०७० राम-कबन्धयुद्धम्

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।

बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ ३।७०।१ ॥

अथ कबन्धस्य बाहुच्छेदेन पूर्वजन्मस्मृतिरुच्यते सप्ततितमे तौ त्वित्यादि । परिक्षिप्तौ परिवेष्टितौ ॥ ३।७०।१ ॥

तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्ित्रयर्षभौ ।

आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ॥ ३।७०।२ ॥

तिष्ठत इति । क्षुधार्तं मां दृष्ट्वा भीतौ किन्नु तिष्ठतः व्यर्थमेव न तु जीवितापत्परिहार इत्यर्थः । यतो गतचेतसौ युवां मे दैवेनाहारार्थं सन्दिष्टौ ॥ ३।७०।२ ॥

तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।

उवाचार्तिं समापन्नो विक्रमे कृतलक्षणः ॥ ३।७०।३ ॥

तच्छ्रुत्वेति । कृतलक्षणः कृतोद्योगः ॥ ३।७०।३ ॥

त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।

तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ॥ ३।७०।४ ॥

त्वां चेति । पुरा आदत्ते आदास्यतीत्यर्थः ॥ ३।७०।४ ॥

भीषणो ऽयं महाकायो राक्षसो भुजविक्रमः ।

लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥ ३।७०।५ ॥

भीषण इति । भुजयोरेव विक्रमो यस्य स तथा । लोकं जनम् । अतिजितम् अत्यन्तजितम् ॥ ३।७०।५ ॥

निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः ।

क्रतुमध्योपनीतानां पशूनामिव राघव ॥ ३।७०।६ ॥

भुजच्छेदनमात्रं कर्तव्यं न तु मारणमित्याह निश्चेष्टानामिति । निश्चेष्टानां प्रतीकाराशक्तानाम् । जगतीपतेः क्षत्ित्रयस्य । क्रतुमध्योपनीतानां निश्चेष्टानामित्यस्मिन्नर्थे प्रयुक्तम् । “पर्यग्निकृतानारण्यानुत्सृजन्त्यहिंसायै” इत्युक्तरीत्या अश्वमेधक्रतावुपनीतानामारण्यपशूनां वधः कुत्सित एव ॥ ३।७०।६ ॥

एतत्सञ्जल्पितं श्रुत्वा तयोः क्रद्धस्तु राक्षसः ।

विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ ३।७०।७ ॥

तयोरेतत् सञ्जल्पितं श्रुत्वा भक्षयितुमारभत्, हस्ताभ्यामाकृष्टवानित्यर्थः ॥ ३।७०।७ ॥

ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।

अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥ ३।७०।८ ॥

सुसंहृष्टौ कदलीकाण्डवत् सुखच्छेदनादिति भावः ॥ ३।७०।८ ॥

दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ।

चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ ३।७०।९ ॥

दक्षिणः समर्थः । असक्तम् अप्रतिबन्धं यथा भवति तथा । रामस्य दक्षिणपार्श्वे गमनं लक्ष्मणस्य, अत उभयोर्दक्षिणसव्यपार्श्वप्राप्तिः ॥ ३।७०।९ ॥

स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।

खं च गां च दिशश्चैव नादयन् जलदो यथा ॥ ३।७०।१० ॥

गां भूमिम् ॥ ३।७०।१० ॥

स निकृत्तौ भूजौ दृष्ट्वा शोणितौघपरिप्लुतः ।

दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ ३।७०।११ ॥

निकृत्ताविति । पूर्वमदत्तोत्तरत्वात् पुनः प्रश्नः ॥ ३।७०।११ ॥

इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ।

शशंस राघवं तस्य कबन्धस्य महात्मनः ॥ ३।७०।१२ ॥

इतीति । क्रियाभेदात् पुनस्तच्छब्दः ॥ ३।७०।१२ ॥

अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ।

अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ ३।७०।१३ ॥

इक्ष्वाकुदायादः दशरथपुत्रः । “दायादौ सुतबान्धवौ” इत्यमरः ॥ ३।७०।१३ ॥

[ मात्रा प्रतिहृते राज्ये रामः प्रव्राजितो वनम् ।

मया सह चरत्येष भार्यया च महद्वनम् ॥ ]

अस्य देवप्रभावस्य वसतो विजने वने ।

रक्षसा ऽपहृता पत्नी यामिच्छन्ताविहागतौ ॥ ३।७०।१४ ॥

इच्छन्तौ अन्वेषमाणावित्यर्थः ॥ ३।७०।१४ ॥

त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।

आस्येनोरसि दीप्तेन भग्नजङ्घो विवेष्टसे ॥ ३।७०।१५ ॥

त्वं त्विति । विवेष्टसे लुठसीति यावत् ॥ ३।७०।१५ ॥

एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।

उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥ ३।७०।१६ ॥

प्रीतः शापमोक्षकालप्रत्यभिज्ञानात् । तदिन्द्रवचनम् उत्तरसर्गप्रतिपाद्यम् ॥ ३।७०।१६ ॥

स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।

दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ ३।७०।१७ ॥

बाह्वोर्बन्धनं ययोस्तौ बाहुबन्धनौ अंसावित्यर्थः ॥ ३।७०।१७ ॥

विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा ।

तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ॥ ३।७०।१८ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

विरूपं विषमरूपं यथा येन प्रकारेण प्राप्तं तत्कारणं तत्त्वतस्तव शंसतो मे सकाशाच्छृणु । अस्मिन् सर्गे अष्टादश श्लोकाः ॥ ३।७०।१८ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