०५८ रामशोकः

स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ।

पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ ३।५८।१ ॥

अथ सीताप्राप्तिसन्देहकृतशोकप्रलापो ऽष्टपञ्चाशे स दृष्ट्वेत्यादि । शून्ये वने वैदेहीं विना आगतं वैदेहीं विसृज्यागतं लक्ष्मणं पर्यपृच्छत पर्यपृच्छत् ॥ ३।५८।१ ॥

प्रस्थितं दण्डकारण्यं या मामनुजगाम ह ।

क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ ३।५८।२ ॥

प्रश्नस्वरूपमाह प्रस्थितमित्यादिना । दण्डकारण्यं प्रति प्रस्थितम् ॥ ३।५८।२ ॥

राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।

क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ ३।५८।३ ॥

दुःखसहाया समानदुःखेत्यर्थः ॥ ३।५८।३ ॥

यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ।

क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ ३।५८।४ ॥

सुरसुता सुरस्त्री ॥ ३।५८।४ ॥

पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण ।

तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ॥ ३।५८।५ ॥

तपनीयं स्वर्णम् । इच्छेयम् इच्छामि ॥ ३।५८।५ ॥

कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ।

कच्चित्प्रवाजनं सौम्य न मे मिथ्या भविष्यति ॥ ३।५८।६ ॥

प्राणैः प्राणेभ्यः । प्रव्राजनं चतुर्दशवर्षवनवासः । मिथ्या असत्यं न भविष्यति कच्चित् । चतुर्दशवर्षसमाप्तावेव सीतावियोगजं जीववियोगं किं प्राप्स्यामीत्यर्थः ॥ ३।५८।६ ॥

सीतानिमित्तं सौमित्रे मृते मयि गते त्ययि ।

कच्चित् सकामा सुखिता कैकेयी सा भविष्यति ॥ ३।५८।७ ॥

सीतानिमित्तं सीताविनाशनिमित्तम् । त्वयि गते, अयोध्यामिति शेषः । सकामेत्यनेन रामस्य हृदये कैकेयी स्वविनाशार्थमेव वनं प्रेषितवतीति सदा वर्तते । तदिदीनीं सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन व्यक्तीकृतम् ॥ ३।५८।७ ॥

सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ।

उपस्थास्यति कौसल्या कच्चित् सौम्य न केकयीम् ॥ ३।५८।८ ॥

तपस्विनी शोच्या ॥ ३।५८।८ ॥

यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।

सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ ३।५८।९ ॥

वृत्ता परेता । सुवृत्ता स्वाचारा ॥ ३।५८।९ ॥

यदि मामाश्रमगतं वैदेही नाभिभाषते ।

पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ ३।५८।१० ॥

प्रहसिता प्रहसितमुखी ॥ ३।५८।१० ॥

ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।

त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥ ३।५८।११ ॥

यदि जीवति तदा ब्रूहि वद । वैदेही जीवति वा न वा । न वेत्यस्य विवरणं त्वयीति । प्रमत्ते अनवहिते ॥ ३।५८।११ ॥

सुकुमारी च बाला च नित्यं चादुःखदर्शिनी ।

मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ ३।५८।१२ ॥

दुःखं पश्यतीति दुःखदर्शिनी सा न भवतीत्यदुःखदर्शिनी । शोचति अशोचत् । वनवास इति शेषः । दुर्मनाः चिन्ताकुलेति यावत् ॥ ३।५८।१२ ॥

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।

वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ ३।५८।१३ ॥

जिह्मेन कपटेन । तवापि अतिशूरस्यापि ॥ ३।५८।१३ ॥

श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम ।

त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ ३।५८।१४ ॥

मम स्वरेण यस्मादागतः तस्मात् सः स्वरो वैदेह्या श्रुतः त्रस्तया तया त्वं प्रेषितश्चेति शङ्क इति योजना ॥ ३।५८।१४ ॥

सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।

प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥ ३।५८।१५ ॥

कष्टमेवाह प्रतीति । प्रतिकर्तुं मत्कृतापकारस्य प्रत्यपकारं कर्तुम् । अन्तरम् अवकाशो दत्तः ॥ ३।५८।१५ ॥

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।

तैः सीता निहता घोरैर्भविष्यति न संशयः ॥ ३।५८।१६ ॥

प्रतीकारमेवाह दुःखिता इति । पिशिताशनत्वं निहनने हेतुः ॥ ३।५८।१६ ॥

अहो ऽस्निन् व्यसने मग्नः सर्वथा शत्रुसूदन ।

किन्न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥ ३।५८।१७ ॥

अहो ऽस्मिन्निति सन्धिरार्षः । ईदृशं व्यसनमज्जनं प्राप्तव्यमिति शङ्के ॥ ३।५८।१७ ॥

इति सीतां वरारोहां चन्तयन्नेव राघवः ।

आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ ३।५८।१८ ॥

वरारोहामिति चिन्ताहेतुसौन्दर्यातिशयोक्तिः ॥ ३।५८।१८ ॥

विगर्हमाणो ऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च ।

विनिःश्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ ३।५८।१९ ॥

स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् ।

एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥ ३।५८।२० ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टपञ्चाशः ॥ ५८ ॥

विगर्हमाण इत्यादिश्लोकद्वयमेकान्वयम् । वक्ष्यमाणानेकसर्गार्थसङ्ग्रहरूपम् । श्रमात् बहुदूरधावनात् । प्रतिश्रयं स्वाश्रमप्रदेशम् । शून्यं सीतारहितं प्रतिश्रयमित्यनुषज्यते । अनन्तरं स्वाश्रमं सम्प्रविगाह्य प्रविश्य तमपि शून्यं समीक्ष्येति शेषः । तदनु सीतायाः कांश्चिद्विहारदेशाननुसृत्य विचित्य तानपि शून्यान् समीक्ष्य तत्रत्यनिवासभूमौ क्रीडास्थाने । तदेतदिति । तादृशमेतादृशमिति विहारविशेषं स्मृत्वा प्रहृष्टरोमा सन् शोकेन व्यथितो बभूव ॥ ३।५८।१९,२० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ ५८ ॥