पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ॥ ४।६।१ ॥
एवं रामेण वालिवधे प्रतिज्ञाते सुग्रीवेणापि रामकार्यसिद्धिः प्रतिज्ञायते षष्ठे पुनरेवेत्यादि । राघवमिति नाम । सुग्रीव इति शेषः ॥ ४।६।१ ॥
अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ।
हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ॥ ४।६।२ ॥
अयमिति । त्वं यन्निमित्तं वनमागतः तदाख्याति स्म ॥ ४।६।२ ॥
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ।
रक्षसा ऽपहृता भार्या मैथिली जनकात्मजा ॥ ४।६।३ ॥
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ।
अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ॥ ४।६।४ ॥
लक्ष्मणेनेत्यादिश्लोकद्वयम् । तेन पूर्वमविज्ञातेन ॥ ४।६।३,४ ॥
भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे ।
अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥ ४।६।५ ॥
विमोक्ष्यसे त्यक्ष्यसि । नष्टां मधुकैटभापहृतां वेदश्रुतीं श्रूयत इति श्रुतिः शब्दः, वेदरूपश्रुतीमिव वेदगिरमिव । दीर्घः आर्षः ॥ ४।६।५ ॥
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले ।
अहमानीय दास्यामि तव भार्यामरिन्दम ॥ ४।६।६ ॥
वर्तन्तीं वर्तमानाम् ॥ ४।६।६ ॥
इदं तथ्यं मम वचस्त्वमवेहि च राघव ।
न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ॥ ४।६।७ ॥
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ ४।६।८ ॥
जरयितुम् आत्मसात्कर्तुम् । विषकृतं विषेण पक्वम् ॥ ४।६।७,८ ॥
त्यज शोकं महाबाहो तां कान्तमानयामि ते ।
अनुमानात्तु जानामि मैथिली सा न संशयः ॥ ४।६।९ ॥
ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ ४।६।१० ॥
अनुमानात् योग्यतया या दृष्टा सा मैथीली न संशयः । अनुमानात्तु जानामीत्यस्यैव विवरणमिदम् ॥ ४।६।९१० ॥
आत्मना प़ञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ।
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ ४।६।११ ॥
आत्मनेति । आत्मना मया पञ्चमम् ॥ ४।६।११ ॥
तान्यस्माभिर्गृहीतानि निहितानि च राघव ।
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ ४।६।१२ ॥
तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ।
आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥ ४।६।१३ ॥
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ।
प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ ४।६।१४ ॥
प्रत्यभिज्ञातुं स्मर्तुम् ॥ ४।६।१२१४ ॥
उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ।
इदं पश्येति रामाय दर्शयामास वानरः ॥ ४।६।१५ ॥
ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ।
अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ ४।६।१६ ॥
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।
हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥ ४।६।१७ ॥
उत्तरीयमाभरणानि च उत्तरीयबद्धानीत्यर्थः ॥ ४।६।१५१७ ॥
हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम् ।
निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥ ४।६।१८ ॥
अलङ्कारमिति जात्येकवचनम् । रोषितः सञ्जतरोषः ॥ ४।६।१८ ॥
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ।
परिदेवयितुं दीनं रामः समुपचक्रमे ॥ ४।६।१९ ॥
परिदेवयितुं प्रलपितुम् । दीनमिति क्रियाविशेषणम् ॥ ४।६।१९ ॥
पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया ।
उत्तरीयमिदं भूमै शरीराद्भूषणानि च ॥ ४।६।२० ॥
पश्येति । शरीरात् अपनीयेति शेषः ॥ ४।६।२० ॥
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ।
उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ॥ ४।६।२१ ॥
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ ४।६।२२ ॥
ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ॥ ४।६।२३ ॥
अत्र शाद्वलशब्देन हरिततृणान्युच्यन्ते । स्वार्थे वलजार्षः । तद्वात्यां भूमौ मृदुस्थले उत्सृष्टत्वात् तथारूपम् अविकलरूपं दृश्यते ॥ ४।६।२१२३ ॥
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।
रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥ ४।६।२४ ॥
कं देशं कां दिशं प्रति ह्रियन्ती ह्रियमाणेत्यर्थः । प्राणैः प्राणेभ्यः ॥ ४।६।२४ ॥
क्व वा वसति तद्रक्षो महद्व्यसनदं मम ।
यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ॥ ४।६।२५ ॥
हरता मैथिलीं येन मां च रोषयता भृशम् ।
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ ४।६।२६ ॥
अपावृतम् उद्घाटितं येन तत्क्क वसतीत्यन्वयः ॥ ४।६।२५,२६ ॥
मम दयिततरा हृता वनान्ताद्रजनिचरेण विमथ्य येन सा ।
कथम मम रिपुं त्वमद्य वै प्लवगपते यमसादनं नयामि ॥ ४।६।२७ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः ॥ ६ ॥
ममेति । विषमवृत्तम् ॥ ४।६।२७ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