०५७ रामेण दुर्निमित्तदर्शनम्

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।

निहत्य रामो मारीचं तूर्णं पथि निवर्तते ॥ ३।५७।१ ॥

एवमियता ग्रन्थसन्दर्भेण सीताहरणवृत्तान्तमुपवर्ण्य अथ रामस्य मृगानुसरणकथाशेषं दर्शयितुमारभते राक्षसमित्यादि । निवर्तते न्यवर्तत ॥ ३।५७।१ ॥

तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मौथिलीम् ।

क्रूरस्वनो ऽथ गोमायुर्विननादास्य पृष्ठतः ॥ ३।५७।२ ॥

तस्येति । द्रष्टुकामस्य तदर्थं सत्वरमाणस्येति सम्बन्धः । गोमायुः क्रोष्टा । एकस्य गोमायोः पृष्ठतः क्रूरस्वरकरणं दुर्निमित्तमिति भावः ॥ ३।५७।२ ॥

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।

चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥ ३।५७।३ ॥

भयङ्करत्वेन रोमहर्षणमित्युच्यते । पूर्वमेव मारीचस्वरेण परिशङ्कितः सञ्जातशङ्कः स रामः तस्य गोमायोः स्वरम् आज्ञाय श्रुत्वा चिन्तयामास ॥ ३।५७।३ ॥

अशुभं बत मन्ये ऽहं गोमायुर्वाश्यते यथा ।

स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥ ३।५७।४ ॥

चिन्तामेवाह अशुभमित्यादिना । गोमायुः यथा येन प्रकारेण वाश्यते शब्दायते तेन प्रकारेणाशुभं मन्ये । अपि सम्भावनायाम् ॥ ३।५७।४ ॥

मारीचेन तु विज्ञाय स्वरमालम्ब्य मामकम् ।

विक्रुष्टं मृगरुपेण लक्ष्मणः शृणुयाद्यदि ॥ ३।५७।५ ॥

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलम् ।

तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥ ३।५७।६ ॥

मारीचेनेत्यादिश्लौकद्वयमेकान्वयम् । मृगरूपेण मारीचेन मामकं मदीयं स्वरं विज्ञाय मामकं स्वरम् आलम्ब्य अनुसृत्य । विक्रुष्टं हा सीते लक्ष्मणेत्याह्वानेनोद्घोषितं स्वरम्, लक्ष्मणः शृणुयाद्यदि तदा स सौमित्रिर्मामकं स्वरं श्रुत्वा तं स्वरं श्रुतवत्या तया सीतया च प्रेषितः सन् इह देशे मत्सकाशं मत्समीपम् एष्यति ॥ ३।५७।५,६ ॥

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः ।

काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥ ३।५७।७ ॥

दूरं नीत्वा तु मारीचो राक्षसो ऽभूच्छराहतः ।

हा लक्ष्मण हतो ऽस्मीति यद्वाक्यं व्याजहार च ॥ ३।५७।८ ॥

राक्षसैरित्यादिश्लोकद्वयमेकान्वयम् । यद्यस्मान्मारीचः काञ्चनः मृगो भूत्वा मामाश्रमाद्व्यपनीय दूरं नीत्वा मया हतः सन् राक्षसो ऽभूत् लक्ष्मण हतो ऽस्मीति वाक्यं व्याजहार च तस्मात्क्वचित्सहितै राक्षसैः सीताया वधः ईप्सितः । नूनम् ॥ ३।५७।७,८ ॥

अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने ।

जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः ॥ ३।५७।९ ॥

जनस्थाननिमित्तं जनस्थानवासनिमित्तेन । निमित्तकारण हेतूनां सर्वासामिष्टिः ॥ ३।५७।९ ॥

निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च ।

इत्येवं चिन्तयन् रामः शृत्वा गोमायुनिःस्वनम् ॥ ३।५७।१० ॥

[निवर्तमानस्त्वरितो जगामाश्रममात्मवान् ।]

आत्मनश्चापनयनान्मृगरूपेण रक्षसा ।

आजगम जनस्थानं राघवः परिशङ्कितः ॥ ३।५७।११ ॥

निमित्तानीत्यदिश्लोकद्वयमेकान्वयम् । गोमायुनिःस्वनं श्रुत्वा मृगरूपेण रक्षसा ऽ ऽत्मनः अपनयनात् आश्रमादपकर्षणच्च परिशङ्कितः सन् जनस्थानम् आजगाम ॥ ३।५७।१०,११ ॥

