तं तथा शोकसन्तप्तं विलपन्तमनाथवत् ।
मोहेन महाताविष्टं परिद्यूनमचेतनम् ॥ ३।६६।१ ॥
ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्णः ।
रामं सम्बोधयामास चरणै चाभिपीडयन् ॥ ३।६६।२ ॥
एवं लक्ष्मणो राममाश्वास्य पुनर्वक्तव्यांशं ज्ञापयति षट्षष्टितमे तं तथेत्यादिश्लोकद्वयमेकान्वयम् । परिद्यूनं परिदेवनं प्राप्तम्, परिशोचन्तमित्यर्थः । “च्छ्वोः शूडनुनासिके च” इत्यूठ् । “दिवो ऽविजिगीषायाम्” इति निष्ठानत्वम् । अचेतनम् अस्वस्थचित्तम् । सम्बोधयामास ज्ञापयामास । अभिपीडयन् उपसङ्गृह्णन् ॥ ३।६६।१,२ ॥
महता तपसा राम महता चापि कर्मणा ।
राज्ञा दशरथेनासि लब्धो ऽमृतमिवामरैः ॥ ३।६६।३ ॥
महता तपसा कायक्लेशेन व्रतोपवासादिना । महता चापि कर्मणा अश्वमेधपुत्रकामेष्टिप्रभृतिकर्मणा । राज्ञा दशरथेन “राजा लोकस्य रञ्जनात्” अनेन मन्त्रद्रव्यक्रियालोपाभावेनाधिकारिणा कृतत्वमुच्यते । अमृतमिव तद्वत् भोग्यत्वं यत्नसाध्वत्वं चोत्यते । अमरैः अनेकसुरकृतयत्नः एकेन कृत इति गम्यते ॥ ३।६६।३ ॥
तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः ।
राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ॥ ३।६६।४ ॥
तवेति । एवकारेण इतरपुत्रव्यावृत्तिः । तवैव गुणैर्बद्धः त्वद्गुणैकपरवशः महीपतिः राजा न तु जातिमात्रेण राजा देवत्वमापन्नः । तत्र किं प्रमाणं तत्राह भरतस्येति । भरतादित्यर्थः । पञ्चम्यर्थे षष्ठी । तथैव मयोक्तमिति शेषः ॥ ३।६६।४ ॥
यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे ।
प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिश्यति ॥ ३।६६।५ ॥
काकुत्स्थेत्यनेनाप्राकृतत्वं महासत्त्वत्वं च सिद्धम् । सहिष्यति सहिष्यते ॥ ३।६६।५ ॥
दुःखितो हि भवान् लोकांस्तेजसा यदि धक्ष्यते ।
आर्ताः प्रजा नरव्याघ्र क्वनु यास्यन्ति निर्वृतिम् ॥ ३।६६।६ ॥
धक्ष्यते धक्ष्यति ॥ ३।६६।६ ॥
[आश्वासिहि नरश्रेष्ठ प्राणिनः कस्य नापदः ।
संस्पृशन्त्यग्निवद्राजन् क्षणेन व्यपयान्ति च ॥ ]
लोकस्वभाव एवैष ययातिर्नहुषात्मजः ।
गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत् ॥ ३।६६।७ ॥
प्रसङ्गात् दैविकावर्थानर्थावन्ये महान्तो ऽपि प्राप्नुवन्तीति दृष्टान्तमुखेन प्रतिपादयितुमाह लोकस्वभाव इत्यादिना । एष लोकस्वभाव इति वक्ष्यमाणेषु सर्वत्र योज्यम् । अनयः अनयमूलं दुःखमित्यर्थः । तमः अज्ञानं स्पृशन् अस्पृशत् । स हि स्वर्गगतो ऽपि इन्द्रेणासूयाकलुषेण भवद्राज्ये को वा श्रेष्ठ इति पृष्टः सत्यवादितया ऽहमेवेत्युक्तवान् । इन्देणात्मश्लाघी त्वं न स्वर्गार्ह इति पातित इति पुराणप्रसिद्धिः । नहुषात्मज इत्यनेन नहुषानीतिरपि व्यज्यते । स च सप्तर्षीन् स्ववाहकान् शचीस्मरणेन सर्प सर्प इत्युक्तवान् सर्पो भवेत्यगस्त्यशप्तश्चिरं तथाभूतस्तस्थौ ॥ ३।६६।७ ॥
महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः ।
अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥ ३।६६।८ ॥
अह्ना पुत्रशतं हतम्, विश्वामित्रकोपेन युगपत्पुत्रशतनाशदुःखमनुभूतमिति भावः ॥ ३।६६।८ ॥
या चेयं जगतां माता देवी लोकनमस्कृता ।
अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव ॥ ३।६६।९ ॥
माता सर्वोपादानत्वात् । देवी देवस्य विष्णोः पत्नी अत एव लोकनमस्कृता । सत्यसंश्रवेति त्वयैव हि पूर्वं मह्यमेवमुपदिष्टमिति भावः ॥ ३।६६।९ ॥
यौ धर्मौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।
आदित्यचन्दौ ग्रहणमभ्युपेतौ महाबलौ ॥ ३।६६।१० ॥
धर्मौ धर्मप्रवर्तकौ सर्वधर्मसाक्षित्वात् । नेत्रौ नेतारौ कालपरिच्छेदादिमुखेन जगतः प्रवर्तकौ ।
