गम्भीरमित्यर्थः ॥ ४।८।१५१८ ॥

वालिनो मे भयार्तस्य सर्वलोकभयङ्कर ।

ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि ॥ ४।८।१९ ॥

हे सर्वलोकाभयङ्कर वालिनः सकाशात् भयार्तस्य मे ममापि अत्यन्तभाग्यहीनस्यापि प्रसादं कर्तुमर्हसि ॥ ४।८।१९ ॥

एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।

प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ ४।८।२० ॥

एवमिति । प्रहसन्निव पूर्वमेव प्रतिज्ञाते ऽपि चापलातिशयात् पुनः प्रार्थयत इति मन्दस्मितवानित्यर्थः ॥ ४।८।२० ॥

उपकारफलं मित्रमपकारो ऽरिलक्षणम् ।

अद्यैव तं हनिष्यामि तव भार्यापहारिणम् ॥ ४।८।२१ ॥

उपकारेति । अरिलक्षणमित्यनन्तरम् अत इत्युपस्कार्यम् ॥ ४।८।२१ ॥

इमे हि मे महावेगाः पत्ित्रणस्तिग्मतेजसः ।

कार्त्तिकेयवनोद्भूताः शरा हेमविभूषिताः ॥ ४।८।२२ ॥

कङ्कपत्त्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ।

सुपर्वाणः सुतीक्ष्णाग्राः सरोषा भूजगा इव ॥ ४।८।२३ ॥

भ्रातृसञ्ज्ञममित्रं ते वालिनं कृतकिल्बिषम् ।

शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम् ॥ ४।८।२४ ॥

पत्ित्रणः प्रशस्तपत्ित्रणः तिग्मतेजसः क्रूरतेजसः कार्त्तिकेयवनोद्भूताः शरवणोद्भूताः कङ्कपत्त्रप्रतिच्छन्नाः इति पत्ित्रण इत्युक्तं विशेष्यते । महेन्द्रपदेनाशनेस्तत्सन्निहितत्वातिशय उच्यते । इमे मे शराः महावेगत्वादिविशिष्टा हि अतः एतैः शरैर्वालिनं विनिहतं पश्येति सम्बन्धः ॥ ४।८।२२२४ ॥

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।

प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ४।८।२५ ॥

वाहिनीपतिः वानरसेनाधिपतिः ॥ ४।८।२५ ॥

राम शोकाभिभूतो ऽहं शोकार्तानां भवान् गतिः ।

वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥ ४।८।२६ ॥

त्वं हि पाणिप्रदानेन वयस्यो मे ऽग्निसाक्षिकम् ।

कृतः प्राणैर्बहुमतः सत्येनापि शपामि ते ॥ ४।८।२७ ॥

वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम् ।

दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः ॥ ४।८।२८ ॥

रामेति । वयस्य इति । वयस्य इति चेत्यर्थः । त्वयि त्वत्समीपे ॥ ४।८।२६२८ ॥

एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ।

बाष्पोपहतया वाचा नौच्चैः शक्नोति भाषितुम् ॥ ४।८।२९ ॥

एतावदुक्त्वा “पुरा ऽहं वालिना” इत्यादिना वक्तुकामस्तदुपोद्घातत्वेन “दुःखमन्तर्गतं यन्मे मनो हरति नित्यशः ।” इत्येतावदुक्त्वा । शक्नोति अशक्नोत् ॥ ४।८।२९ ॥

बाष्पवेगं तु सहसा नदीवेगमिवागतम् ।

धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥ ४।८।३० ॥

सन्निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ।

विनिःश्वस्य च तेजस्वी राघवं वाक्यमब्रवीत् ॥ ४।८।३१ ॥

बाष्पवेगमिति । रामसन्निधाविति मां प्रत्युपदिश्य स्वयं न शक्नोतीति रामो मन्येतेति रामो मन्येतेति भिया धारयामासेति भावः ॥ ४।८।३०,३१ ॥

