००४ राम-लक्ष्मणयोः सुग्रीवान्तिके नयनम्

ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः ।

श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ॥ ४।४।१ ॥

अथाचार्यमुखेन चेतनालाभश्चतुर्थे तत इत्यादि । मधुरसम्भाषं मधुरभाषणं तद्वचः श्रुत्वा

कृत्यवान् कार्यवान् रामः इति हेतोः प्रहृष्टः सन् सुग्रीवं मनसा गतः । “तमेव चावां मार्गाव” इति वचनभावतया रामस्य कृत्यवत्त्वज्ञानम् ॥ ४।४।१ ॥

भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।

यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ ४।४।२ ॥

मनसा गत इत्येतद्दर्शयति भव्य इति । यद्यस्मादयं कृत्यवान् प्राप्तः तस्मात् महात्मनः महाभाग्यस्य तस्य सुग्रीवस्य राज्यागमः भव्यः भावी । एतत् कृत्यं राज्यागमनरूपकार्यम् उपागतं समीपे आगतं, निष्पन्नप्रायमित्यर्थः ॥ ४।४।२ ॥

ततः परमसंहृष्टो हमुमान् प्लवगर्षभः ।

प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ४।४।३ ॥

अस्मिन् श्लोके प्लवगर्षभ इत्यत्र गकारो गायत्र्याः दशमाक्षरम् । नवसहस्रश्लोका गताः ॥ ४।४।३ ॥

किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।

आगतः सानुजौ दुर्गं नानाव्यालमृगायुतम् ॥ ४।४।४ ॥

किमर्थमिति । पम्पाकाननेन पम्पोपवनेन मण्डितं वनं दण्डकारण्यम् । दण्डकारण्येप्येतत्प्रदेशं किमर्थमागत इति भावः ॥ ४।४।४ ॥

तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।

आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ४।४।५ ॥

राजा दशरथो नाम द्युतिमान् दर्मवत्सलः ।

चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ ४।४।६ ॥

तस्येति । महात्मत्वेन दशरथात्मजत्वेन चाचचक्ष इत्यर्थः ॥ ४।४।५,६ ॥

न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कञ्चन ।

स च सर्वेषु भूतेषु पितामह इवापरः ।

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ॥ ४।४।७ ॥

तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ।

शरण्यः सर्वभूतानां पितुर्निर्देषपारगः ॥ ४।४।८ ॥

न द्वेष्टेति । सर्वेषु भूतेषु मध्ये पितामह इव श्रेष्ठ इत्यर्थः ॥ ४।४।७,८ ॥

वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ।

राजलक्षणसम्पन्नः संयुक्तो राजसम्पदा ॥ ४।४।९ ॥

पुत्राणां पुत्राणां मध्ये ॥ ४।४।९ ॥

राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ।

भार्यया च महातेजाः सीतया ऽनुगतो वशी ॥ ४।४।१० ॥

दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ४।४।११ ॥

राज्यादित्यादि । भार्यायेति । ऐश्वर्यभ्रंशदशायामप्यनुवर्तनद्योतनाय दिनक्षय इत्युक्तम् ॥ ४।४।१०,११ ॥

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।

कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ ४।४।१२ ॥

अहमिति । भवानस्य क इत्याकाङ्क्षायामाह अस्यावरो भ्राता एतदभिप्रायेण भ्रातास्मि । अहं तु गुणैर्दास्यमुपागतः गुणवशीकृतहृदयः सन् तस्य दासो ऽस्मि । यद्यपि परवानस्मीत्यादौ स्वरूपप्रयुक्तदास्यमुक्तं तथापि योग्यताप्रकर्षात् गुणोत्तम्भितं तद्दास्यमिति तदविरोधो द्रष्टव्यः । उपेत्यनेन सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधकैङ्कर्यं प्राप्त इत्युच्यते । इदमपि कैङ्कर्यं तन्मुखोल्लासार्थम्, न तु मदर्थमित्याह कृतज्ञस्य बहुज्ञस्येति । अल्पमिति कृतं बहुतया जानत इत्यर्थः । इदमपि कैङ्कर्यं सहजमित्याशयेनाह नाम्ना लक्ष्मणो नामेति । स्वनामतः कैङ्कर्यलक्ष्मीसम्पन्न इति प्रसिद्धः ॥ ४।४।१२ ॥

