तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः ।
ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥ ३।५२।१ ॥
जटायुर्युद्धकाले विसृष्टायाः पुनरपि रावणेन हरणप्रकारमाह तमित्यादि । राघवाश्रमादित्यवधित्वात्पञ्चमी ॥ ३।५२।१ ॥
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् ।
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ ३।५२।२ ॥
सा त्विति । रावणेन विनिहतं समीक्ष्येत्यन्वयः ॥ ३।५२।२ ॥
आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा ।
विललाप सुदुःखार्ता सीता शशिनिभानना ॥ ३।५२।३ ॥
विशेषान्तरं वक्तुं पुनरनुवदति आलिङ्ग्येति । कराभ्यां संस्पृश्येत्यर्थः ॥ ३।५२।३ ॥
निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् ।
अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥ ३।५२।४ ॥
निमित्तमिति । लक्षणानि अक्षिस्पन्दनादीनि तेषां ज्ञानम् । शकुनीनां पिङ्गल्यादीनां स्वरस्य दर्शनं ज्ञानम् । नराणां सुखदुःखेषु निमित्तं ज्ञापकं प्रतिदृश्यते ॥ ३।५२।४ ॥
नूनं राम न जानासि महद्व्यसनमात्मनः ।
धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ॥ ३।५२।५ ॥
ततः किमित्यत्राह नूनमिति । हे राम आत्मनो म(ह)द्व्यसनं न जानासि किमिति काकुः, जानास्येव । यस्मान्मदर्थं मदपरणसूचनप्रयोजनमुद्दिश्य मृगपक्षिणः काकुत्स्थं त्वामभिधावन्ति । नूनं सम्प्रति मद्व्यसनसूचकाः मृगपक्षिणः काकुत्स्थं त्वामभिधावन्ति । तेन निमित्तेन मद्व्यसनं जानास्येवेत्यर्थः ॥ ३।५२।५ ॥
अयं हि पापचारेण मां त्रातुमभिसङ्गतः ।
शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः ॥ ३।५२।६ ॥
व्यसनमेवाह अयं हीति । अयं विहङ्गमः पापचारेण रावणेन विनिहतः शेते ॥ ३।५२।६ ॥
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना ।
सुसन्त्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥ ३।५२।७ ॥
शृण्वतामन्तिके यथा शृण्वतां समीप इव, दूरस्थितं रामं लक्ष्मणं च रामेति लक्ष्मणेति च सम्बोध्य आक्रन्दत् ॥ ३।५२।७ ॥
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् ।
अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥ ३।५२।८ ॥
क्लिष्टमाल्याभरणाम् मृदितमाल्याभरणाम् । क्षणं विश्रान्तः अभ्यधावत अभ्यधावत् ॥ ३।५२।८ ॥
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् ।
मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः ॥ ३।५२।९ ॥
क्रोशन्तीं राम रामेति रामेण रहितां वने ।
जीवितान्ताय केशेषु जग्राहान्तकसन्निभः ॥ ३।५२।१० ॥
तामित्यादि द्वावेकान्वयौ । लतमिव भूतले वेष्टन्तीं वेष्टमानाम् ॥ ३।५२।९,१० ॥
प्रधर्षितायां सीतायां बभूव सचराचरम् ।
जगत्सर्वममर्यादं तमसा ऽन्धेन संवृतम् ॥ ३।५२।११ ॥
प्रधर्षितायामिति । अमर्यादं भिन्नसत्त्वप्रकृतिकम् । अन्धेन गाढेन तमसा अज्ञानान्धकारेण । तदा जगत्सर्वं संवृतं विमूढं चासीदित्यर्थः ॥ ३।५२।११ ॥
न वाति मारुतस्तत्र निष्प्रभोभूद्दिवाकरः ॥ ३।५२।१२ ॥
न वातीत्यर्धमेकं वाक्यम् ॥ ३।५२।१२ ॥
दष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा ।
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः ॥ ३।५२।१३ ॥
दृष्ट्वेति । परामृष्टाम् अपहृताम् । दिव्येन चक्षुषा ज्ञानेन । दृष्ट्वा ज्ञात्वा । कार्यं बालकाण्डे विष्णुना प्रतिज्ञातं कृतमिति व्याजहार । प्रीत्यतिशयेन पुरुषान्तरासन्निधाने ऽप्युदाहरत् ॥ ३।५२।१३ ॥
प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः ।
दृषट्वा सीतां परामृष्टां दण्डकारण्यवासिनः ।
रावणस्य विनाशं च प्राप्तं बुध्वा यदृच्छया ॥ ३।५२।१४ ॥
प्रहृष्टा इति । रावणवधस्य सिद्धप्रायत्वेन हर्षः, तादात्विकसीतादशावलोकनेन व्यथा । सीतां परामृष्टां दृष्ट्वा यदृच्छया दैवगत्या रावणस्य प्राप्तं सन्निहितं विनाशं च बुद्ध्वा व्यथिताः प्रहृष्टाश्चासन्नित्यन्वयः ॥ ३।५२।१४ ॥
