००१ रामेण पम्पातीरे विलापः

॥ किष्किन्धाकाण्डः ॥ ॥ श्लोकसहितव्याख्यानम् ॥

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।

रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥ ४।१।१ ॥

त्त्र त्ित्र

श्रीरङ्गेशाय नमः ।

क्वाहं मन्दमतिर्गभीरमधुरं रामायणं तत्क्कच

व्याख्याने ऽस्य परिभ्रमन्नहमहो हासास्पदं धीमताम् ।

को भारो ऽत्र मम स्वयं कुलगुरुः कोदण्डपाणिः कृपा

कूपारो रचयत्यदः सपदि मज्जिह्वाग्रसिंहासनः ॥ १ ॥

श्रीरामायणराजस्य समर्प्य मणिमेखलाम् ।

सारोद्धारमिमं हारमर्पयिष्यामि सम्प्रति ॥ २ ॥

एवं पूर्वस्मिन् काण्डे दीनजनसंरक्षणरूपो धर्मो ऽनुष्ठापितः । अथ किष्किन्धाकाण्डे मित्रसंरक्षणरूपो धर्मो ऽनुष्ठाप्यते । तथा पूर्वस्मिन् काण्डे मोक्षप्रदत्वरूपं परतत्त्वचिह्नमुपदर्शितम् । अत्रासङ्ख्येयकल्याणगुणाकरत्वं प्रतिपाद्यते । वस्तुतस्तु प्रथमे काण्डे श्रीमत्त्वं श्रीमत्पदोदीरितमुक्तम् । द्वितीये सर्वजनव्यामोहविषयत्वोक्त्या नारायणशब्दार्थः । तृतीये प़ञ्चवटीवासपर्यन्तवृत्तान्तेन मुनिजनकृतकैङ्कर्योक्त्त्या चतुर्थ्यर्थ उक्तः । खरादिवधवृत्तान्तेन नमःशब्दार्थ उक्तः । अथ मारीचदर्शनवृत्तान्तमारभ्य चेतनोज्जीवनप्रकारः प्रदर्श्यते । तत्र मारीचदर्शनवृत्तान्तेन भगवन्नित्यानुभवयोग्यस्य चेतनस्याप्राप्तविषयप्रावण्यम्, तेन रावणरूपमहामोहाक्रमणम्, जटायुव्यापारेण रावणनिवृत्तिकथनात् केवलकर्मणा संसारस्यानिवर्त्यत्वम्, लङ्काप्रवेशेन सांसारिकशरीरप्रवेशः, एकाक्ष्येककर्णीप्रभृतिव्यापारैस्तापत्रयाभिहतिः, रामान्वेषणेन भगवतश्चेतनोज्जीवनोपायचिन्तनं चोक्तमारण्यकाण्डे ॥ अथाचार्यमुखेन चेतनस्य स्वविषयभक्त्युत्पादनकृते तदन्वेषणमुच्यते । किष्किन्धाकाण्डे । तत्र प्रथमे सर्गे नित्यकैङ्कर्यपरनित्यसूरिदर्शनेन एतत्तुल्यभोगस्य प्राप्तो जीववर्गः किमिति न मां प्राप्त इति भगवतः क्लेशातिशयं दर्शयति । “स एकाकी न रमेत” इति ह्युक्तम् । स तामित्यादि । पद्मोत्पलझषैः कमलेन्दीवरमत्स्यैः आकुलाम् । तां पम्पाख्याम् । पुष्करिणीं सरसीम् । गत्वा मुखनयनकटाक्षवत्याः कान्तायाः स्मारकत्वेन व्याकुलेन्द्रियः मोहं प्रसादं च प्राप्तः । सः रामः तादृशधैर्यविशिष्टो ऽपि सौमित्रिसहितः आश्वासकान्तरङ्गपुरुषसहितो ऽपि विललाप ॥ ४।१।१ ॥

तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे ।

स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ॥ ४।१।२ ॥

आकुलेन्द्रिय इत्येतद्विवृण्वन्नाह तस्येति । दृष्ट्वा स्थितस्य तस्य इन्द्रियाणि हर्षाच्चकम्पिरे च्युतानीत्यर्थः ॥ ४।१।२ ॥

सौमित्रे शोभते पम्पा वैडूर्यविमलोदका ।

फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः ॥ ४।१।३ ॥

प्रलापप्रकारमाह सौमित्रे इत्यादिना । अनेन भक्तिद्रुतहृदयस्तत्सूचकमुखप्रसादः सपरिकरः पुरुष उच्यते ॥ ४।१।३ ॥

सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् ।

यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव ॥ ४।१।४ ॥

यत्र कानने । सशिखरा इव उन्नताग्रशाखाभिः सशृङ्गाः इव स्थिताः अत एव शैलाभाः । अनेन भगवद्दयारसोपजीविन आचार्याः तदुपजीविनो ऽन्तेवासिनश्चोच्यन्ते । “अत्र परत्र चापि” इति न्यायेन नित्यविभूतावपि शिष्यवत्त्वं सिद्धम् ॥ ४।१।४ ॥

मां तु शोकाभिसन्तप्तं माधवः पीडयन्निव ।

भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ ४।१।५ ॥

मां त्विति । भरतस्य दुःखेन नगरात् बहिर्व्रतोपवासादिनियमकृतदुःखेन वैदेह्या हरणेन च पूर्वमेव सन्तप्तं मां माधवो वसन्तः तु विशेषेण पीडयन्निव भवतीत्यर्थः । वस्तुतः पीडाभावादिवशब्दः । अनेन संसारतो जीवस्य दुःखेन दुःखितत्वमुक्तम् ॥ ४।१।५ ॥

शोकार्तस्यापि मे पम्पा शोभते चित्रकानना ।

व्यवकीर्णा बहुविधैः पुष्पैः शीतोदका शिवा ॥ ४।१।६ ॥

सर्वेषु मद्भक्तेषु सुखं वसत्सु किमर्थमेते संसारिणः क्लिश्यन्तीत्यभिप्रायेणाह शोकार्तस्येत्यादिना । शोकार्तस्यापि मे मयि शोकार्ते ऽपि शोभते । व्यर्थेयं शोभेति भावः ॥ ४।१।६ ॥

नलिनैरपि सञ्छन्ना ह्यत्यर्थं शुभदर्शना ।

सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ ४।१।७ ॥

नलिनैरिति । अपिशब्देन कुमुदादिकं समुच्चीयते । व्यालो ऽजागरः । सर्पव्याला एवानुचराः ते अस्यां स़ञ्जाता इति सर्पव्यालानुचरिता । सर्पव्यालानुचरितत्वे ऽपि नलिनसञ्छन्नत्वादत्यर्थं शुभदर्शना भवतीत्यर्थः । अनेन ज्ञानिनो यः कश्चिद्दोषो ऽपि न तस्य हेयतापादक इत्युक्तम् । “तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ।” इति स्मृतेः ॥ ४।१।७ ॥

अधिकं प्रतिभात्येतन्नीलपीतं तु शाद्वलम् ।

द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ ४।१।८ ॥

अधिकमिति । एतदिति परिसरप्रदेशमङ्गुल्या निर्दिशति । नीलपीतमिति मयूरकण्ठवर्ण इत्युच्यते । परिस्तोमैः कुथैः । “परिस्तोमः कुथो द्वयोः” इत्यमरः । अनेन नानागुरुमुखलब्धज्ञानतया भगवद्वासयोग्यः पुरुष उच्यते ॥ ४।१।८ ॥

पुष्पभारसमृद्धानि शिखराणि समन्ततः ।

लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः ॥ ४।१।९ ॥

पुष्पेति । शिखराणि वृक्षाग्राणि समन्ततः सर्वत्र प्रदेशे आमूलाग्रम् उपगूढानि । शोभन्त इति शेषः । अनेन गार्हस्थ्ये ऽपि निरवधिकबोधा उच्यन्ते ॥ ४।१।९ ॥

सुखानिलो ऽयं सौमित्रे कालः प्रचुरमन्मथः ।

गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः ॥ ४।१।१० ॥

सुखेति । अनेन जनकादिवदैश्वर्ये सत्यपि भगवज्झानरत उच्यते ॥ ४।१।१० ॥

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ।

सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ॥ ४।१।११ ॥

पश्येति । तोयं सृजतां तोयमुचां रूपाणीवेति पूर्णोपमा । अनेन परोपदेशप्रवृत्ता आचार्या उच्यन्ते ॥ ४।१।११ ॥

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।

वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम् ॥ ४।१।१२ ॥

प्रस्तेषु पाषाणेषु गां भूमिं प्रस्तरभूमिमित्यर्थः । अनेन कठिनहृदयेष्वपि दयावशात् ज्ञानवर्षिण उच्यन्ते ॥ ४।१।१२ ॥

