तप्यमानं तथा रामं सीताहरणकर्शितम् ।
लोकानामभवे युक्तं संवर्तकमिवानलम् ॥ ३।६५।१ ॥
वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनःपुनः ।
दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम् ॥ ३।६५।२ ॥
अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः ।
अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥ ३।६५।३ ॥
एवं जगदुपसंहारक्रोधकलुषं रामं लक्ष्मणः सन्धुक्ष(सान्त्व)यति पञ्चषष्टितमे । तप्यमानमित्यादिश्लोकत्रयमेकान्वयम् । तप्यमानं तपन्तम् । तथा तप्यमानमित्यनेन पूर्वोक्तजगदुपसंहारवाचस्तप्तत्वकृताः न तु सङ्कल्पपूर्वा इत्युच्यते । रामं दृष्ट्वा राममब्रवीदिति क्रियाभेदान्न पुनरुक्तिदोषः । अभवे विनाशे । युक्तम् उद्युक्तम् । संवर्तकं संहारकम् । अदृष्टपूर्वमिति क्रोधनक्रियाविशेषणम् । परिशुष्यता लोकविनाशभयेनेति भावः ॥ ३।६५।१३ ॥
पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः ।
न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ ३।६५।४ ॥
पुरेति । क्रोधवशमापन्नः सन् प्रकृतिं मृदुत्वादिनिजस्वभावं न हातुमर्हसि ॥ ३।६५।४ ॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा ।
एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ॥ ३।६५।५ ॥
चन्द्र इति । लक्ष्म्यादिकमेकैकस्य प्रतिनियतम्, त्वयि तु एतत्सर्वं च यशश्च प्रतिनियतमित्यर्थः ॥ ३।६५।५ ॥
एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि ।
न तु जानामि कस्यायं भग्नः साङग्रामिको रथः ।
केन वा कस्य वा हेतोः सायुधः सपरिच्छदः ॥ ३।६५।६ ॥
मम दान्ततयैवैतादृशी दशा जाता अधुना ऽपि यदि क्रोधो न स्यात् को वा मम वित्रस्येत् कथं च सीताप्रातिरित्याशङ्क्याह एकस्येति । अर्धत्रयमेकान्वयम् । अयं भावः एको रथो दृश्यते एकस्यैव पदं प्रतीयते तेन एक एवापराधीति निश्चीयते एकस्य चापराधेन सर्वान् हन्तुं नार्हसि । तर्हि को वा ऽपराधीत्यत्राह नत्विति । केन प्रतिपक्षिणा कस्य प्रयोजनस्य हेतोः । “षष्ठी हेतुप्रयोगे” इति षष्ठी । प्रकृतादन्यस्माद्वा निमित्तादिति न जानामि, त़च्चिन्तनीयमित्यर्थः । सपरिच्छदः सपरिकरः ॥ ३।६५।६ ॥
खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः ।
देशो निर्वृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज ॥ ३।६५।७ ॥
अश्वानां खुरैः स्थनेमिभिः रथाङ्गैश्च क्षतः निर्वृत्तसङ्ग्रामः, दृश्यत इति शेषः ॥ ३।६५।७ ॥
एकस्य तु विमर्दो ऽयं न द्वयोर्वदतां वर ।
न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ॥ ३।६५।८ ॥
विमर्दः सम्प्रहारः । तत्र हेतुमाह नहीति । वृत्तं सङ्क्रान्तम् ॥ ३।६५।८ ॥
नैकस्य तु कृते लोकान्विनाशयितुमर्हसि ।
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ॥ ३।६५।९ ॥
वक्तव्यमुक्त्वा प्रकृतमाह नैकस्येति । युक्तदण्डा अपराधोचितशिक्षणप्रवर्तकाः ॥ ३।६५।९ ॥
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः ।
को नु दारप्रणाशं ते साधु मन्येत राघव ॥ ३।६५।१० ॥
विशिष्य तवायं धर्म इत्याह सदेति । शरण्यः शरणार्हः । परमा गतिः परमप्राप्यः । देवादिकृतो ऽयमपराधो नेत्याह को न्विति ॥ ३।६५।१० ॥
सरितः सागराः शैला देवगन्धर्वदानवाः ।
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ॥ ३।६५।११ ॥
दीक्षितस्य उपक्रान्तयज्ञानुष्ठानस्य । साधवः ऋत्विजः ॥ ३।६५।११ ॥
येन राजन् हृता सीता तमन्वेषितुमर्हसि ।
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ॥ ३।६५।१२ ॥
परमर्षिभिः एतद्वनस्थैः ॥ ३।६५।१२ ॥
समुद्रं च विचेष्यामः पर्वतांश्च वनानि च ।
गुहाश्च विविधा घोरा नदीः पद्मवनानि च ॥ ३।६५।१३ ॥
समुद्रमिति । विचेष्यामः अन्वेषिष्यामहे ॥ ३।६५।१३ ॥
देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः ।
यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ॥ ३।६५।१४ ॥
देवेति । स्पष्टम् ॥ ३।६५।१४ ॥
न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः ।
कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥ ३।६५।१५ ॥
न चेदिति । प्राप्तश्चतुर्थोपायकालो यस्मिन् कर्मणि तत्तथा ॥ ३।६५।१५ ॥
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र ।
ततः समुत्पादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैः शरौघैः ॥ ३।६५।१६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे प़ञ्चषष्टितमः सर्गः ॥ ६५ ॥
एतदेव स्पष्टयति शीलेनेति । समुत्पादय, विवक्षितकार्यमिति शेषः । समुत्सादयेति पाठे लोकानिति शेषः । एवं लक्ष्मणप्रसादनेन रामकोपशान्तिप्रपञ्चनाद्रावणाराधिततत्पक्षपातिरुद्रसङ्कल्पाद्रामकोपो भग्न इति । वदन् मूर्ख इत्यवगन्तव्यः ॥ ३।६५।१६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने प़ञ्चषष्टितमः सर्गः ॥ ६५ ॥