स तु तां रामरामेति रुदन्तीं लक्ष्मणेति च ।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥ ३।५२।१५ ॥
स त्विति । तुशब्देन ऋष्यादिभ्यो व्यावृत्तिः ॥ ३।५२।१५ ॥
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी ।
रराज राजपुत्री तु विद्युत्सौदामिनी यथा ॥ ३।५२।१६ ॥
तप्ताभरणं तप्तं काञ्चनाभरणम्, तत्तुल्यवर्णाङ्गी । विद्युत् विशेषेण द्योतमाना सौदामिनी तडित् । अनेन तडिद्यथा मेघे क्षणं तिष्ठति तथा रावणे सीतेति सूचितम् ॥ ३।५२।१६ ॥
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।
अधिकं प्रतिबभ्राज गिरिर्दीप्त इवाग्नीना ॥ ३।५२।१७ ॥
उद्धूतेति अत्रापि सीताग्रहणेन रावणस्य सन्तापो भविष्यतीत्यलङ्कारेण वस्तुध्वनिः ॥ ३।५२।१७ ॥
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च ।
पद्मपत्त्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ ३।५२।१८ ॥
तस्या इति । रावणमभ्यकीर्यन्त रावणाङ्के पतितानीत्यर्थः । अत्र रावणैश्वर्यं क्षणाद्विशीर्णं भविष्यतीति वस्तुना वस्तुध्वनिः ॥ ३।५२।१८ ॥
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् ।
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ ३।५२।१९ ॥
तस्या इति । आतपे मध्याह्ने । आदित्यरागेण ताम्रम् अरुणमभ्रमिव बभौ । अनेन रावणविनाशपिशुनोत्पातः सूचितः ॥ ३।५२।१९ ॥
तस्यास्तत्सुनसं वक्रमाकाशे रावणाङ्कगम् ।
न रराज विना रामं विनालमिव पङ्कजम् ॥ ३।५२।२० ॥
तस्यास्तदिति । “उपसर्गाच्च” इति नासिकाशब्दान्ताद्बहुव्रीहेरच् समासान्तः । नासिकाशब्दस्य नसादेशश्च । अत्र सीताया मुखविवर्णत्वोक्त्या खेदातिशय उच्यते ॥ ३।५२।२० ॥
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः ।
सिललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् ॥ ३।५२।२१ ॥
अथ त्वरितगमनमाह बभूवेति । अत्र मुखमिति शेषः । जलदं भित्त्वा उदितः प्रकाशमानश्चन्द्र इव मेघरन्ध्रे भासमान इत्यर्थः । अत्र प्रतिचन्द्रदर्शनरूपोत्पातः सूच्यते । पद्मगर्भाभं विकसितपद्माभमित्यर्थः । अव्रणं निर्दोषम् ॥ ३।५२।२१ ॥
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलङ्कृतम् ।
तस्यास्तद्विमलं वक्रमाकाशे रावणाङ्कगम् ॥ ३।५२।२२ ॥
शुक्लैरिति । न शुशुभ इति वक्ष्यमाणमनुषज्यते । रावणाङ्कगं सन्न शुशुभे । अननुरूपत्वादिति भावः ॥ ३।५२।२२ ॥
रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम् ।
सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम् ॥ ३।५२।२३ ॥
रुदितमिति । रुदितं रोदनवत् अत एव व्यपमृष्टास्त्रम् अनिवृत्ताश्रुकम् । हाटकप्रभं हिरण्यप्रभम् । “हिरण्यं हेम हाटकम्” इत्यमरः । पूर्वं मनोज्ञं मुखम् इदानीं रुदितादिमत्त्वान्न शुशुभ इति भावः ॥ ३।५२।२३ ॥
राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम् ।
शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥ ३।५२।२४ ॥
राक्षसेन निमित्तेन समाधूतं भयकम्पितम् ॥ ३।५२।२४ ॥
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् ।
शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता ॥ ३।५२।२५ ॥
सेति । राक्षसाधिपमाश्रिता सा सीता नीलं मणिमाश्रिता काञ्चनी काञ्चनमयी काञ्ची मेखलेव शुशुभे, रजतमेव नीलरत्नस्य परभागकरमिति प्रसिद्धिः । तेन काञ्चनस्य नीलमणिशेभातिरस्कारत्वात् शुशुभ इति व्यतिरेकोक्त्या न शुशुभे इत्यर्थः । नेत्यनुषङ्गो वा ॥ ३।५२।२५ ॥
सा पद्मगौरी हेमाभा रावणं जनकात्मजा ।
विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा ॥ ३।५२।२६ ॥
पद्मगौरी पद्मवत्पीतवर्णा, अनेन सुकुमारवर्णतोक्ता । हेमाभेत्यनेन स्थिरवर्णतोक्ता । तप्तभूषणा तपनीयभूषणा । विद्युदिव सीता तस्मिन् क्षणं स्थितापि सौहृदं नाकाङ्क्षतेत्यर्थः ॥ ३।५२।२६ ॥