पतितैः पतमानैश्च पादपस्थैश्च मारुतः ।

कुसुमैः पश्य सौमित्रे क्रीडन्निव समन्ततः ॥ ४।१।१३ ॥

पतितैरिति । पतमानैः पतद्भिः । अनेन सर्वगुरुप्रेरणैकलीलः सर्वान्तर्याम्युच्यते ॥ ४।१।१३ ॥

विक्षिपन् विविधाः शाखा नगानां कुसुमोत्कचाः ।

मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ ४।१।१४ ॥

कुसुमोत्कचाः कुसुमोत्कटाः विक्षिपन् कम्पयन् मारुतः चलितस्थानैः स्वस्थानकुसुमोच्चालितैः षट्पदैः अनुगीयते । अनेन “ज्ञानी त्वात्मैव मे मतम्” इत्यात्मभूतज्ञानिनां भक्तिवृद्धये भगवति भुवमवतीर्णे “इमान् लोकान् कामान्नीकामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते” इत्युक्तरीत्या तमनुगच्छन् भक्तलोक उच्यते ॥ ४।१।१४ ॥

मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान् ।

शैलकन्दरनिष्क्रान्तः प्रगीत इव चानिलः ॥ ४।१।१५ ॥

मत्तकोकिलसन्नादैः मुखवाद्यस्थानीयैः पादपान्नर्तयन् शैलकन्दरनिष्क्रान्ततया तन्निष्क्रमणध्वनियुक्ततया प्रगीत इव गातुमुपक्रान्त इव । “आदिकर्मणि क्तः कर्तरि च” इति कर्तरि निष्ठा । यद्वा पादपान् नर्तयन् नर्तयितुमिव । “लक्षणहेत्वोः” इति शतृप्रत्ययः । मत्तकोकिलसन्नादैः प्रगीतः प्रहृष्टगीतः सन् शैलकन्दरात् नैपथ्यस्थानान्निष्क्रान्तः । अनेन वेदप्रवर्तनमुखेन लोकस्य भक्त्युत्पादनाय वैकुण्ठादवतीर्णो भगवानित्युच्यते ॥ ४।१।१५ ॥

तेन विक्षिपतात्यर्थं पवनेन समन्ततः ।

अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ ४।१।१६ ॥

विक्षिपता विविधं प्रेरयता पवनेन अत्यर्थं समन्ततः संसक्तशाखाग्रा अमी पादपाः ग्रिथिता मालावन्निबद्धा इव भान्ति । अनेन भगवत्कृपया परस्परमनुरक्ता भागवता उच्यन्ते ॥ ४।१।१६ ॥

स एष सुखसंस्पर्शो वाति चन्दनशीतलः ।

गन्धमभ्यावहन् पुण्यं श्रमापनयनो ऽनिलः ॥ ४।१।१७ ॥

मन्दमारूतं वर्णयति स एष इति । स्पार्शनप्रत्यक्षत्वादेष इत्युक्तिः । चन्दनशीतलः मलयगतचन्दनेन शीतलः, दक्षिणमारुत इत्यर्थः । चन्दनवच्छीतलो वा । गन्धं पुष्पगन्धं पुण्यं रम्यम् । सुखसंस्पर्श इत्यनेन मान्द्यमुक्तम् । एवं शैत्यमान्द्यसौरभ्यवान् । अत एव श्रमापनयनः । अनेन “सर्वगन्धः सर्वरसः” इत्युक्तस्य भगवतो भक्तेषु सान्निध्यमुक्तम् ॥ ४।१।१७ ॥

अमी पवननिक्षिप्ता विनदन्तीव पादपाः ।

षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु ॥ ४।१।१८ ॥

अमी इति । अनेन भगवदनुभवबलात्कारेण “एतत्साम गायन्नास्ते” इत्युक्तसामगानरसिका उच्यन्ते ॥ ४।१।१८ ॥

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ।

संसक्तशिखराः शैला विराजन्ते महाद्रुमैः ॥ ४।१।१९ ॥

गिरिप्रस्थेषु निजप्रस्थेष्वित्यर्थः । तदुत्पन्नैर्द्रुमैः संसक्तशिखराः परस्परसंश्लिष्टाग्राः शैला भान्ति महान्तः पुष्पराशय इव भान्तीत्यर्थः । अनेन सर्वेषां ज्ञानिनामेककण्ठत्वमुक्तम् ॥ ४।१।१९ ॥

पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः ।

अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ ४।१।२० ॥

मधुकरा एव उत्तंसाः शिखराणि येषां ते । “पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेपि शेखरे” इत्यमरः । पुष्पावृतशिखोपरि नीलोष्णीषधारिणः सगीतिकं नृत्यन्त इव भान्तीत्यर्थः । अनेन भगवद्भक्त्या नर्तनपरा गम्यन्ते ॥ ४।१।२० ॥

पुष्पिताग्रांस्तु पश्येमान् कर्णिकारान् समन्ततः ।

हाटकप्रतिसञ्छन्नान्नरान्पीताम्बरानिव ॥ ४।१।२१ ॥

पुष्पिताग्रान् पुष्पितोपरि प्रदेशान् अत एव हाटकसञ्छन्नान् पीताम्बरांश्च नरानिव पश्य । पुष्पिताग्राः कर्णिकाराः सुवर्णवस्त्राभरणवन्त इव भान्तीत्यर्थः । अनेन भगवत्सारूप्यं गता उच्यन्ते ॥ ४।१।२१ ॥

अयं वसन्तः सौमित्रे नानाविहगनादितः ।

सीतया विप्रहीणस्य शोकसन्दीपनो मम ॥ ४।१।२२ ॥

एवं मद्भक्तेषु सर्वेषु मदनुभवतृप्तेषु बद्धा मां दुःखीकुर्वन्तीत्याह अयमिति । इदानीं वसन्तवर्णनेन नगरनिर्गममारभ्य त्रयोदशवत्सरा गता इति गम्यते ॥ ४।१।२२ ॥

मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः ।

हृष्टः प्रवदमानश्च मामाह्वयति कोकिलः ॥ ४।१।२३ ॥

एवं वासन्तपुष्पसमृद्धिं वर्णयित्वा तथैवोद्दीपनभूतपक्षिरवानाह मामित्यादिना । पूर्वार्द्धं स्पष्टम् । मां शोकिनं मां हृष्टः कोकिलः प्रवदमानः प्रवदन् विजयघोषं कुर्वन् सन् आह्वयति स्पर्धत इवेति गम्योत्प्रेक्षा । ज्ञानैकवत्सलं मामविज्ञाय केवलं कर्मठा मां स्पर्धन्त इति भावः ॥ ४।१।२३ ॥

एष नत्यूहको हृष्टो रम्ये मां वननिर्झरे ।

प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ ४।१।२४ ॥

नन्यूहकः कुक्कुटभेदः वननिर्झरे प्रणदन्नित्यन्वयः । अनेन केवलजपपरा उच्यन्ते । ज्ञानभक्त्योरेव भगवतः सद्यः प्रीत्यावहत्वात् साधनान्तरपरो नातिप्रिय इति रहस्यम् । “ज्ञानी त्वात्मैव मे मतम् । भक्तिक्रीतो जनार्दनः” इत्यादिवचनात् ॥ ४।१।२४ ॥

श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया ।

मामाहूय प्रमुदिता परमं प्रत्यनन्दत ॥ ४।१।२५ ॥

किमयं सर्वदेत्थं शोकावहः नेत्याह श्रुत्वेति । श्रुत्वा प्रमुदिता प्रिया मामाहूय परमं प्रकामं प्रत्यनन्दत । नत्यूहरवाकर्णनोद्दीपिता मामाहूय विविधं क्रीडारसमनुभूतवतीत्यर्थः । अनन्यप्रयोजनस्य जपः प्रीत्यावह इति भावः ॥ ४।१।२५ ॥

एवं विचित्राः पतगा नानारावविराविणः ।

वृक्षगुल्मलताः पश्य सम्पतन्ति ततस्ततः ॥ ४।१।२६ ॥

एवमिति स्पष्टम् ॥ ४।१।२६ ॥

विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः ।

भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ॥ ४।१।२७ ॥

विहगाः स्त्रियः पुंविहगैः विमिश्राः आश्लिष्टाः सत्यः आत्मव्यूहाभिनन्दिताः अनुरूपेण कान्तेन सहितासीत्येवं सजातीयैः श्लाघिताः । भृङ्गराजप्रमुदिताः भृङ्गराजझङ्कारश्रवणसन्तुष्टाः तदुद्दीपनेन मधुर स्वराः रम्यरतिकूजिताः वर्तन्ते । एतान् पश्येति शेषः । अनेनाचार्यपरतन्त्राः सामगानपरा उच्यन्ते ॥ ४।१।२७ ॥

नत्यूहरुतविक्रन्दैः पुंस्कोकिलरुतैरपि ।

स्वनन्ति पादापाश्चेमे ममानङ्गप्रदीपनाः ॥ ४।१।२८ ॥

विक्रन्दैः शब्दैः स्वनन्ति स्वनन्तीव । अनेन नानाविधभगवन्नामकीर्तनपराः श्लाघ्यन्ते ॥ ४।१।२८ ॥

