ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम् ।
आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ ४।५।१ ॥
अथ पापभीतस्य कर्मानुरूपं फलं दिशतो भगवतो ऽपि त्रस्तस्य आचार्यमुखात् भगवद्गुणान् श्रुत्वा तदेकोपायनिष्ठा सूच्यते पञ्चमे ऋश्यमूकात्वित्यादि । रामलक्ष्मणदर्शनभीतः सुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्यमृश्यमूकपर्यन्तपर्वतं गतः हनुमान् रामलक्ष्मणौ तत्र प्रतिष्ठाप्य सुग्रीवं तत्रानीतवानिति बोध्यम् ॥ ४।५।१ ॥
अयं रामो महाप्राज्ञः सम्प्राप्तो दृढविक्रमः ।
लक्ष्मणेन सह भ्रात्रा रामो ऽयं सत्यविक्रमः ॥ ४।५।२ ॥
अयं रामः सम्प्राप्तः । अयं रामः सत्यविक्रमः । त्वच्छत्रुनिबर्हणक्षम इत्यर्थः ॥ ४।५।२ ॥
इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।
धर्मे निगदितश्चैव पितुर्निर्देशपारगः ॥ ४।५।३ ॥
निगदितः प्रसिद्धः ॥ ४।५।३ ॥
तस्यास्य वसतो ऽरण्ये नियतस्य महात्मनः ।
रावणेन हृता भार्या स त्वां शरणमागतः ॥ ४।५।४ ॥
राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ।
दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥ ४।५।५ ॥
तपसा सत्यवाक्येन वसुधा येन पालिता ।
स्त्रीहेतोस्तस्य पुत्रो ऽयं रामस्त्वां शरणं गतः ॥ ४।५।६ ॥
भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।
प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ॥ ४।५।७ ॥
श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।
भयं च राघवाद्घोरं प्रजहौ विगतज्वरः ॥ ४।५।८ ॥
तस्येत्यादि ॥ ४।५।४८ ॥
स कृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः ।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ४।५।९ ॥
भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः ।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ ४।५।१० ॥
तन्मयैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ ४।५।११ ॥
स कृत्वेति । राघवं प्राप्येति शेषः ॥ ४।५।९११ ॥
रोचते यदि वा सख्यं बाहुरेष प्रसारितः ।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ॥ ४।५।१२ ॥
रोचत इति । मर्यादा व्यवस्था ॥ ४।५।१२ ॥
एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
स प्रहृष्टमना हस्तं पीडयामास पाणिना ॥ ४।५।१३ ॥
एतत्विति । राम इति शेषः ॥ ४।५।१३ ॥
हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम् ॥ ४।५।१४ ॥
हृद्यमित्यर्धम् । पिडितं दृढम् ॥ ४।५।१४ ॥
ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः ।
काष्ठयोः स्वेन रूपेण जनयामास पावकम् ॥ ४।५।१५ ॥
मर्यादा बध्यतामिति वदतः सुग्रीवस्याशयं विदित्वाचरति तत इति । भिक्षुरूपं सन्त्यज्येत्यनेन सुग्रीवविश्वासार्थम् “तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम” इति तदुक्तप्रकारेण पुनर्भिक्षुरूपेणैव तदन्तिकं गत इत्यवगम्यते । स्वेन रूपेण वानररूपेण काष्ठयोः अरणिभूतशमीकाष्ठयोः । सप्तम्यन्तं पदम् ॥ ४।५।१५ ॥
दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ।
तयोर्मध्ये ऽथ सुप्रीतो निदधे सुसमाहितः ॥ ४।५।१६ ॥
दीप्यमानमिति । सत्कृतमित्यभ्यर्च्येत्यस्यानुवादः । तयोः रामसुग्रीवयोः ॥ ४।५।१६ ॥
ततो ऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ।
सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥ ४।५।१७ ॥
तत इति । प्रदक्षिणं चक्रतुः । अन्योन्यं पाणिं गृहीत्वेति शेषः । उपागतौ अग्निसाक्षिकमिति शेषः ॥ ४।५।१७ ॥