पुराहं वालिना राम राज्यात् स्वादवरोपितः ।

परुषाणि च संश्राव्य निर्धूतो ऽस्मि बलीयसा ॥ ४।८।३२ ॥

स्वाद्राज्यात् यौवराज्यात् निर्धूतः निरस्तः ॥ ४।८।३२ ॥

हृता भार्या च मे तेन प्राणेभ्यो ऽपि गरीयसी ।

सुहृदश्च मदीया ये संयता बन्धनेषु ते ॥ ४।८।३३ ॥

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव ।

बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ४।८।३४ ॥

बन्धनेषु कारागृहेषु ॥ ४।८।३३,३४ ॥

शङ्कया त्वेतया चेह दृष्ट्वा त्वामपि राघव ।

नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ ४।८।३५ ॥

एतया शङ्कया वालिप्रयुक्तत्वशङ्कया भीतः नोपसर्पामि नोपासर्पम् । भये भयनिमित्ते ॥ ४।८।३५ ॥

केवलं हि सहाया मे हनुमत्प्रमुकास्त्विमे ।

अतो ऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतो ऽपि सन् ॥ ४।८।३६ ॥

केवलम् अद्वितीयं यथा तथा ॥ ४।८।३६ ॥

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः ।

सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ ४।८।३७ ॥

केवलत्वमुपपादयति एते हीति । गन्तव्ये मयि गच्छतीत्यर्यः ॥ ४।८।३७ ॥

सङ्क्षेपस्त्वेष ते राम किमुक्त्वा विस्तरं हि ते ।

स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥ ४।८।३८ ॥

तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम् ।

सुखं मे जीविनं चैव तद्विनाशनिबन्धनम् ॥ ४।८।३९ ॥

एष मे राम शोकान्तः शोकार्तेन निवेदितः ।

दुःखितः सुखितो वापि सख्युर्नित्यं सखा गतिः ॥ ४।८।४० ॥

श्रुत्वैतद्वचनं रामः सुग्रीवमिदमब्रवीत् ।

किन्निमित्तभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४।८।४१ ॥

सङ्क्षेप इत्यादिद्वयम् । तद्विनाशादनन्तरं मे दुःखं प्रनष्टं स्यात् मे सुखं मे जीवितं चैव तद्विनाशनिबन्धनमित्येष सङ्क्षेप इत्यन्वयः ॥ ४।८।३८४१ ॥

सुखं हि कारणं श्रत्वा वैरस्य तव वानर ।

आनन्तर्यं विधास्यामि सम्प्रधार्य बलाबलम् ॥ ४।८।४२ ॥

तव वैरस्य कारणं श्रुत्वा बलाबलं सम्प्रधार्य वैरकारणं वा वैरं वा बलवदिति विचार्य । आनन्तर्यम् अनन्तरम् । स्वार्थे ष्यञ् । त्व सुखं विधास्यामि स्वल्पापराधे प्रबलवैरं तेन कृतं चेत्तमद्यैव हत्वा तव सुखं विधास्यामि । अनल्पापराधे स्वल्पवैरं चेत्समाधानमुखेन सुखं विधास्यामीति भावः ॥ ४।८।४२ ॥

बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम् ।

वर्तते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥ ४।८।४३ ॥

अपराधस्वल्पत्वपक्ष आह बलवानिति । प्रावृषि वेगः प्रावृङ्वेगः ॥ ४।८।४३ ॥

हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः ।

सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव ॥ ४।८।४४ ॥

एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना ।

प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः ॥ ४।८।४५ ॥

वालिवैरस्वल्पत्व आह हृष्ट इति । हृष्ट इत्यनेन वालिहननानन्तरं शोकं मा कुर्वित्यर्थः । क्रमेण तत्काले वक्ष्यत इत्यात्राह सृष्ट इति । यदा बाणो विसृष्टस्तदैव रिपुर्नष्ट इत्यवेहीत्यर्थः ॥ ४।८।४४,४५ ॥

ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे ।

वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥ ४।८।४६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टमः सर्गः ॥ ८ ॥

लक्ष्मणाग्रज इति निमित्तसप्तमी ॥ ४।८।४६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