अशोकस्तबकाङ्गारः षट्पदस्वननिःस्वनः ।

मां हि पल्लवताम्रार्चिर्वसन्ताग्निः प्रधक्ष्यति ॥ ४।१।२९ ॥

षट्पदस्वननिःस्वन इति । अग्नेः निःस्वनवत्त्वं ज्वलनावस्थायां दृष्टम् । अनेन स्वप्रेमजनकभक्तियुक्ता उच्यन्ते ॥ ४।१।२९ ॥

न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् ।

अपश्यतो मे सौमित्रे जीविते ऽस्ति प्रयोजनम् ॥ ४।१।३० ॥

न हीति । एतेष्वेवं मत्प्रेमपरतन्त्रेषु संसारिचेतनो दुःखमनुभवतीत्येतन्ममासह्यमिति भावः ॥ ४।१।३० ॥

अयं हि दयितस्तस्याः कालो रुचिरकाननः ।

कोकिलाकुलसीमान्तो दयिताया ममानघ ॥ ४।१।३१ ॥

अयं कालो मम दयितायाः रुचिरो हि प्रियतरो हीत्यर्थः । यदीहेदानीं दयिता स्यात्तदातीव तुष्येदिति भावः । कोकिलाकुलसीमान्तः कोकिलरवाकुलचतुस्सीम इत्यर्थः ॥ ४।१।३१ ॥

मन्मथायास सम्भूतो वसन्तगुणवर्धितः ।

अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्न चिरादिव ॥ ४।१।३२ ॥

मन्मथायाससम्भूतः मदनपीडाजनितः वसन्तस्य गुणेन रामणीयकेन वर्धितः क्षिप्रं धक्ष्यति नतु चिरात् । इवशब्दो वाक्यालङ्कारे ॥ ४।१।३२ ॥

अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान् ।

ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ॥ ४।१।३३ ॥

आत्मप्रभवः मन्मथः । भूयस्त्वं प्रवृद्धत्वम् ॥ ४।१।३३ ॥

अदृश्यमाना वैदेही शोकं वर्धयते मम ।

दृश्यमानो वसन्तश्च स्वेदसंसर्गदूषकः ॥ ४।१।३४ ॥

दृश्यमानः पुष्पादिद्वारा स्वेदसंसर्गदूषकः, मलयमारुतद्वारा स्वेदसम्बन्धनिवर्तकः । रतिश्रान्तिहर इत्यर्थः ॥ ४।१।३४ ॥

मां ह्यद्य मृगशावाक्षी चिन्ताशोकबलात्कृतम् ।

सन्तापयति सौमित्रे क्रूरश्चैत्रो वनानिलः ॥ ४।१।३५ ॥

क्रूरः मन्मथोद्दीपकत्वात् । अत्र चकारो द्रष्टव्यः ॥ ४।१।३५ ॥

अमी मयूराः शोभन्ते प्रनृत्यन्तस्ततस्ततः ।

स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव ॥ ४।१।३६ ॥

ततस्ततः तत्र तत्र प्रदेशे पवनोद्धूतैः अत एव स्पष्टदृष्टशुभ्रनालजालत्वात् स्फाटिकैर्गवाक्षैरिव स्थितैः । यद्वा स्फाटिकैः स्फटिकप्रधानैः चन्द्रार्कपरम्परायास्तत्तुल्यत्वादिति भावः । अनेन भगवत्कृपाप्रवर्तितविविधकर्मपरा उच्यन्ते ॥ ४।१।३६ ॥

शिखिनीभिः परिवृतास्त एते मदमूर्च्छिताः ।

मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥ ४।१।३७ ॥

शिखिनीभिः मयूर स्त्रीभिः परिवृताः अत एव मदमूर्च्छिताः मदव्याप्ताः त एते पूर्वश्लोकोक्ता एते शिखिनः मन्मथाभिपरीतस्य पूर्वमेव मन्मथाभिव्याप्तस्य मम पुनर्मन्मथवर्धनाः । अन्यरतिदर्शनस्य उद्दीपनत्वादिति भावः । सशिष्यभक्तदर्शनं मे सर्वत्र भक्त्युत्पादनव्यामोहं जनयतीत्यर्थः ॥ ४।१।३७ ॥

पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ।

शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु ॥ ४।१।३८ ॥

तामेव मनसा रामां मयूरोप्युपधावति ।

वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥ ४।१।३९ ॥

पश्येत्यादिश्लोकद्वयमेकान्वयम् । नृत्यन्तं स्वयं लीलारसप्रवृत्तं भर्तारं प्रति मन्मथार्ता रत्यर्थं तमाक्रष्टुकामा शिखिनी उपनृत्यति । तामेव रामां कान्तां मनसा उपधावति । समीपमागन्तुमिच्छतीत्यर्थः । उपधावनं च रत्यर्थमिति द्योतयति वितत्येति । रुतैः रतिकूजितैः उपलक्षितः । पक्षविस्तारणं च रत्यर्थव्यापारः । उपहसन्निव प्रसन्नमुख इत्यर्थः । यद्वा कान्ताविरहिणं मामुपहसन्निवेत्युत्प्रेक्षा । अत्र शिष्याचार्ययोरन्योन्यप्रावण्यमुच्यते ॥ ४।१।३८,३९ ॥

मयूरस्य वने नूनं रक्षसा न हृता प्रिया ।

तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया ॥ ४।१।४० ॥

वने उपभोगयोग्ये देशे रावणः सीतां हृतवान् । न तु नगर इति हार्दो भावः, न हृता अस्य भाग्यवशादिति भावः । तस्मादित्यादि । एतादृशरम्यदेशकालेषु धन्याः कान्ताभिः क्रीडन्तीति भावः ॥ ४।१।४० ॥

मम त्वयं विना वासः पुष्पमासे सुदुस्सहः ॥ ४।१।४१ ॥

अमुमेवाशयमुद्घाटयति मम त्विति । विना सीतयेति शेषः ॥ ४।१।४१ ॥

पश्य लक्ष्मण संरागं तिर्यग्योनिगतेष्वपि ।

यदेषा शिखिनी कामाद्भर्तारं रमते ऽन्तिके ॥ ४।१।४२ ॥

सम्यग्रागः संरागः तम्, कान्तानुरागमित्यर्थः । तिर्यग्योनिगतेषु तिर्यग्योनिजातेषु लोके स्त्रियं पुमाननुवर्तते न तु स्त्री पुरुषम्, अतोतीवास्याः कामः । अहो वसन्तवैभव इति भावः ॥ ४।१।४२ ॥

मामाप्येवं विशालाक्षी जानकी जातसम्भ्रमा ।

मदनेनाभिवर्तेत यदि नापहृता भवेत् ॥ ४।१।४३ ॥

विशालाक्षी मदवलोकनविस्फारितेक्षणा जातसम्भ्रमा जातत्वरा यदि नापहृता भवेत् तदा मामेवाभिवर्तेत । अत्र चापलं नाम सञ्चारीभावः ॥ ४।१।४३ ॥

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे ।

पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ ४।१।४४ ॥

शिशिरात्यये वसन्ते पुष्पभारसमृद्धानां पुष्पाणि अमितानि पुष्पाणीत्यर्थः । संसारिदुःखं पश्यतो मे ज्ञानिलाभो ऽकिञ्चित्कर इव भातीत्यर्थः ॥ ४।१।४४ ॥

रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया ।

निष्फलानि महीं यान्ति समं मधुकरोत्करैः ॥ ४।१।४५ ॥

उक्तमर्थं विशिष्य दर्शयति रुचिराण्यपीति । अतिश्रिया अत्यन्तकान्त्या रुचिराण्यपि अस्मदनुपयोजनान्निष्फलानि भवन्ति । निर्भरमकरन्दभरिततया मधुकरसमूहैः समं महीं यान्ति ॥ ४।१।४५ ॥

वदन्ति रावं मुदिताः शकुनाः सङ्घशः कलम् ।

आह्वयन्त इवान्योन्यं कामोन्मादकरा मम ॥ ४।१।४६ ॥

वदन्तीति । शकुनाः मम कामोन्मादकराः सन्तः अन्योन्यमाह्वयन्त इव कलं मधुरं रावं वदन्ति, शब्दं कुर्वन्तीत्यर्थः । मम कामोन्मादकरणार्थं सङ्घीभवितुमन्योन्यमाह्वयन्त इवेत्युत्प्रेक्षा । अनेन स्वदयोत्तम्भकज्ञानिव्यापार उक्तः ॥ ४।१।४६ ॥