“नेत्रो नेतरि भेद्यवान्” इति विश्वः । सर्वेषामर्थप्रकाशकत्वेन नेत्रभूतौ वा । लिङ्गव्यत्ययश्छान्दसः । यत्र ययोः सर्वं जगत् प्रतिष्ठितं यदधीनस्वरूपस्थितिप्रवृत्तिकाः सर्वे जना इत्यर्थः । सूर्यस्य वर्षहेतुत्वात् चन्द्रस्यौषधिहेतुत्वाच्चेति भावः । “आदित्याज्जयते वृष्टिस्ततो ऽन्नमभिजायते ।” इति वचनात् । ग्रहणं राहुकेतुभ्यां ग्रासम् ॥ ३।६६।१० ॥
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ ।
न दैवस्य प्रमुञ्चन्ति सर्वभूतादिदेहिनः ॥ ३।६६।११ ॥
किं बहुना सङ्ग्रहेणोच्यत इत्याह सुमहान्तीति । सुमहान्ति भूतानि मान्धातृनलप्रभृतिमहाजना अपि । सर्वभूतादिदेहिनः सर्वभूतानि आदिदेहो ऽस्यास्तीति तथा सर्वभूतान्तर्यामिण इत्यर्थः । दैवस्य परमात्मनः । पञ्चम्यर्थे षष्ठी । न प्रमुञ्चन्ति सर्वे ऽपि तत्सङ्कल्पं नातिक्रामन्तीत्यर्थः ॥ ३।६६।११ ॥
शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ ।
श्रूयेते नरशार्दूल न त्वं शोचितुमर्हसि ॥ ३।६६।१२ ॥
उपसंहरति शक्रादिष्वपीति । नयानयौ तन्मूलसुखदुःखे अतो न त्वं शोचितुमर्हसीत्यर्थः ॥ ३।६६।१२ ॥
नष्टायामपि वैदेह्यां हृतायामपि चानघ ।
शोचितुं नार्हसे वीर यथा ऽन्यः प्राकृतस्तथा ॥ ३।६६।१३ ॥
उक्तं विवृणोति नष्टायामपीति । नार्हसे नार्हसि ॥ ३।६६।१३ ॥
त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः ।
सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥ ३।६६।१४ ॥
सत्यदर्शिनः यथार्थदर्शिनः । कृच्छ्रेषु दुःखेषु । अनिर्विण्णम् अविनाशिदर्शनं कृत्याकृत्यविवेको येषां ते तथा ॥ ३।६६।१४ ॥
तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय ।
बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ॥ ३।६६।१५ ॥
तत्त्वतो बुद्ध्या अबाधितबुद्ध्या समनुचिन्तय, शुभाशुभे इति शेषः । महाप्राज्ञाः बुद्ध्या तात्कालिक्या युक्ताः सन्तः शुभाशुभे भाविनी विजानन्ति ॥ ३।६६।१५ ॥
अदृष्टगुणदोषाणामधृतानां च कर्मणाम् ।
नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥ ३।६६।१६ ॥
इदानीं फलानुभवः पूर्वकर्मसाध्यः अतस्तत्र न शोचनीयमित्याह अदृष्टेति । अदृष्टगुणदोषाणां प्रत्यक्षतो द्रष्टुमशक्यसुखदुःखरूपगुणदोषाणाम् । अधृतानां पुरा एवं कर्म कृतमिति निश्चेतुमशक्यानाम् तेषां प्रसिद्धानां पूर्वकृतानामित्यर्थः । कर्मणाम् इष्टं फलं क्रियाम् अनुष्ठानमन्तरेण न प्रवर्तते । पूर्वकर्मानुष्ठानं विना इदानीं फलं नोत्पद्यते अतः पूर्वकर्मफले इदानीं प्रवृत्ते का ऽत्र परिदेवनेति भावः ॥ ३।६६।१६ ॥
त्वमेव हि पुरा राम मामेवं बहुशो ऽन्वशाः ।
अनुशिष्याद्धि कोनु त्वामपि साक्षाद्बृहस्पतिः ॥ ३।६६।१७ ॥
अन्वशाः अनुशासितवानसि ॥ ३।६६।१७ ॥
बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया ।
शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ॥ ३।६६।१८ ॥
दुरन्वया दुर्लभा । प्रसुप्तं स्तिमितम् । सम्बोधयामि उत्थापयामि ॥ ३।६६।१८ ॥
दिव्यं च मानुषं च त्वमात्मनश्च पराक्रमम् ।
इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥ ३।६६।१९ ॥
दिवि भवं दिव्यम् । प्राणिजातं देवगन्धर्वादिकं तच्च सात्विकं वधानर्हम्, मानुषं मनुष्यलोकोद्भवं ब्राह्मणादिकं तदपि वधानर्हम् । सर्वलोकसंहारसमर्थम् आत्मनः पराक्रमं च अवेक्ष्य विचार्य द्विषतामेव वधे यतस्व ॥ ३।६६।१९ ॥
किं ते सर्वविनाशेन कृतेन पुरुषर्षभ ।
तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥ ३।६६।२० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्षष्ठितमः सर्गः ॥ ६६ ॥
उद्धर्तुं नाशयितुम् ॥ ३।६६।२० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्षष्ठितमः सर्गः ॥ ६६ ॥