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।

ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ ४।४।१३ ॥

सुखेत्यादिश्लोकद्वयमेकान्वयम् । यद्वा प्रथमश्लोकस्य पूर्वेणान्वयः । सहजत्वमुपपादयति सुखेति । महार्हस्य ऐश्वर्यसम्पन्नस्य वनवासश्रितस्य दुःकितस्येत्यर्थः । तथा च समृद्धिदशायामसमृद्धिदशायां च दास्योक्त्या सहजत्वमुपपादितम् । सहजमेव कैङ्कर्यम् । गुणास्तु तद्वर्धका इति भावः ॥ ४।४।१३ ॥

रक्षसा ऽपहृता भार्या रहिते कामरूपिणा ।

तञ्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ ४।४।१४ ॥

रक्षसेति । रहिते आवाभ्यां रहितदेशे ॥ ४।४।१४ ॥

दनुर्नाम दितेः पुत्रः शापाद्राक्षसतां गतः ।

आख्यातस्तेन सुग्रीवः समर्थो वानमर्षभः ॥ ४।४।१५ ॥

दनुरिति । दनुः दनुवंशजः दितेः पुत्रः पुत्रप्रायः तेन सुग्रीवः समर्थ इत्याख्यातः ॥ ४।४।१५ ॥

स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।

एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम् ॥ ४।४।१६ ॥

स इति । स्पष्टम् ॥ ४।४।१६ ॥

एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ ४।४।१७ ॥

एतदिति । ते तुभ्यं याथातथ्येनाख्यातम् ॥ ४।४।१७ ॥

अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ ४।४।१८ ॥

अहमित्यर्धम् ॥ ४।४।१८ ॥

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।

लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ ४।४।१९ ॥

परत्वसौशील्ये दर्शयति एष इति । त्रैलोक्यनाथत्वमेव सुग्रीवनाथत्वेच्छायां हेतुः । परत्वं विना सौशील्यस्यागुणत्वात् । इच्छति लप्स्यते न वा स्वयमभिलषति । अपर्यनुर्योज्या हि स्वतन्त्रा इति भावः । चकारेण लब्धा चेत्युच्यते । अनुत्तमं परत्वापेक्षया ऽवतारप्रयुक्तातिशयवत् । लोकनाथः सर्वलोकैर्याच्यमानः सर्वस्वामी च । “नाधृ नाथृ याच्ञोपतापैश्वर्याशीष्षु” धातुः ॥ ४।४।१९ ॥

पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः ।

तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥ ४।४।२० ॥

तदेव सौशील्यं प्रकारान्तरेणाह पितेति । शरण्यः प्राप्यः । शरणं रक्षकम् ॥ ४।४।२० ॥

सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा ।

गुरुर्मे राघवः सो ऽयं सुग्रीवं शरणं गतः ॥ ४।४।२१ ॥

शरण्य इत्युक्तं विशेषयति सर्वलोकस्येति । गुरुः अग्रजः ॥ ४।४।२१ ॥

यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।

स रामो वानरेन्दस्य प्रसादमभिकाङ्क्षते ॥ ४।४।२२ ॥

यस्य प्रसाद इति । इमाः प्रजाः सततं प्रसीदेयुः तत्प्रसादलब्धसकलपुरुषार्थतया सर्वदा प्रसन्निचित्ता भवेयुः । वानरेन्द्रस्य स्वप्रसाद्यप्रजैकदेशक्षुद्रतरजनस्य प्रसादमभिकाङ्क्षते स्वतन्त्रेच्छस्य नियन्तुमशक्यत्वादिति भावः ॥ ४।४।२२ ॥

येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।

मानिताः सततं राज्ञा सदा दशरथेन वै ॥ ४।४।२३ ॥

तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।

सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ ४।४।२४ ॥

येनेत्यादिश्लोकद्वयमेकान्वयम् । येन सततं सर्वगुणोपेताः सर्वोपचारोपेता यथा भवन्ति तथा सदा मानिताः । वानरेन्द्रं वनमात्रप्रसिद्धशाखामृगमिति सौशील्यातिशयध्वनिः ॥ ४।४।२३,२४ ॥

शोकाभिभूते रामे तु शोकार्तं शरणं गते ।

कर्तुमर्हति सुग्रीवः प्रसादं हरियूथपः ॥ ४।४।२५ ॥

शोकेनाभिभूते शोकपरतन्त्रे । शोकार्ते शोकपीडिते । कर्मपरतन्त्रं शोकाकुलं स्वजनमालोक्य स्वयं शोकाकुलस्यचार्यमुखं विनोभयशोकानुद्धारादिति भावः ॥ ४।४।२५ ॥

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् ।

हनुमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ ४।४।२६ ॥

एवमिति । साश्रुलोचनमिति रामदुःखदर्शनाद्दुःखितत्वमुच्यते ॥ ४।४।२६ ॥

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः ।

द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ ४।४।२७ ॥

द्रष्टव्याः अन्वेषितव्याः ॥ ४।४।२७ ॥

स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना ।

हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥ ४।४।२८ ॥

विनिकृतः वञ्चितः ॥ ४।४।२८ ॥

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।

सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ ४।४।२९ ॥

करिष्यतीति । परिमार्गणे साहाय्यं करिष्यति ततः परं भवतोरग्रे का शत्रुवार्तेति भावः ॥ ४।४।२९ ॥

इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।

बभाषे सो ऽभिगच्छेम सुग्रीवमिति राघवम् ॥ ४।४।३० ॥

इतीति । बभाषे पुनरपीति शेषः ॥ ४।४।३० ॥

एवं ब्रुवाणं धर्मात्मा हनुमन्तं स लक्ष्मणः ।

प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ ४।४।३१ ॥

यथान्यायं दूतानुरूपम् ॥ ४।४।३१ ॥

कपिः कथयते हृष्टो यथा ऽयं मारुतात्मजः ।

कृत्यवान् सो ऽपि सम्प्राप्तः कृतकृत्यो ऽसि राघव ॥ ४।४।३२ ॥

कपिरिति । अयं हृष्टः सन् यथा यथार्थं कथयते यथार्थकथने हृष्टत्वं हेतुः । सीतापरिमार्गणं करिष्यतीति यथार्थमेव । सो ऽपि सुग्रीवः कृत्यवान् प्राप्तः जातः तस्मात् कृतकृत्यो ऽसि ॥ ४।४।३२ ॥

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।

नानृतं वक्ष्यते वीरो हनुमान् मारुतात्मजः ॥ ४।४।३३ ॥

हृष्टपदसूचितं विवृणोति प्रसन्नेति । वक्ष्यते वक्ष्यति । अनृतं न वदेदित्यर्थः ॥ ४।४।३३ ॥

ततः स तु महाप्राज्ञो हनुमान्मारुतात्मजः ।

जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ ४।४।३४ ॥

हरिराजाय वानरराजाय ॥ ४।४।३४ ॥

भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।

पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ४।४।३५ ॥

उक्तं विवृणोति भिक्ष्विति ॥ ४।४।३५ ॥

स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः ।

गिरिवरमुरुविक्रमः प्रयातः सुशुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ४।४।३६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्थः सर्गः ॥ ४ ॥

विपुलयशाः सर्वदेववरप्रसादेन विशालकीर्तिः कपिप्रवीरः सुग्रीवमपि नियन्तुं समर्थः । अनेन भगवल्लाभ आचार्याधीन इत्युक्तम् ॥ ४।४।३६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्थः सर्गः ॥ ४ ॥