वसन्तो यदि तत्रापि यत्र मे वसति प्रिया ।

नूनं परवशा सीता सा ऽपि शोचत्यहं यथा ॥ ४।१।४७ ॥

शोचति शोचेत् ॥ ४।१।४७ ॥

नूनं न तु वसन्तो ऽयं देशं स्पृशति यत्र सा ।

कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥ ४।१।४८ ॥

गूढदेशप्रापणेन तद्देशे वसन्तप्रसङ्गाभावान्न तस्याः शोकप्रसक्तिरित्याशङ्क्य वसन्ताभावे ऽपि मां विना न जीवितं धारयिष्यतीत्याह नूनमिति ॥ ४।१।४८ ॥

अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।

किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः ॥ ४।१।४९ ॥

वसन्तप्राप्तिमङ्गीकृत्याह अथवेति ॥ ४।१।४९ ॥

श्यामा पद्मपलाशाक्षी मदुपूर्वाभिभाषिणी ।

नूनं वसन्तमासाद्य परित्यक्ष्यति जीवितम् ॥ ४।१।५० ॥

श्यामा यौवनमध्यस्था ॥ ४।१।५० ॥

दृढं हि हृदये बुद्धिर्मम सम्प्रति वर्तते ।

नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥ ४।१।५१ ॥

उक्तमर्थं सहेतुकं द्रढयति दृढं हीति । अस्यान्ते इति करणं द्रष्टव्यम् । वर्तयितुं जीवितुं नालं न समर्था ॥ ४।१।५१ ॥

मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः ।

ममापि भावः सीतायां सर्वथा विनिवेशितः ॥ ४।१।५२ ॥

अत्र हेतुमाह मयीति । भावः अनुरागः । तत्त्वतः एकतत्त्वतया । सर्वथा “न चास्य माता पिता न चान्यः स्नेहाद्विशिष्टो ऽस्ति मया समो वा ।” इत्युक्तप्रकारेण । अनेन स्वस्य जीवसम्बन्धः स्वाभाविक उक्तः ॥ ४।१।५२ ॥

एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः ।

तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥ ४।१।५३ ॥

एवं वसन्तोद्दीपनतामुक्त्वा मलयमारुतोद्दीपनतामाह एष इत्यादिना । पुष्पवहः पुष्पगन्धवहः । अनेन सौरभ्यमुक्तम् । सुखस्पर्श इत्यनेन मान्द्यम् । हिमावहः हिमवत्त्वावह इति शैत्यम् । “तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः” इत्यमरः । तां विचिन्तयतः विहरिण इत्यर्थः । पावकप्रतिमः सन्तापकर इत्यर्थः ॥ ४।१।५३ ॥

सदा सुखमहं मन्ये यं पुरा सह सीतया ।

मारुतः स विना सीतां शोकं वर्धयते मम ॥ ४।१।५४ ॥

उक्तमर्थं विवृणोति सदेति । आभ्यां संसारिण्यकिञ्चित्करी स्वदया स्वस्याप्यसह्येत्युच्यते ॥ ४।१।५४ ॥

तां विना स विहङ्गो यः पक्षी प्रणदितस्तदा ।

वायसः पादपगतः प्रहृष्टभिनर्दति ॥ ४।१।५५ ॥

मध्ये यत्किञ्चिदाश्वसनं दृष्टमनुवदति द्वाभ्याम् तामिति । तदा प्रथमदर्शनकाले सीताया वियोगपूर्वकाले वा वायसः पक्षी विहङ्गः आकाशगतः सन् यः प्रणदितः परुषं वाशितवान् सः इदानीं तां विना तद्विरहावस्थायां पादपगतः सन् प्रहृष्टं यथा तथा अभिनर्दति । पूर्वमाकाशगतः सन् परुषनादेन तद्विश्लेषं सूचितवान्, इदानीं पादपगतः सन् प्रहृष्टनादेनास्याः संश्लेषं सूचयतीत्यर्थः ॥ ४।१।५५ ॥

एष वै तत्र वैहेह्या विहगः प्रतिहारकः ।

पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति ॥ ४।१।५६ ॥

एतदेव विवृणोति एष इति । तत्र तदानीं प्रतिहारकः वियोजकः सन् आभ्यां यादृच्छिकप्रासङ्गिकसुकृतदर्शनमुक्तम् ॥ ४।१।५६ ॥

पश्य लक्ष्मण सन्नादं वने मदविवर्धनम् ।

पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ ४।१।५७ ॥

पश्येति । अनेन परमपदे ज्ञानप्रधाने सामगायिनां नित्यमुक्तानां स्थितिरुक्ता ॥ ४।१।५७ ॥

विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् ।

षट्पदः सहसाभ्येति मदोद्धूतामिव प्रियाम् ॥ ४।१।५८ ॥

पवनेन विक्षिप्तां कम्पितां प्रियामिव स्थितां तिलकमञ्जरीं षट्पदः भृङ्गो ऽभ्येति । अनेन भगवद्दयाविषयभूतस्योत्तरक्षणे द्वयप्राप्तिर्भवितेत्युच्यते ॥ ४।१।५८ ॥

कामिनामयमत्यन्तमशोकः शोकवर्धनः ।

स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः ॥ ४।१।५९ ॥

कामिनां विरहिणां शोकवर्धनः दुःखवर्धनस्वभावः स्वाभावतो दुष्टप्रकृतिरित्यर्थः । अशोकः पवनोत्क्षिप्तैः वायुना पत्राणां बहिश्चालितैः स्तबकैः मां तर्जयन्निव स्थितः । त्वत्संहारार्थमिमे तप्तबाणाः प़ञ्चबाणेन स्थापिताः इति भीषयन्निव स्थित इत्युत्प्रेक्षा । संसारिणमनुज्जीवयन्तं मां ज्ञानिनो लज्जितं कुर्वन्तीत्यर्थः ॥ ४।१।५९ ॥

अमी लक्ष्मण दृश्यन्ते चूताः कुसुमशालिनः ।

विभ्रमोत्सिक्तमनसः साङ्गरागा नरा इव ॥ ४।१।६० ॥

पुनरपि ज्ञानिनां समृद्धिं दर्शयन्वर्णयति अमी इत्यादिना । कुसुमशालिनः अत एव साङ्गरागाः विभ्रमोत्सिक्तमनसः विलासगर्वितमनसः रागिण इति यावत् । नरा इव भान्ति ॥ ४।१।६० ॥

सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु ।

किन्नरा नरशार्दूल विचरन्ति ततस्ततः ॥ ४।१।६१ ॥

सौमित्र इति । स्पष्टम् ॥ ४।१।६१ ॥

इमानि शुभगन्धीनि पश्य लक्ष्मण सर्वशः ।

नलिनानि प्रकाशन्ते जले तरुणसूर्यवत् ॥ ४।१।६२ ॥

इमानीति । नलिनानि रक्तोत्पलानि जले तरुणसूर्यवत् प्रतितरङ्गं प्रतिफलितबालसूर्यवत् ॥ ४।१।६२ ॥

एषा प्रसन्नसलिला पद्मनीलोत्पलायुता ।

हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता ॥ ४।१।६३ ॥

विरजादृष्ट्या पम्पां वर्णयति एषेत्यादिभिश्चतुर्भिः । “सौगन्धिकं तु कह्लारम्” इत्यमरः । शोभत इति शेषः ॥ ४।१।६३ ॥

जले तरुणसूर्याभैः षट्पदाहतकेसरैः ।

पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ॥ ४।१।६४ ॥

जल इति । पङ्कजैरभिसंवृतेत्यन्वयः ॥ ४।१।६४ ॥

चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा ।

मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः ॥ ४।१।६५ ॥

चित्रप्रस्थवनान्तरा चित्रतीरवनपरिधाना । अन्तरं परिधानम् ॥ ४।१।६५ ॥

पवनाहितवेगाभिरूर्मिभिर्विमले ऽम्भसि ।

पङ्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥ ४।१।६६ ॥

पवनाहितवेगाभिः पवनोत्पादितवेगाभिः । ताड्यमानानि कशाभिस्ताड्यमानानीव ॥ ४।१।६६ ॥

पद्मपत्त्रविशालाक्षीं सततं पङ्कजप्रियाम् ।

अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥ ४।१।६७ ॥

एवं पम्पादर्शनजकामोद्रेकमरत्यवस्थया दर्शयति पद्मेति । “स एकाकी न रमेत” इतिवद्विरजातीरवासो मे न रोचत इति लक्ष्मणायाभिव्यनक्ति ॥ ४।१।६७ ॥

अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् ।

स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥ ४।१।६८ ॥

वामत्वं वक्रत्वं गतां दूरगतां स्मारयिष्यति स्मारयति । कल्याणतरवादिनीं शुभतरवचनशीलाम् । मृगमाहरेति चरमश्रुतमेव वाक्यमस्य हृदये वर्तते ॥ ४।१।६८ ॥

शक्यो धारयितुं कामो भवेदद्यागतो मया ।

यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः ॥ ४।१।६९ ॥

अद्यागतः इदानीं वर्तमानः । पुष्पिताः द्रुमाः येन स पुष्पितद्रुमः । सर्वथा कामो दुःसह इति उच्यते ॥ ४।१।६९ ॥

