तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ।
प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ ३।७४।१ ॥
एवमेतावत्पर्यन्तं भगवत्कैङ्कर्यतत्फले दर्शिते । अथाचार्याभिमाननिष्ठातत्फले दर्शयति चतुःसप्ततितमे तावित्यादि । प्रतीचीं दिशं गृह्य गृहीत्वा कबन्धेन दर्शितं पम्पाया मार्गमुद्दिश्य प्रतस्थतुः प्रतस्थाते ॥ ३।७४।१ ॥
तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान् ।
वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ ३।७४।२ ॥
शैलेष्वाचितान् प्ररूढान् अनेकांश्च क्षौद्रकल्पफलान् मधुतुल्यफलयुक्तान् वीक्षन्तौ वीक्षमाणौ ॥ ३।७४।२ ॥
कृत्वा च शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ ।
पम्पायाः पश्चिमं तीरं राघवावुपतस्थस्तुः ॥ ३।७४।३ ॥
कृत्वा चेति । वासं तस्यां रात्र्यामिति शेषः । उपतस्थतुः उपतस्थाते, प्रापतुरित्यर्थः । रात्र्यन्त इति शेषः ॥ ३।७४।३ ॥
तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ ३।७४।४ ॥
तौ पुष्करिण्या इति । स्पष्टम् ॥ ३।७४।४ ॥
तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।
सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ ३।७४।५ ॥
ताविति । आश्रममासाद्य तमभिवीक्षन्तौ अभिवीक्षमाणौ ॥ ३।७४।५ ॥
तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्चलिः ।
रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ।
पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि ॥ ३।७४।६ ॥
तौ चेति सार्धश्लोक एकान्वयः । सिद्धा सिद्धयोगा ॥ ३।७४।६ ॥
तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।
कच्चित्ते निर्जिता विघ्नाः कच्चिते वर्धते तपः ॥ ३।७४।७ ॥
कच्चित्ते नियतः क्रोध आहारश्च तपोधने ।
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ॥ ३।७४।८ ॥
कच्चिते गुरुशुश्रूषा सफला चारुभाषिणि ॥ ३।७४।९ ॥
विघ्नाः तपोविघ्नाः कामादयः । नियतः निगृहीतः । आहारश्चेत्यत्रापि नियत इत्यनुषज्यते । “तपो नानशनात्परम्” इति श्रुतेः । नियमाः व्रतानि । मनसः सुखं मनस्सन्तोषः । चारुभाषिणीति साध्वीसम्बोधनप्रकारः । इति तामुवाचेति सम्बन्धः ॥ ३।७४।७९ ॥
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता ।
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥ ३।७४।१० ॥
रामेणेति । रामाय प्रत्युपस्थितेति तादर्थ्ये चतुर्थी ॥ ३।७४।१० ॥
अद्य प्राप्ता तपःसिद्धिस्तव सन्दर्शनान्मया ।
अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः । ३।७४।११ ॥
तपः सिद्धिः तपःपरिपाकः । तप्तं तपः ॥ ३।७४।११ ॥
अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति ।
त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ ३।७४।१२ ॥
अद्य म इति । अद्येत्यस्यार्थं विवृणोति त्वयीति । देववरे विष्णौ । अनेन शबर्याः परमार्थज्ञानं वृत्तमिति सूच्यते ॥ ३।७४।१२ ॥