तं दीनमनसो दीनमासेदुर्मृगपक्षिणः ।

सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ॥ ३।५७।१२ ॥

सव्यं कृत्वा अप्रदक्षिणं कृत्वा आसेदुः ॥ ३।५७।१२ ॥

तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।

न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ॥ ३।५७।१३ ॥

त्वरितः मानसिकत्वरासहितः । जवेन कायिकत्वरया ॥ ३।५७।१३ ॥

स तु सीतां वरारोहां लक्ष्मणं च महाबलम् ।

आजगाम जनस्थानं चिन्तयन्नेव राघवः ॥

ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ॥ ३।५७।१४ ॥

सीतां लक्ष्मणं च चिन्तयन्नेवाजगाम । तत इत्यर्धमेकं वाक्यम् ॥ ३।५७।१४ ॥

ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः ।

विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ॥ ३।५७।१५ ॥

ततो दर्शनानन्तरम् । अविदूरे समीपे समीयाय सङ्गतः । दुःखभागिनेत्यत्र “सम्पृच” इत्यादिसूत्रेण घिनुण् प्रत्ययः ॥ ३।५७।१५ ॥

सञ्जगर्हे ऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् ।

विहाय सीतां विजने वने राक्षससेविते ॥ ३।५७।१६ ॥

सञ्जगर्ह इति । विजने स्वजनरहिते ॥ ३।५७।१६ ॥

गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ।

उवाच मधुरोदर्कमिदं परुषमार्तिमत् ॥ ३।५७।१७ ॥

गृहीत्वेति । सव्यं करं गृहीत्वा लक्ष्मणमुवाच । कथम्, परुषम् अथ मधुरोदर्कं मधुरोत्तरम् । आर्तिमत् आर्तियुक्तम् । सर्वमिदं क्रियाविशेषणम् । अहो इत्यादि परुषम्, लक्ष्मणेत्यादि मधुरम् ॥ ३।५७।१७ ॥

अहो लक्ष्मण गह्यं ते कृतं यस्त्वं विहाय ताम् ।

सीतामिहागतः सौम्य कञ्चित् स्वस्ति भवेदिह ॥ ३।५७।१८ ॥

ते त्वया इत्युवाचेत्यन्वयः ॥ ३।५७।१८ ॥

न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा ।

विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥ ३।५७।१९ ॥

नेति । केनापि हेतुना विनष्टा वा राक्षसैर्भक्षिता वा ॥ ३।५७।१९ ॥

अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ॥ ३।५७।२० ॥

उक्तार्थे हेतुमाह अशुभानीत्यर्धेन । भूयिष्ठं बहुलं यथा तथा ॥ ३।५७।२० ॥

अपि लक्ष्मण सीतायाः सामग्य्रं प्राप्नुयावहे ।

जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै ॥ ३।५७।२१ ॥

अपीति । अपिः प्रश्ने । सामग्र्यम् अक्षतत्वं क्षेममिति यावत् । हे लक्ष्मणेति सम्बन्धः ॥ ३।५७।२१ ॥

यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम् ।

वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ॥ ३।५७।२२ ॥

सामग्य्रप्राप्तिसंशये कारणमाह यथेति । प्रदीप्तां दिशं सूर्याधिष्ठिता तत्पार्श्वद्वयदिशौ च

प्रदीप्ता तामभिमुखं वाश्यन्ते नदन्ति । तेन वायसादिपक्षिणां शृगालादीनां कृष्णसारादिमृगाणां च सूर्याधिष्ठितदिशि कूजनं दुःखसूचकमित्युक्तम् ॥ ३।५७।२२ ॥

अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ॥ ३।५७।२३ ॥

चिन्तातिशयेन पुनरप्याह अपि स्वस्तीति । अर्धमेकान्वयम् ॥ ३।५७।२३ ॥

इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम् ।

हतं कथञ्चिन्महता श्रमेण स राक्षसो ऽभून्म्रियमाण एव ॥ ३।५७।२४ ॥

लक्ष्मणाय दर्शयति इदमिति । मृगसन्निकाशं पूर्वं मृगवद्भातम् । इदं रक्षः महता श्रमेण उपलक्षितं मां प्रलोभ्य कथञ्चिद्धतम् । कथञ्चिदित्यनेन चिरं लक्ष्यवधाप्राप्तिर्द्योत्यते । मृगत्वं कुतो गतमित्यत्राह स इति । म्रियमाणः सन् राक्षस एवाभूदित्यर्थः ॥ ३।५७।२४ ॥

मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् ।

असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ॥ ३।५७।२५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥

निमित्तान्तरेणापि सीताहानिमनुमिनोति मनश्चेति । इह सीतावियोगविषये । अप्रहृष्टं विकारं स्फुरणम् । नास्तीति, आश्रम इति शेषः ॥ ३।५७।२५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥ ५७ ॥