यानि स्म रमणीयानि तया सह भवन्ति मे ।

तान्येवा ऽरमणीयानि जायन्ते मे तया विना ॥ ४।१।७० ॥

भोग्यस्य वसन्तस्य कुतो बाधकत्वम्? तत्राह यानीति ॥ ४।१।७० ॥

पद्मकोशपलाशानि दृष्ट्वा दृष्टिर्हि मन्यते ।

सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ ४।१।७१ ॥

नेत्रकोशाभ्यां नेत्रदलाभ्यां सीतानेत्रे स्मारयित्वा सन्तापयन्तीत्यर्थः ॥ ४।१।७१ ॥

पद्मकेसरसंसृष्टो वृक्षान्तरविनिस्सृतः ।

निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ ४।१।७२ ॥

सर्वप्राणिनां प्राणहेतुर्वायुरेवास्मत्सर्वस्वापहारं कुरुत इत्याह पद्मेति । पद्मकेसरसंसृष्टः । धूलीकरणं वायुकार्यम् । तथा च सर्वप्राणहेतुरेव सर्वधूलीकरणप्रवृत्तः, सर्वसंहार प्रवृत्त इत्यर्थः । यद्वा पद्माविरहात् पद्मकेसराणि प्रतिकूलानि सन्ति वायोः साहाय्यं कुर्वन्ति । “पादारुन्तुदमेव पङ्कजरजः” इति स्वजनसहजबाधकं कथं नास्मद्बाधकम् । राजसप्रकृतित्वादस्मानपि बाधितुमुपक्रमते । केसरशब्देन तत्स्थरजसो ऽत्र विवक्षितत्वात्, किञ्जल्कानामानयनायोगात्, एतन्मूलं कण्टकिसंसर्गः । पद्मकेसरसंसृष्टः नायं वातः किन्तु केसरी । सिंहः इत्यपि ध्वनिः । यद्वा पद्मकेसरैः संसृष्टः स्वयमेव संहारक्षमः तदुपरि ससहायः । यद्वा रूपवान् ह्यसहायशूरः, रूपरहितो ऽयं कथं न सहायमपेक्षेत? रूपवान् दृढशरीर इत्यपि ध्वनिः । वायुर्बाधकश्चेत्त्वया पूर्वमेव परिहृत्य वर्तितव्यं तत्राह वृक्षान्तरविनिस्सृतः दूरे दृष्ट्वा परिहर्तुं शक्यते । वृक्षषण्डे पूर्वमात्मानं सङ्गोप्य स्थित्वा झटिति विनिर्गतः । यद्वा यथा राजकुमारः सौकुमार्येण छायामार्गेणागच्छति तथायमपीत्यर्थः । यद्वा मन्मथतापेन विश्रमाय तरुच्छायमपि नाश्रयितुं क्षमते । यदि ते ऽहं बाधकः तर्हि दूरादपसरेत्यात्राह निःश्वास इव सीतायाः पूर्वपरिचितवदवभासमानतया परिहर्तुमपि न शक्नोमि । यद्वा सीतानिश्वासतुल्यतया सात्र किं वृक्षमूले निलीना समागच्छतीति चापलातिशयेनान्यत्र न चलितुं शक्नोमि । “सुरभिनिःश्वसिते दधतस्तृषाम्” इति निःश्वासस्य सौरभ्यं कविभिरुक्तम् । यद्वा न केवलमनिलः सपरिकर एव बाधते, किन्तु स्मारकतयापि वाति । न कदाचिदायाति । सर्वदा याति । सकलमपि काननं सविलासं सञ्चरति । यद्वा वाति “वा गतिगन्धनयोः” स्वार्जितगन्धेन सर्वान् परवशीकरोति । एतादृशबाधकोपि न यः कश्चिदित्याह वायुः सर्वोज्जीवनहेतुः । यद्वा “भीषास्माद्वातः पवते” इति मत्तो भीतो मां भर्त्सयति ।

बाधनप्रकारमाह मनोहरः आन्तरमपि पदार्थमपहरति । पद्मकेसरसंसृष्ट इत्यनेन शैत्यमुक्तम् ।

वृक्षान्तरविनिःसृत इत्यनेन मान्द्यम् । निःश्वास इव सीताया इति सौरभ्यम् । यद्वा पद्मकेसरसंसृष्ट इत्यनेन चोरसमाधिरुच्यते(चोरसमा भीरुच्यते) । स्वस्वरूपापरिज्ञानाय भीरुजनभीषणाय च भस्मोद्धूलितवदनः समायाति । वृक्षान्तरविनिःसृतः पथिकानां स्वसमीपागमनपर्यन्तं गूढतया स्थित्वा तेषु समीपमागतेषु सपदि समुत्तिष्ठन्निव भाति । निःश्वास इव सीतायाः चिरपरिचित इव सरससँल्लापविशेषैः कस्ते ग्रामः किं ते नामेति सम्भाषमाण इव स्थितः वाति । धनस्य हस्तगतिपर्यन्तं निःस्पृहतया ततस्ततः सञ्चरन्निव स्थितः वायुः चौर्यं दृष्ट्वा केनचित् ग्रहीतुमुद्युक्तश्चेल्लाघवेन हस्तग्रहणानर्हः । मनोहरः नापाततो ऽपाहरत्, अपि तु सुगुप्तमपि । अनेन निर्हेतुकहरिदयाप्रवाह उपवर्ण्यते । पद्मकेसरसंसृष्टः “ङ्यापोः सञ्ज्ञाछन्दसोः” इति ह्रस्वः । पद्मायाः केसरैः तत्तुल्यानुरागैः संसृष्टः, पुरुषकारभूतलक्ष्मीप्रणयप्रवृत्त इत्यर्थः । “पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने हितस्रोतोवृत्त्या भवति च कदाचित्कलुषधीः । किमेतन्निर्दोषः क इह जगतीति त्वमुचितैरुपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ " वृक्षान्तरविनिःसृतः “ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।” इति वृक्षत्वेनोक्ते संसारमण्डले प्रवृत्तः। निःश्वास इव सीतायाः “स्त्रीप्रायमितरत्सर्वम्” इति परतन्त्रतया स्त्रीतुल्यानां लोकानाम् आश्वासको धारकश्चेत्यर्थः। वाति अनवरतं प्रवहति। वायुः सार्वत्रिकः मनोहरः मानसिकसकलकल्मषहरः। (द्रविडोनिषद्व्याख्याकारैर्व्याख्यातोऽयं श्लोकः) ॥ ४।१।७२ ॥

सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि ।

पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ ४।१।७३ ॥

अथ विरजाया अर्वाक्प्रदेशवर्तिनां राजसतामससात्त्विकभेदभिन्नानां चेतनानां स्वरूपं स्वकटाक्षविषयभूतं दर्शयति सौमित्र इत्यादिना । दक्षिण इत्यनेन पम्पादक्षिणतीरं क्रमेण प्रविष्ट इत्यवगम्यते । अनेन कर्णिकारवर्णनेन सत्यलोकादिषु जृम्भमाणा राजसी वृत्तिरुच्यते । यष्टिं लताम् ॥ ४।१।७३ ॥