ततः सुप्रीतमनसौ तावुभौ हरिराघवौ ।
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ॥ ४।५।१८ ॥
तत इति । अभिवीक्षन्तौ अभिवीक्षमाणौ ॥ ४।५।१८ ॥
त्वं वयस्यो ऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ ।
सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ॥ ४।५।१९ ॥
त्वमिति । एकं समानम्, त्वद्दुःखेन मम दुखं भवतु त्वत्सुखेन मम सुखं भवत्वित्यर्थः । अनेन परसाम्यापत्त्यभ्यर्थनं सूचितम् ॥ ४।५।१९ ॥
ततः स पर्णबहुलां छित्त्वा शाखां सुपुष्पिताम् ।
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ॥ ४।५।२० ॥
लक्ष्मणायाथ संहृष्टो हनुमान् प्लवगर्षभः ।
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ॥ ४।५।२१ ॥
तत इति । सराघव इत्यनेन एकासनत्वमुक्तम् ॥ ४।५।२०,२१ ॥
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ।
प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ॥ ४।५।२२ ॥
तत इति । “प्रत्युवाच तदा रामम्” इति पाठः ॥ ४।५।२२ ॥
अहं विनिकृतो राम चरामीह भयार्दितः ।
हृतभार्यो वने त्रस्तो दुर्गमे तदुपाश्रितः ॥ ४।५।२३ ॥
अहमिति । त्रस्तः चकितः । अत्रस्त इति वा ॥ ४।५।२३ ॥
सो ऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः ।
वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥ ४।५।२४ ॥
सो ऽहमिति । त्रस्तः भीतः उत्तरोत्तरं भीतः । यद्वा वालित्रस्तो ऽहमस्मिन् वने अभीतो वसामीत्यर्थः ॥ ४।५।२४ ॥
वालिनो मे महाभाग भयार्तस्याभयं कुरु ।
कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ॥ ४।५।२५ ॥
वालिन इति । अभयं भयाभावं कुरु । आर्त्यतिशयेन दार्ढ्याय पुनरुच्यते कर्तुमित्यर्धेन । मे भयं यथा न भवेत्तथा कर्तुमर्हसीत्यन्वयः ॥ ४।५।२५ ॥
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।
प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ॥ ४।५।२६ ॥
उपकारफलं मित्रं विदितं मे माहकपे ।
वालिनं तं वधिष्यामि तव भार्यापहारिणम् ॥ ४।५।२७ ॥
अमोघाः सूर्यसङ्काशा ममैते निशिताः शराः ।
तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ ४।५।२८ ॥
प्रहसन्निव कियन्मात्रमेतदिति हसित्वा । इवशब्दो मन्दस्मितत्वे ॥ ४।५।२६२८ ॥
कङ्कपत्त्रप्रतिच्छन्ना महेन्द्राशनिसन्निभाः ।
तीक्ष्णाग्रा ऋजुपर्वाणाः सरोषा भुजगा इव ॥ ४।५।२९ ॥
कङ्कपत्त्रप्रतिच्छन्नाः कङ्कपत्रैर्बद्धा इत्यर्थः ॥ ४।५।२९ ॥
तमद्य वालिनं पश्य क्रूरैराशीविषोपमैः ।
शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ॥ ४।५।३० ॥
स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ४।५।३१ ॥
अद्य पश्येत्यनेन क्रियाझाटित्यमुक्तम् ॥ ४।५।३०,३१ ॥
तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् ।
तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुं ममाग्रजम् ॥ ४।५।३२ ॥
कुरु यतस्वेत्यर्थः । वैरिणं रिपुमिति द्विरुक्त्या वैरकृतं शात्रवं न तु जात्येत्युक्तम् ॥ ४।५।३२ ॥
सीताकपीन्द्रक्षणदाचराणां राजीवहेमज्वलनोपमानि ।
सुग्रीवरामप्रणयप्रसङ्गे वामानि नेत्राणि समं स्फुरन्ति ॥ ४।५।३३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चमः सर्गः ॥ ५ ॥
प्रसङ्गात् कविराह सीतेति । सीतानेत्रं राजीवोपमम् । वालिनेत्रं हेमोपमं पिङ्गाक्षत्वात् । रावणनेत्राणि ज्वलनोपमानि । पुरुषस्य वामनेत्रस्फुरणमनर्थकरम् । स्त्रियास्तु शोभनमिति निमित्तशास्त्रविदः ॥ ४।५।३३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने प़ञ्चमः सर्गः ॥ ५ ॥