०५३ रावणनिन्दा

खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा ।

दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥ ३।५३।१ ॥

अथ सीता रावणस्य चौर्यवृत्त्यादिकं बहुशो निन्दति खमित्यादिना । दुःखिता बभूवेति शेषः । परमोद्विग्ना कम्पिता । “ओविजी भयचलनयोः” इत्यस्मान्निष्ठा । वर्तिनी वर्तामाना ॥ ३।५३।१ ॥

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।

रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ॥ ३।५३।२ ॥

रोषवद्रोदनमपि रक्तिमहेतुः ॥ ३।५३।२ ॥

न व्यपत्रपसे नीच कर्मणा ऽनेन रावण ।

ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥ ३।५३।३ ॥

नेति । नीचेति सम्बोधनम् । न व्यपत्रपसे न लज्जसे । विरहिताम्, रामलक्ष्मणाभ्यामिति शेषः ॥ ३।५३।३ ॥

त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ।

ममापवाहितो भर्ता मृगरूपेण मायया ॥ ३।५३।४ ॥

त्वयैवेति । हर्तुं मामिति शेषः । अपवाहितः अपनीतः । मृगरूपेण मायया मायारुपमृगेणेत्यर्थः ॥ ३।५३।४ ॥

यो हि मामुद्यतस्त्रातुं सो ऽप्ययं विनिपातितः ।

गृध्रराजः पुराणो ऽसौ श्वशुरस्य सखा मम ॥ ३।५३।५ ॥

य इति । पुराणो वृद्ध इति व्यङ्ग्योक्तिः । अतिवृद्धं हत्वा शूरो ऽहमिति मन्यस इति भावः ॥ ३।५३।५ ॥

परमं खलु ते वीर्यं दृश्यते राक्षसाधम ।

विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥ ३।५३।६ ॥

परममिति सोल्लुण्ठनं वचनम्, अतिनीचमित्यर्थः । तत्र हेतुमाह विश्राव्येति । हि यस्मात् स्वनामधेयं विश्राव्य अहं रावणो ऽस्मीति स्वनाम प्रख्याप्य युद्धेनास्म्यहं जितेति व्यतिरेकोक्तिः । यद्वा ते परमम् अवीर्यं क्लीबत्वं हि यस्माद्युद्धे न जिता ऽस्मि ॥ ३।५३।६ ॥

ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।

स्त्रियाश्च हरणं नीच रहिते तु परस्य च ॥ ३।५३।७ ॥

रहिते स्वामिरहितप्रदेशे । परस्य स्त्रियाः हरणरूपमीदृशं गर्हितं निन्दितं कर्म कृत्वा कथं न लज्जसे ॥ ३।५३।७ ॥

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।

सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ ३।५३।८ ॥

शौण्डीर्यमानिनः तव कर्म कुत्सितं सुनृशंसम् अधर्मिष्ठं च कथयिष्यन्तीत्यन्वयः ॥ ३।५३।८ ॥

धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा ।

कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ ३।५३।९ ॥

धिगिति । तदा हरणकाले । यच्छौर्यं सत्त्वं बलं कथितवानसि तद्धिक् । “उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।” इत्यादि त्वदुक्तमनृतप्रलपनमित्यर्थः । कुलाक्रोशकरं कुलनिन्दाकरम् ॥ ३।५३।९ ॥

किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि ।

मुहूर्तमपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥ ३।५३।१० ॥

यत् यदा एवं जवेनैव धावसि तदा रामेण त्वयि किं कर्तुं शक्यम् । तर्हि कदा शक्यमित्यत आह मुहूर्तमिति । मुहूर्तमपि मुहूर्तमेव तिष्ठस्व तिष्ठ तदा जीवन् सन् न प्रतियास्यसि मृतो भविष्यसीत्यर्थः ॥ ३।५३।१० ॥

न हि चक्षिष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ।

ससैन्यो ऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ ३।५३।११ ॥

उक्तमुपपादयति न हीति ॥ ३।५३।११ ॥

न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथञ्चन ।

वने प्रज्वलितस्येव स्पर्शमग्नेर्विहङ्गमः ।

साधु कृत्वा ऽ ऽत्मनः पथ्यं साधु मां मुञ्च रावण ॥ ३।५३।१२ ॥

दर्शनप्राप्तिमात्रेण कथं जीवितुमशक्यत्वं तत्राह न त्वमिति । अथ कर्तव्यमुपदिशति साध्विति । अर्धश्लोकः एकान्वयः । आमत्नः पथ्यं हितं साधु कृत्वा विचार्य । कृतिर्हि नानार्थो धातुवृत्तिकृतोक्तः, यथा उरसि कृत्वा मनसि कत्वेति । मां साधु सम्यक् आर्जवपूर्वकं मुञ्च ॥ ३।५३।१२ ॥

मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ।

विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ ३।५३।१३ ॥

अमोचने बाधकमाह मदिति । त्वं मां यदि न मुञ्चसि तदा मम पतिः मत्प्रधर्षणेन मत्परिभावेन रुष्टः सन् भ्रात्रा सह त्वद्विनाशाय यत्नं विधास्यति ॥ ३।५३।१३ ॥

येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ।

व्यवसायः स ते नीच भविष्यति निरर्थकः ॥ ३।५३।१४ ॥

अहमपि सफलयत्नो भविष्यामीत्याशङ्क्याह येनेति । व्यवसायेन भोगव्यवसायेनेत्यग्राम्योक्तिः ॥ ३।५३।१४ ॥

न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ।

उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् ॥ ३।५३।१५ ॥

नैरर्थक्यमेवाह न हीति । इदानीं कथं धारयसीत्यत्र परिहारश्चिरमिति ॥ ३।५३।१५ ॥

न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ।

मत्युकाले यथा मर्त्यो विपरीतानि सेवते ॥ ३।५३।१६ ॥

किञ्च त्वमात्मनः श्रेयः प्रियं पथ्यं हितं वा न समवेक्षसे न पर्यालोचयसि । किन्तु मृत्युकाले मर्त्यो यथा विपरीतानि सेवते तथा त्वमपि विपरीतानि सेवस इत्यर्थः ॥ ३।५३।१६ ॥

मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ।

पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम् ॥ ३।५३।१७ ॥

त्वां कण्ठे कालपाशावपाशितं काल पाशेन बद्धं पश्यामि ॥ ३।५३।१७ ॥

यथा चास्मिन् भयस्थाने न बिभेति दशानन ।

व्यक्तं हिरण्मयान् हि त्वं सम्पश्यसि महीरुहान् ॥ ३।५३।१८ ॥

यथेति । किञ्च येन प्रकारेण न बिभेषि तेन प्रकारेण महीरुहान् हिरण्मयान् सम्पश्यसीति मन्य इति योजना ॥ ३।५३।१८ ॥

नदीं वैतरणीं घोरां रिधिरौघनिवासिनीम् ।

असिपत्त्रवनं चैव भीमं पश्यसि रावण ॥ ३।५३।१९ ॥

नदीमिति । रुधिरौघैः सह निवहति प्रवहतीति तथा । असिपत्त्रवनम् असिमयपत्त्रयुक्तवनमिति नरकविशेषस्य नाम । पश्यसीति वर्तमानसामीप्ये वर्तमाननिर्देशः ॥ ३।५३।१९ ॥

तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् ।

द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ॥ ३।५३।२० ॥

पारदारिकस्यासाधारणनरकानुभवं दर्शयतिस तप्तेति । तप्तानि सद्यो ऽग्निष्टप्तानि काञ्चनमयानि पुष्पाणि यस्या स्ताम् । स्वर्णस्य तप्तवेतीवैष्ण्यं भवति । वैडूर्यप्रवराः वैडूर्यमणिश्रेष्ठमयाः छदाः पर्णानि यस्यास्ताम् । अत्रापि तप्तेति विशेषणं बोध्यम् । शाल्मलीं पादारिकालिङ्ग्यत्वेन यमलोकोत्पन्नां शाल्मलीवृक्षाकारस्थीणाम् । द्रक्ष्यसे द्रक्ष्यसि, आलिङ्गितुमिति शेषः ॥ ३।५३।२० ॥

न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ।

धरितुं शक्यसि चिरं विषं पीत्वेव निर्घृणः ॥ ३।५३।२१ ॥

भवत्वेवं कालान्तरे, सद्यो लब्धं हि सुखमित्यत्राह न हीति । तस्य अलीकमप्रियं कृत्वा “अलीकं त्वप्रिये ऽनृते” इत्यमरः । धरितुं जीवितुम् ॥ ३।५३।२१ ॥

बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ।

क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ॥ ३।५३।२२ ॥

त्वामादाय देशान्तरं गमिष्यामि तदा न मे रामभयं तत्राह बद्ध इति । भर्तुरिति हेतौ प़ञ्चमी । तस्माद्धेतोः क्व गतः सन् शर्म लप्स्यसे न क्वचिपीत्यर्थः ॥ ३।५३।२२ ॥

निमेषान्तरमात्रेण विना भ्रात्रा महावने ।

राक्षसा निहता येन सहस्राणि चतुर्दश ॥ ३।५३।२३ ॥

स कथं राघवो वीरः सर्वास्त्रकुशलो बली ।

न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ॥ ३।५३।२४ ॥

कथं तस्य तादृशी शक्तिरित्यत्राह द्वाभ्याम् निमेषेति । निमेषान्तरमात्रेण निमेषावकाशमात्रेण । भ्रात्रा विना एकाकिनेत्यर्थः ॥ ३।५३।२३,२४ ॥

एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा ।

भयशोकसमाविष्टा करुणं विललाप ह ॥ ३।५३।२५ ॥

एतच्चान्यच्च वचनं करुणं परुषं च यथा भवति तथा विललाप परिदेवनमकरोत् ॥ ३।५३।२५ ॥

तथा भृशार्तां बहु चैव भाषिणीं विलापपूर्वं करुणं च भामिनीम् ।

जहार पापः करुणं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ ३।५३।२६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥

सीतोक्तं सर्वं पापिष्ठस्य तस्य समुद्रघोषतुल्यमासीदित्याह तथेति । तथेति वाचामगोचरत्वोक्तिः । विलापपूर्वं करुणं च यथा तथा भाषिणीं करुणं यथा तथा विवेष्टन्तीं विवेष्टमानाम् । आगतगात्रवेपथुम् उत्पन्नशरीरकम्पाम् ॥ ३।५३।२६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