अधिकं शैलराजो ऽयं धातुभिः सुविभूषितः ।

विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥ ४।१।७४ ॥

अधिकमिति । अनेन ऋश्यमूकसमीपगमनं द्योतितम् । रजोवर्धकलोक उक्तः ॥ ४।१।७४ ॥

गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्रपुष्पितैः ।

निष्पत्त्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ ४।१।७५ ॥

प्रदीप्ताः ज्वलिताः ॥ ४।१।७५ ॥

पम्पातीररुहाश्चेमे संसक्ता मधुगन्दिनः ।

मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥ ४।१।७६ ॥

केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः ।

माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः ॥ ४।१।७७ ॥

चिरिबिल्वा मधूकाश्च व़ञ्जुला वकुलास्तथा ।

चम्पकास्तिलकाश्चैव नागवृक्षाः सुपुष्पिताः ॥ ४।१।७८ ॥

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः ।

पद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः ॥ ४।१।७९ ॥

लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिञ्जराः ।

अङ्कोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥ ४।१।८० ॥

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ।

मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ॥ ४।१।८१ ॥

केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः ।

शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ।

तिनिशा नक्तमालाश्च चन्दनाः स्पन्दनास्तथा ॥ ४।१।८२ ॥

पम्पेत्यादिसार्धसप्तश्लोकाः । इमे उपशोभन्त इत्यन्वयः । तदुपरि दृश्यन्त इत्यन्वयः । संसक्ताः अविरलाः । मधुगन्धिन इति सर्वविशेषणम् । लिङ्गवचनविपरिणामः कार्यः । एवं पुष्पितपदमपि । पम्पातीररुहा इमे मालत्यादयः पदार्था उपशोभन्ते इत्येकोन्वयः । मालती जातिः । मल्लिका षण्डाः मल्लिकासमूहाः । करवीराः प्रसिद्धाः । सिन्धुवाराः निर्गुण्ड्य । वासन्त्यः पीतवर्णपुष्पाः लताः । “अत्र पीतायां वासन्ती हेमपुष्पिका” इति वैजयन्ती । माधव्यः अतिमुक्तलताः । गन्धेन पूर्णाः गन्धपूर्णाः । कुन्दानां गुल्माः कक्षाः कुन्दगुल्माः । चिरिबिल्वाः नक्तमालाः । मधूकाः मधुद्रुमाख्या वृक्षाः । वञ्जुलाः वेतसाः । वकुलाः प्रसिद्धाः । तिलकाः क्षुरकाः । नागवृक्षाः नागकेसराः । नीपाः जलकदम्बाः । वरणाः वरणवृक्षाः । खर्जूराः प्रसिद्धाः । पद्मकाः पद्मपर्ण्याख्या वृक्षविशेषाः । लोध्राः शाबरवृक्षाः । सिंहकेसरपिञ्जराः सिंहकेसरवर्णा इत्यर्थः । अङ्कोलाः निकोचकाः । कुरण्टाः पूतवर्णपुष्पाः महासहाख्या गुल्माः । पूर्णकाः शाल्मलिभेदा वृक्षविशेषाः । पारिभद्रकाः निम्बाः । पाटलयः इकारान्त आर्षः । कोविदाराः युगपत्त्रकाख्या वृक्षाः । मुचुलिन्दाः नारङ्गवृक्षाः । अर्जुनाः ककुभवृक्षाः । केतकानि हेमवर्णपुष्पाणि इति पूर्वस्माद्विशेषः । उद्दालकाः श्लेष्मातकवृक्षाः । शिरीषाः कपीतनाख्या वृक्षाः । शिंशुपाः भस्मगर्भाख्या वृक्षाः । धवाः मधुराख्या वृक्षविशेषाः । कुरवकाः रक्तवर्णपुष्पा महासहाख्या गुल्माः । रक्तपदं विस्पष्टार्थम् । तिनिशाः नेमिद्रुमाः । नक्तमालाः चिरिबिल्वभेदाः । चन्दनाः प्रसिद्धाः । स्पन्दनाः वृक्षविशेषाः ॥ ४।१।७६८२ ॥

पुष्पितान् पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ।

द्रुमान् पश्येह सौमित्रे पम्पाया रुचिरान् बहून् ॥ ४।१।८३ ॥

पुष्पितानिति । पम्पायाः सम्बन्धिन इति शेषः ॥ ४।१।८३ ॥

वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान् ।

लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः ॥ ४।१।८४ ॥

वातविक्षिप्तविटपान् वायुविधूतशाखानिति तात्कालिककान्तिविशेषोक्तिः । यथासन्नान् यथा संस्प्रष्टुं शक्यते तथा आसन्नान् समीपवर्तिन इत्यर्थः । इयता ग्रन्थेन विषयान्तरप्रवणाः प्राकृताः उक्ताः ॥ ४।१।८४ ॥

पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम् ।

वाति नैकरसास्वादः सम्मोदित इवानिलः ॥ ४।१।८५ ॥

पादपात्पादपमिति । कच्छात् कच्छमित्यपि ज्ञेयम् । नैकरसास्वादः अनेकमधुरसकवलनेन सम्मोदितः सञ्जातसम्मोद इव ॥ ४।१।८५ ॥

केचित्पर्याप्तकुसुमाः पादपा मधुगन्धिनः ।

केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः ॥ ४।१।८६ ॥

केचिदिति पर्याप्तकुसुमा इत्यनेन मुकुलाल्पत्वम् । मुकुलसंवीता मुकुलैः समन्तात् वेष्टिता इत्यनेन विकसितपुष्पस्वल्पत्वं चावगम्यते । श्यामवर्णाः वृन्तवर्णेति भावः । आबभुः आभान्ति । लडर्थे लिट् ॥ ४।१।८६ ॥

इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि ।

रागमत्तो मधुकरः कुसुमेष्ववलीयते ॥ ४।१।८७ ॥

मृष्टं रम्यम् । स्वादु रसवत् । रागमत्तः अभिनवपुष्पकुतूहलाकुल इत्यर्थः । अवलीयते सक्तो भवति ॥ ४।१।८७ ॥

निलीय पुनरुत्पत्य सहसान्यत्र गच्छति ।

मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥ ४।१।८८ ॥

पुनर्मधुकरस्य चापलं दर्शयति निलीयेति । निलीय क्वचित् पुष्पे क्षणमात्रं स्थित्वा पुष्पान्तरे भूयसीमिव मधुसमृद्धिं दृष्ट्वा तत्क्षणादन्यत्र पुष्पे गच्छति । एवं सर्वत्रेति ज्ञापयितुं पम्पातीरद्रुमेष्वित्युक्तम् ॥ ४।१।८८ ॥

इयं कुसुमसङ्घातैरुपस्तीर्णा सुखाकृता ।

स्वयं निपतितैर्भूमिः शयनप्रस्तरैरिव ॥ ४।१।८९ ॥

इयं भूमिः स्वयं निपतितैः अति सुकुमारैरित्यर्थः, कुसुमसङ्घातैः उपस्तीर्णा व्याप्ता सती शयनप्रस्तरैः शयनास्तरणैरिव सुखाकृता सुखावहा कृता ॥ ४।१।८९ ॥

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ।

विकीर्णैः पीतरक्ता हि सौमित्रे प्रस्तराः कृताः ॥ ४।१।९० ॥

नगसानुषु विकीर्णैः विविधैः इतस्ततः स्वयं पतितैः पुष्पैः विविधाः प्रस्तराः कृता हीत्युत्प्रेक्षा । विविधा इत्यस्य विवरणं पीतरक्ता इति । इदमुपलक्षणम् । नानावर्णा इत्यर्थः । क्वचित्पीतवर्णचम्पकादिपुष्पाणि पतितानि हेममयपर्यङ्क इव भान्ति । क्वचिद्रक्तवर्णकर्णिकारादिपुष्पाणि पतितानि पट्टवस्त्ररचिततलिना(मा)नीव । इत्येवं नानावर्णनानाशय्या इव भान्तीति भावः ॥ ४।१।९० ॥

हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् ॥ ४।१।९१ ॥

हिमान्त इत्यर्धम् । हिमान्ते वसन्ते वृक्षाणां पुष्पसम्भवं पुष्पसमृद्धिं वक्ष्यमाणस्य सङ्क्षेपेणोक्तिः ॥ ४।१।९१ ॥

पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः ।

आह्वयन्त इवान्योन्यं नगाः षट्पदनादिताः ।

कुसुमोत्तंसविटपाः शोभन्ते बहु लक्ष्मण ॥ ४।१।९२ ॥

पुष्पेति । पुष्पमासे वसन्ते सङ्घर्षात् पुष्पिता अमी तरवः षट्पदनादिताः सन्तः परस्परमाह्वयन्त इव यूयं वयमिव न पुष्पिता इत्यन्योन्यं भृङ्गरवेण व्याजेन वदन्तीवेत्युत्प्रेक्षा । अर्धत्रयमेकान्वयम् वा । आह्वयन्त इवेत्युक्त्वा कुसुमोत्तंसविटपाः पूर्वोक्ताः तरवः बहु अधिकं शोभन्त इति ॥ ४।१।९२ ॥

एष कारण्डवः पक्षी विगाह्य सलिलं शुभम् ।

रमते कान्तया सार्धं काममुद्दीपयन् मम ॥ ४।१।९३ ॥

काममुद्दीपयन् अन्यरतिदर्शनस्य उद्दीपकत्वादिति भावः ॥ ४।१।९३ ॥

मन्दाकिन्यास्तु यदिदं रूपमेवं मनोहरम् ।

स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥ ४।१।९४ ॥

यदिदं पम्पायाः रूपम् एवं मन्दाकिन्याश्च मनोहरं रूपम् । कथमेतत्सादृश्यं तस्या इत्यत्राह स्थान इति । मनोरमाः जगति विख्याताः तस्या गुणाः स्थाने युक्ताः ॥ ४।१।९४ ॥

यदि दृश्येत सा साध्वी यदि चेह वसेमहि ।

स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ ४।१।९५ ॥

ननु परपुरुषेणापहृता कथं रतये प्रार्थ्यते? तत्राह साध्वीति । वसेमहि । “भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ " इत्युक्तवता त्वया सह वसेमेत्याशयेन बहुवचनम्। शक्राय शक्रत्वाय। ऐश्वर्यं इन्द्रत्वस्य प्राथमिकत्वात्ततोक्तम्। “रूच्यर्थानां प्रीयमाणः” इति चतुर्थी। उत्तमं पुरुषं प्रति नासत्यमुच्यत इत्याशयेन रघूत्तमेत्युक्तिः ॥ ४।१।९५ ॥