चक्षुषा तव सौम्येन पूता ऽस्मि रघुनन्दन ।
गमिष्याम्यक्षयान् लोकांस्त्वत्प्रसादादरिन्दम ॥ ३।७४।१३ ॥
एवमुपचारवादानुक्त्वा स्वप्रयोजनमाह चक्षुषेति । ते सौम्येन चुक्षुषा निर्हेतुककटाक्षेण पूता ऽस्मि अनेन पूर्वाघविनाश उक्तः । अरिन्दमेत्यनेन उत्तराघाश्लेष उच्यते । त्वत्प्रसादात् “धातुः प्रसादान्महिमानमात्मनः” इत्युक्तत्वादाचार्यप्रसादोपबृंहितात्त्वत्प्रसादात् । अक्षयान् लोकान् गमिष्यामि पुनरावृत्तिरहितं परमपदं प्राप्स्यामीत्यर्थः ॥ ३।७४।१३ ॥
चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।
इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ ३।७४।१४ ॥
तर्हि त्वदाचार्यैरेव सह किमर्थं न गता ऽसीत्यत्राह चित्रकूटमिति । ते मतङ्गशिष्या मदाचार्याः ॥ ३।७४।१४ ॥
तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः ।
आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ ३।७४।१५ ॥
स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः ।
तं च दृष्ट्वा वरान् लोकानक्षयांस्त्वं गमिष्यसि ॥ ३।७४।१६ ॥
तैरिति । धर्मज्ञैः योगरूपभागवत्प्राप्त्युपायाभावेप्याचार्यप्रसादकृतभगवत्प्रसादात् सद्गतिमियं प्राप्स्यतीत्येतद्धर्मज्ञैः महाभागैः भविष्यत्तद्वृत्तान्तज्ञानोचितभाग्यवद्भिः । सुपुण्यमित्यागमनार्हत्वमुच्यते । स इति । प्रतिग्रहीतव्यः आतिथ्यकरणेन सत्करणीयः । दृष्ट्वा तेन दर्शनेन निमित्तेन अक्षयान् लोकान् गमिष्यसि । वरानिति कैवल्यव्यावृत्तिः । गमिष्यसीति तैरहमुक्तेत्यन्वयः । अनेन आचार्यशुश्रूषणं भगवत्प्रसादद्वारा मोक्षहेतुरित्युक्तं भवति ॥ ३।७४।१५,१६ ॥
मया तु विविधं वन्यं सञ्चितं पुरुषर्षभ ।
तवार्थे पुरुषव्याघ्र पम्पायास्तीरसम्भवम् ॥ ३।७४।१७ ॥
आचार्योक्तिश्रद्धामात्मनः सूचयति मया त्विति । तीरसम्भवं विविधं वन्यं सञ्चितम् । वन्यशब्देन फलमूलादिकमुच्यते । विविधमित्यनेन फलमूलादिभेद उच्यते । सञ्चितमित्यनेन रामस्य चित्रकूटागमनात् प्रभृति सम्पादितत्वम् आदरेण गुप्तत्वं च तत्तत्फलजातीयमाधुर्यं परीक्ष्य स्थापितमिति सम्प्रदायः ॥ ३।७४।१७ ॥
एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ।
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ॥ ३।७४।१८ ॥
विज्ञाने विषये । अबहिष्कृताम् अन्तरङ्गभूताम् । जात्या हीनामप्याचार्यप्रसादलब्धब्रह्मज्ञानामिति भगवताप्यादरणीयत्वोक्तिः ॥ ३।७४।१८ ॥
दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः ।
श्रुतं प्रत्यक्षमिच्छामि सन्द्रष्टुं यदि मन्यसे ॥ ३।७४।१९ ॥
दनोः सकाशात् दनुत इत्यर्थः । पञ्चम्यर्थे सकाशशब्दं प्रयुञ्जते । तत्वेन याथार्थ्येन । ते महात्मनः त्वत्सम्बन्धिनो महात्मनः मतङ्गस्येत्यर्थः । महात्मनामिति पाठे त्वदाचार्याणामित्यर्थः । श्रुतं प्रभावं प्रत्यक्षं सन्द्रष्टुमिच्छामि । यदि मन्यसे दर्शयितुमिति शेषः ॥ ३।७४।१९ ॥
एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम् ।
शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ ३।७४।२० ॥
एवत्त्विति । विनिस्सृतं निर्गतम् ॥ ३।७४।२० ॥
पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ।
मतङ्गवनमित्येव विश्रुतं रघुनन्दन ॥ ३।७४।२१ ॥
मेघघनप्रख्यं घनमेघसदृसं विश्रुतं वनमिति शेषः ॥ ३।७४।२१ ॥
इह ते भावितात्मानो गुरवो मे महाद्युते ।
जुहवाञ्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम् ॥ ३।७४।२२ ॥
भावितात्मानः चिन्तितात्मानः ते प्रसिद्धाः मे गुरवः । मन्त्रवन्मन्त्रपूजितं मन्त्रवतां मन्त्रैः पूजितं तीर्थं गङ्गादिपुण्यसलिलम् । इह प्रदेशे जुहवाञ्चक्रिरे आहूतवन्तः । महाद्युते इत्यनेन मुनिप्रभावश्रवणे सन्तोषवत्त्वं व्यज्यते ॥ ३।७४।२२ ॥
इयं प्रत्यक्स्थली वेदिर्यत्र ते मे सुसत्कृताः ।
पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ ३।७४।२३ ॥
प्रत्यक्स्थली प्रत्यक्प्रदशे स्थलीभूता । प्राक्प्रदेशे पश्चिमाभिमुखविष्णुस्थानत्वेन प्रत्यङ्निम्नेत्यर्थः । वेदिः देवपूजास्थानम् । इयम् अवलोक्यतामिति शेषः । यत्र वेद्यां मे मया सुसत्कृतास्ते गुरवः श्रमात् वृद्धताकृतया पुष्पधारणाशक्त्या उद्वेपिभिः उत्कम्पिभिः करैः पुष्पोपहारं पुष्पैरर्चनं कुर्वन्ति अकुर्वन् । अत्र वेदिरिति जात्येकवचनम् । उत्तरश्लोके बहुवचनप्रयोगात् बहूनां बहुवेदिसम्भवाच्च ॥ ३।७४।२३ ॥
तेषां तपःप्रभावेन पश्याद्यापि रघूद्वह ।
द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः ॥ ३।७४।२४ ॥
तेषाम् अस्मदाचार्याणाम् । प्रभावेन अतुलप्रभाः इमाः वेद्यः अद्यापि तेषामसन्निधाने ऽपि सर्वा दिशः द्योतयन्ति प्रकाशयन्ति । अनेन आचार्याभिमतो देशस्तदसन्निधानेप्युद्देश्य इत्युक्तम् ॥ ३।७४।२४ ॥
अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ।
चिन्तिते ऽभ्यागतान् पश्य सहितान् सप्त सागरान् ॥ ३।७४।२५ ॥
पुनर्वैभवान्तरमाह अशक्नुवद्भिरिति । उपवासश्रमेण अलसैः मन्दैः अत एव सप्त सागरान् गन्तुमशक्नुवद्भिः मे गुरुभिः चिन्तिते चिन्तितमात्रे अभ्यागतान् अभिमुखमागतान् सप्त सागरान् पश्य ॥ ३।७४।२५ ॥
कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ।
अद्यापि नावशुष्यन्ति प्रदेशे रघुनन्दन ॥ ३।७४।२६ ॥
अद्भुतान्तरमाह कृतेति । इह प्रदेशे सागरप्रदेशे कृताभिषेकैः कृतस्नानैः तैर्गुरुभिः पादपेषु न्यस्ताः आर्द्रवल्कलाः अद्यापि नावशुष्यन्ति न शुष्का भवन्ति । तदङ्गसम्पर्कवैभवादिति भावः ॥ ३।७४।२६ ॥
देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै ।
पुष्पैः कुवलयैः सार्धं म्लानत्वं नोपयान्ति वै ॥ ३।७४।२७ ॥
देवकार्याणि देवार्चनानि कुर्वद्भिः तैः कुवलयैः सह पुष्पैः पुष्पान्तरैः यानीमानि माल्यानि कृतानि तानि म्लानत्वं नोपयान्ति भक्त्यतिशयेन समर्पितत्वादिति भावः । एतावता ग्रन्थसन्दर्भेण “गुरुं प्रकाशयेद्धीमान्” इत्युक्तरीत्या आचार्यवैभवप्रकटनं कर्तव्यमिति सूचितम् ॥ ३।७४।२७ ॥
कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।
तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत् कलेवरम् ॥ ३।७४।२८ ॥
उपलसंहरति कृत्स्नमिति । अभ्यनुज्ञाता त्वयेति शेषः ॥ ३।७४।२८ ॥
तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम् ।
मुनीनामाश्रमो येषामहं च परिचारिणी ॥ ३।७४।२९ ॥
त्यक्त्वा किं करिष्यसीत्यत्राह तेषामिति । समीपं पादमूलं गमिष्यामि यानहं पर्यचारिषमित्यन्यत्रोक्तेः । आश्रमः अयमिति शेषः । येषामाश्रमो ऽयं येषामहं च परिचारिणी तेषां समीपं गन्तुमिच्छामीति सम्बन्धः ॥ ३।७४।२९ ॥
धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः ।
प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ॥ ३।७४।३० ॥
धर्मिष्ठमिति । वचः आचार्यवैभवप्रदर्शनादिरूपम् । तत्त्वतः मायां विना आश्चर्यमिति मत्वा ॥ ३।७४।३० ॥
तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।
अर्चितो ऽहं त्वया भक्त्या गच्छ कामं यथासुखम् ॥ ३।७४।३१ ॥
अथ शबरीमनोरथं पूरयति तामिति । संशितव्रताम् आचार्यपरिचर्यानिष्ठामित्यर्थः । अर्चितः तव गुरुवृत्तिसन्दर्शनेनैवेति शेषः । भक्त्या वन्यसम्पादनमात्रेण वा, अयमेवार्थः सङ्क्षेपे “शबर्या पूजितः सम्यक्” इत्युक्तः । कामं काम्यमानं लोकम् ॥ ३।७४।३१ ॥
इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा ।
तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती ॥ ३।७४।३२ ॥
अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।
ज्वलत्पावसङ्काशा स्वर्गमेव जागम सा ॥ ३।७४।३३ ॥
इतीति । श्लोकद्वयमेकान्वयम् । जिहासती हातुमिच्छन्ती । स्वर्गमेवेत्यवधानं द्योतयति ॥ ३।७४।३२,३३ ॥
दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ।
दिव्याम्बरधरा तत्र बभूव प्रियदर्शना ।
विराजयन्ती तं देशं विद्युत्सौदामिनी यथा ॥ ३।७४।३४ ॥
दिव्येति सार्धश्लोकः । तत्र स्वर्गगमनारम्भे विद्युत् विशेषेण द्योतमाना सौदामिनी तडित् ॥ ३।७४।३४ ॥
यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ।
तत्पुण्यं शबरीस्थानं जगमात्मसमाधिना ॥ ३।७४।३५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
ते गुरवः सुकृतात्मानः सुकृतधैर्यवन्तः । आत्मसमाधिना आत्मविषययोगेन । एतत्सर्गवृत्तान्तेन मतङ्गशिष्योपदिष्टसमाधिका शबरी गुर्वनुज्ञया रामागमनपर्यन्तं स्थित्वा ततो रामानुज्ञया स्वसमाधिबलेन स्वगुरुगतं स्वर्गविशेषं प्राप्तेत्यवगम्यते । स्त्रिया अपि विदुरादेरिव योगाधिकारः सम्भवति तदङ्गयज्ञादिकर्मस्थाने गुरुशुश्रूषा । स्वर्गश्च आदौ अक्षयानित्युक्त्या पुनरावृत्तिरहितं परमपदमित्यवगम्यते । “एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इति श्रुत्या केवलस्वर्गस्य क्षयित्वावगमात् । अस्मिन् सर्गे सार्धपञ्चत्रिंशच्छ्लोकाः ॥ ३।७४।३५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥ ७४ ॥