न ह्येवं रमणीयेषु शाद्वलेषु तया सह ।

रमतो मे भवेच्चिन्ता न स्पृहा ऽन्येषु वा भवेत् ॥ ४।१।९६ ॥

उक्ते ऽर्थे हेतुमाह नहीति । रमतः रममाणस्य हि यस्मात् चिन्ता न भवेत् अयोध्यायाः अलाभकृता चिन्ता न स्यात् । अन्येषु शक्रत्वादिषु रहस्यप्येवंविधमानुषत्वभावनानुरूपं वचनं योगिनो बुध्येरन्निति ॥ ४।१।९६ ॥

अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः ।

कानने ऽस्मिन् विना कान्तां चित्तमुन्मादयन्ति मे ॥ ४।१।९७ ॥

अमी इति । विना वर्तमानस्येति शेषः ॥ ४।१।९७ ॥

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।

चक्रवाकानुचरितां कारण्डवनिषेविताम् ।

प्लवैः क्रौञ्चैश्च सम्पूर्णां वराहमृगसेविताम् ॥ ४।१।९८ ॥

पश्येत्यादिसार्धश्लोकः । पुष्करैः पद्मैः आयुतां व्याप्ताम् । कारण्डवाः जलकाकाः । प्लवैः जलकुक्कुटैः । वराहेति । तीर इति शेषः ॥ ४।१।९८ ॥

अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः ॥ ४।१।९९ ॥

अधिकमित्यर्धम् । विहङ्गमैः उक्तभिन्नैः ॥ ४।१।९९ ॥

दीपयन्तीव मे कामं विविधा मुदिता द्विजाः ।

श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ ४।१।१०० ॥

स्मृत्वा वर्तमानस्येति शेषः ॥ ४।१।१०० ॥

पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् ।

मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥ ४।१।१०१ ॥

पुनस्त्वर्थः । विरहीकृतं विहरिणमित्यर्थः । मृगीभिः सहितान् मृगान् पश्य । वैदेह्या विरहीकृतं मां पुनः पश्येत्यन्वयः । एतेषु सकलत्रेषु सुखं सञ्चरत्सु ममैकस्याहो कष्टावस्थेति भावः ॥ ४।१।१०१ ॥

व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः ।

अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायुते ॥ ४।१।१०२ ॥

व्यथयन्तीति । सञ्चरन्तः मृगादय इति शेषः ॥ ४।१।१०२ ॥

पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥ ४।१।१०३ ॥

पश्येयमित्यर्धम् । ततः तदा । स्वस्ति शुभम् ॥ ४।१।१०३ ॥

जीवेयं खलु सौमित्रे मया सह सुमध्यमा ।

सेवते यदि वैदेही पम्पायाः पवनं सुखम् ॥ ४।१।१०४ ॥

जीवेयमिति । स्पष्टम् ॥ ४।१।१०४ ॥

पद्मसौगन्धिकवहं शिवं शोकविनाशनम् ।

धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥ ४।१।१०५ ॥

पद्मकह्लारगन्धवहमिति लक्षणयार्थः । धन्याः सकान्ताः । पदप्रयोजनं त्वाचार्या ऊचुः । पद्मं च सौगन्धिकं च पद्मसौगन्धिके ते वहति प्रापयतीति पद्मसौगन्धिकवहम् । अत्र पद्मसौगन्धिकयोर्वहनानुपपत्तेस्तद्गन्धो लक्ष्यते । लक्षणायाश्च प्रयोजनेन भवितव्यम् । यथा गङ्गायां घोष इत्यत्र पावनत्वादि तथात्र प्रोयजनम् । यथा पद्मस्यैव घ्राणसमीपानयने ऽपि उपरि स्थितः परिमलः शीतलो गृह्यते । नान्तः स्थित उष्णमिश्रः तथायं वायुरपि उपरिस्थशीतलपरिमलमादाय समागच्छतीत्यर्थः । यद्वा पद्मकेसरसंसृष्ट इत्यनुक्तेः पद्मसौगन्धिकोपरिवर्तिपरिमलावह इत्यर्थः ।

गुणगुणिनोरभेदविवक्षया पद्मसौगन्धिकेत्युक्तिः । उभयोक्त्या नानापुष्पग्रथितमालिकाधारिण इव नानापुष्पपरिमलं वहतीत्युच्यते । शिवं शुद्धम् । तथा चान्यासंस्पर्शितोक्त्या प्राथमिकमलयमारुत इत्युच्यते । शोकविनाशनं विरहिणो दक्षिणपवनः शोकवर्धनः नतु शोकविनाशनः । तथा च जीवतो हि शोकं कुर्यात् जीवितापायकरणेन शोकधर्म्यभावच्छोकविनाशनम् । धन्या एवंविधे मलयानिले वाति सति एकान्तस्थलमन्वेष्य शयनपराः केचन सन्ति हि सेवन्ते कदा समागमिष्यत्ययं पवन इत्यवसरप्रतीक्षा भवन्ति । सेवा ह्यवसरप्रतीक्षा । पम्पेपवनमारुतम् आकरादागताग्निमिव स्थितं समुद्रादुत्थितवडवानलमिवेत्यर्थः । (प्रत्येकश्लोकव्याख्याने ऽप्ययमेवाभिप्राय उक्तः) ॥ ४।१।१०५ ॥

श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया ।

कथं धारयति प्राणान् विवशा जनकात्मजा ॥ ४।१।१०६ ॥

श्यामेति । विवशा प्राणत्यागे ऽपि न स्वतन्त्रेत्यर्थः ॥ ४।१।१०६ ॥

किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ।

सीताया जनकं पृष्टः कुशलं जनसंसदि ॥ ४।१।१०७ ॥

किन्न्विति । सीतया सह मम कुशलं पृष्ट इत्यर्थः ॥ ४।१।१०७ ॥

या मामनुगता मन्दं पित्रा प्रव्राजितं वनम् ।

सीता सत्पथमास्थाय क्वनु सा वर्तते प्रिया ॥ ४।१।१०८ ॥

मन्दं भाग्यरहितम् । “मूढाल्पापटुनिर्भाग्या मन्दाः स्युः” इत्यमरः । सत्पथं पतिव्रतामार्गमास्थाय अनुगतेत्यन्वयः ॥ ४।१।१०८ ॥

तया विहीनः कृपणः कथं लक्ष्मण धारये ।

या मामनुगता राज्याद्भ्रष्टं विगतचेतसम् ॥ ४।१।१०९ ॥

धारये जीवामि । विगतचेतसं विकलहृदयम् ॥ ४।१।१०९ ॥

तच्चार्वञ्चितपक्ष्माक्षं सुगन्धि शुभमव्रणम् ।

अपश्यतो मुखं तस्याः सीदतीव मनो मम ॥ ४।१।११० ॥

अञ्चितपक्ष्माक्षम् अञ्चितानि पूजितानि, स्निग्धानीति यावत् । पक्ष्माणि ययोस्ते अञ्चितपक्ष्मणी अक्षिणी यस्य तत् । शुभं शोभमानम् अव्रणं निर्दोषमित्यर्थः । व्रमकिणरहितं वा ॥ ४।१।११० ॥

स्मितहास्यान्तरयुतं गुणवन्मधुरं हितम् ।

वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥ ४।१।१११ ॥

स्मितेति । स्मितहास्यान्तरयुतम् “कान्तस्मिता लक्ष्मण जातहासा” इत्युक्तरीत्या स्मितेन नैसर्गिकस्मितेन हास्यान्तरेण आगन्तुकहास्येन च युक्तं गुणवत् स्ववचनापेक्षया उत्कर्षवत् मधुरं हितं प्रियहितम् अतुलम् “प्रियवादि च भूतानाम्” इत्युक्तरामवचनमप्यस्य न सदृशमित्यर्थः । संसारादुत्तीर्णस्य चेतनस्य “एतत्साम गायन्नास्ते” इत्युक्तसामध्वनिं कदा श्रोष्यामीति व्यञ्जयति ॥ ४।१।१११ ॥

प्राप्य दुःखं वने श्यामा सा मां मन्मथकर्शितम् ।

नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥ ४।१।११२ ॥

स्वयं दुःखं प्राप्य स्थितापि स्वदुःखमप्रकाशयन्ती हर्षं भावयन्ती साधु मन्मथार्तिनिवर्तकं वचनमभ्यभाषत । पूर्वमिति शेषः । अनादिकालं मम कैङ्कर्ययोग्यो जीव इत्यर्थः ॥ ४।१।११२ ॥

किन्नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज ।

क्व सा स्नुषेति पृच्छन्तीं कथं चातिमनस्विनीम् ॥ ४।१।११३ ॥

सा स्नुषा क्व कथं कीदृक्प्रकारेति पृच्छन्तीं कौसल्यां किं वक्ष्यामि । अतिमनस्विनीमित्यनेन यथार्थं वक्ष्यामि चेत्तदानीमेव वात्सल्यातिशयान्नश्येदित्युच्यते ॥ ४।१।११३ ॥

गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम् ।

नह्यहं जीवितुं शक्तस्तामृते जनकात्मजाम् ॥ ४।१।११४ ॥

किमत्र युक्तं तत्राह गच्छेति । ऋते विना ॥ ४।१।११४ ॥

[ इति रामस्तु विलपन् हतनौरिव सागरे ।

न ददर्श तदा पारं शोकस्य पुरुषर्षभ ॥ ]

इति रामं महात्मानं विलपन्तमनाथवत् ।

उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥ ४।१।११५ ॥

इतीति । अव्ययं युक्तिभिरविनाश्यम् ॥ ४।१।११५ ॥

संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम ।

नेदृशानां मतिर्मन्दा भवत्यकलुषात्मनाम् ॥ ४।१।११६ ॥

संस्तम्भ संस्तम्भस्व, धैर्यमवलम्बस्वेत्यर्थः । अकलुषात्मनां सधैर्यहृदयानामीदृशानां त्वादृशानां मन्दा अल्पा कलुषितेत्यर्थः ॥ ४।१।११६ ॥

स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने ।

अतिस्नेहपरिष्वङ्गाद्वर्तिरार्द्रापि दह्यते ॥ ४।१।११७ ॥

वियोगजं दुःखं भवतीत्येतल्लोकवृत्तं स्मृत्वा तद्धेतुभूतं प्रियजनविषयातिस्नेहं त्यजेत्यर्थः । तत्र श्लेषगर्भमर्थान्तरं न्यस्यति अतीति । स्नेहः प्रीतिः तैलं च । अतः वात्सल्यप्रवृत्तिं विहाय चेतनसन्तरणोपायं चिन्तयेत्यर्थः ॥ ४।१।११७ ॥

यदि गच्छति पातालं ततो ह्यधिकमेव वा ।

सर्वथा रावणस्तावन्न भविष्यति राघव ॥ ४।१।११८ ॥

न भविष्यति विनशिष्यतीत्यर्थः ॥ ४।१।११८ ॥

प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः ।

ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ ४।१।११९ ॥

प्रवृत्तिर्वार्ता ॥ ४।१।११९ ॥

यदि यात्यदितेर्गर्भं रावणः सह सीतया ।

तत्राप्येनं हनिष्यामि न चेद्धास्यति मैथिलीम् ॥ ४।१।१२० ॥

अदितेः इन्द्रस्य मातुः ॥ ४।१।१२० ॥

स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः ।

अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते ॥ ४।१।१२१ ॥

स्वास्थ्यं धैर्यम् । नष्टकार्यार्थैः नष्टकार्यरूपप्रयोजनैः पुरुषैः अयत्नेन यत्नाभावेन ॥ ४।१।१२१ ॥

उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।

सोत्साहस्यास्ति लोके ऽस्मिन् न किञ्चिदपि दुर्लभम् ॥ ४।१।१२२ ॥

उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ।

उत्साहमात्रमाश्रित्य सीतां प्रति लभेमहि ॥ ४।१।१२३ ॥

अतो यत्नः कर्तव्य इत्याह द्वाभ्याम् अत्साह इत्यादिभ्याम् ॥ ४।१।१२२,१२३ ॥

त्यज्यतां कामवृत्तत्वं शोकं सन्न्यस्य पृष्ठतः ।

महात्मानं कृतात्मानमात्मानं नावबुद्ध्यसे ॥ ४।१।१२४ ॥

कामे वृत्तो व्यापारो यस्य स तथा तस्य भावस्तत्त्वम् । पृष्ठतः सन्न्यस्य तिरस्कृत्येत्यर्थः । आत्मानं कृतात्मानं शिक्षितमनस्कं महात्मानं महाधैर्यं नावबुद्ध्यसे तस्मात्त्यज्यतामित्यन्वयः । किं वात्सल्येन तप्यसे । “साधुकारी साधुर्भवति पापकारी पापी भवति” इति भवद्भिरेव कृतां शास्त्रमर्यादां किं नावबुद्ध्यस इत्यर्थः ॥ ४।१।१२४ ॥

एवं सम्बोधितस्तत्र शोकोपहतचेतनः ।

न्यस्य शोकं च मोहं च ततो धैर्यमुपागमत् ॥ ४।१।१२५ ॥

एवमिति । अत्र शोकमोहशब्दाभ्यां दयावात्सल्ये उच्येते । तयोस्त्यागो नाम शास्त्रमर्यादानुसारेण चेतनरक्षणोद्योगः ॥ ४।१।१२५ ॥

सो ऽभ्यतिक्रामदव्यग्रस्तामचिन्त्यपराक्रमः ।

रामः पम्पां सुरुचिरां रम्यपारिप्लवद्रुमाम् ॥ ४।१।१२६ ॥

अभ्यतिक्रामत् अनित्यत्वादडभावः । पारिल्पवद्रुमां चञ्चलद्रुमाम् । अनेन भगवतः संसारिमण्लाभिमुख्यं सूचितम् ॥ ४।१।१२६ ॥

निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरांश्च ।

उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ ४।१।१२७ ॥

सर्गार्थं पुनः सङ्ग्रहेण दर्शयति द्वाभ्याम् निरीक्षमाण इति । विचार्य सीतामन्विष्येत्यर्थः ॥ ४।१।१२७ ॥

तं मत्तमातङ्गविलासगामी गच्छन्तमव्यग्रमना महात्मा ।

स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव ॥ ४।१।१२८ ॥

मत्तगजवत् विलासेन गन्तुं शीलमस्यास्तीति तथा । अनेन वनदुर्गप्रदेशे ऽपि निर्भयसञ्चारित्वमुच्यते । अव्यग्रमनाः अचञ्चलचितः, अप्रकम्प्यरामविषयप्रेमभार इत्यर्थः । महात्मा अप्रच्युतधैर्यः अप्रमत्तः गमनसौन्दर्यानुभवेप्यसक्तः सः “रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ।” इति सुमित्रया सन्दिष्टः लक्ष्मणः कैङ्कर्यलक्ष्मीयुक्तः तं सीतवियोगार्तं गच्छन्तं “मत्तमातङ्गगामिनम्” इत्युक्तरीत्या गमनचारुतया सर्वान् वशीकुर्वन्तं राघवं धर्मेण संस्तम्भेत्यादिराजनीतिकथनेन बलेन “तत्राप्येनं हनिष्यामि” इति स्वबलकथनेन च ररक्ष निर्दुःखमकरोत् ॥ ४।१।१२८ ॥

तावृश्यमूकस्य समीपचारी चरन् ददर्शाद्भुतदर्शनीयौ ।

शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किञ्चित् ॥ ४।१।१२९ ॥

अथ सीताप्राप्तिबीजमुपक्षिपति ताविति । ऋश्यमूकस्य ऋश्यमूकाख्यपर्वतस्य समीपचारी समीपसञ्चरणशीलः वालिभयादिति शेषः, चरन् कदाचित्पम्पोपान्ते पर्यटन् अद्भुतं यथा भवति तथा दर्शनीयौ शाखामृगाणां वानराणाम् अधिपः सुग्रीवः तरस्वी बलवान् वितत्रसे तत्रास । व्यत्ययेनात्मनेपदम् । भीतो ऽभूत् । न चिचेष्ट न चिचेष्टे । व्यत्ययेन परस्मैपदम् । स्तब्धो ऽभूदित्यर्थः ॥ ४।१।१२९ ॥

स तौ महात्मा गजमन्दगामी शाखामृगस्तत्र चिरं चरन्तौ ।

दृष्ट्वा विषादं परमं जगाम चिन्तापरीतो भयभारमग्नः ॥ ४।१।१३० ॥

तत्र पम्पावने विषादचिन्ताभयहेतव उत्तरसर्गे व्यक्तीभविष्यन्ति ॥ ४।१।१३० ॥

तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितान्तम् ।

त्रस्ताश्च दृष्ट्वा हरयोभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥ ४।१।१३१ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे प्रथमः सर्गः ॥ १ ॥

न केवलं सुग्रव एव त्रस्तः, तत्सचिवा अपीत्याह तमिति । आश्रमं मतङ्गाश्रमं पुण्यं धर्मवर्धकं सुखं सुखकरं शरण्यं मुनिजनवासयोग्यं सदैव वानरसेवितान्तं वानरसेवितमध्यमिति दुष्प्रवेशत्वोक्तिः, तौ दृष्ट्वा हरयः वानराः वित्रस्ताः मुनिवेषेण वालिप्रेरितौ समागताविति शङ्क्येति भावः । हरयः तौ दृष्ट्वा त्रस्ताः सन्तः आश्रममभिजग्मुरित्यन्वयः । अस्मिन् सर्गे सार्धत्रिंशदुत्तरशतश्लोकाः ॥ ४।१।१३१ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने प्रथमः सर्गः ॥ १ ॥