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् ।
प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ ३।५२।२७ ॥
तरुविशेषप्रवालवत् रक्ता पीतवर्णा । “तेन रक्तं रागात्” इत्यत्र रागशब्दो हि वर्णमात्रे प्रयुक्तः । कक्ष्या इभबन्धनी । यथा कक्ष्या गजगता गजं यन्तुर्निग्राह्यं करोति तथेयं रावणं प्राप्य रामनिग्राह्यमकरोदिति भावः ॥ ३।५२।२७ ॥
तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः ।
बभौ सचपलो नीलः सघोष इव तोयदः ॥ ३।५२।२८ ॥
सचपलः सविद्युत् । यथा सगर्जितो मेघ आशु निस्सारो भविष्यति तथेति भावः ॥ ३।५२।२८ ॥
उत्तमाङ्गाच्च्युता तस्याः पुष्पवृष्टिः समन्ततः ।
सीताया ह्रियमाणायाः पपात धरणीतले ॥ ३।५२।२९ ॥
उत्तमेति । उत्तमाङ्गाच्छिरसः ॥ ३।५२।२९ ॥
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः ।
समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥ ३।५२।३० ॥
सा त्विति । सा पुष्पवृष्टिः । रावणवेगेन रावणवेगजनितवातेन । समाधूता पुनर्दशग्रीवमेव अभ्यवर्तत अभितः प्रावर्तिष्ट । अनेन रावणस्य त्वरितगमनमुक्तम् ॥ ३।५२।३० ॥
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् ।
नक्षत्रमाला विमला मेरुं नगमिवोमन्नम् ॥ ३।५२।३१ ॥
उक्तां पुष्पवृष्टिं वर्णयित अभ्यवर्ततेति । धारा पङ्क्तिः ॥ ३।५२।३१ ॥
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् ।
विद्युन्मण्डलसङ्काशं पपात मधुरस्वनम् ॥ ३।५२।३२ ॥
चरणादिति वामचरणादित्यर्थः । भ्रष्टं शिथिलं पपात ॥ ३।५२।३२ ॥
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा ।
जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥ ३।५२।३३ ॥
तामिति । उत्पातसूचिका तारा महोल्का ॥ ३।५२।३३ ॥
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले ।
सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३।५२।३४ ॥
भूषणानि उपात्तनूपुरादिभिन्नानि ॥ ३।५२।३४ ॥
तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः ।
वैहेह्या निपतन् भाति गङ्गेव गगनाच्च्युता ॥ ३।५२।३५ ॥
भाति भाति स्म ॥ ३।५२।३५ ॥
उत्पन्नवाताभिहता नानाद्विजगणायुताः ।
मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः ॥ ३।५२।३६ ॥
उत्पन्नेति । रावणवेगोत्पन्नेत्यर्थः । वातकम्पिताग्रत्वात् पक्षिगणरववत्त्वाच्च विधूताग्राः आश्वासनाय चलितशिरसः सन्तः मा भैरिति व्याजह्रुरिव ॥ ३।५२।३६ ॥
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः ।
सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम् ॥ ३।५२।३७ ॥
गतोच्छ्वासां गतप्राणाम्, मूर्च्छितामिति यावत् । तादृशीं सखीमिव मैथीलीमुद्दिश्य । अशोचन्त अशोचन् । ध्वस्तकमलाः कान्तिहीना इत्यर्थः । त्रस्ताः भीताः मीनाः मस्त्याः जलेचराः नक्रादयश्च यासु ताः । त्रस्तेत्यादिना आकुलनेत्रत्वादिकमुच्यते ॥ ३।५२।३७ ॥
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः ।
अन्वधावंस्तदा रोषोत्सीतां छायनुगामिनः ॥ ३।५२।३८ ॥
समन्तादिति । तदा व्याघ्रादयः समन्तान्नानादेशात् । अभिसम्पत्य आगत्य । रावणे रोषाच्छायानुसारिणः सन्तो ऽन्वधावन् ॥ ३।५२।३८ ॥
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः ।
सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥ ३।५२।३९ ॥
जलप्रपातरूपाण्यस्राणि मुखे येषां ते । उच्छ्रितबाहवः उन्नतबाहवः । विक्रोशन्तीव व्याक्रोशन्निव ॥ ३।५२।३९ ॥
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः ।
प्रतिध्वस्तप्रभः श्रीमानासीत् पाण्डरमण्डलः ॥ ३।५२।४० ॥
श्रीमान् प्राप्तविषयशोक एव श्रीः ॥ ३।५२।४० ॥
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ।
यत्र रामस्य वैदेहीं भार्यां हरति रावणः ।
इति सर्वाणि भूतानि गणशः पर्यदेवयन् ॥ ३।५२।४१ ॥
नास्तीति सार्धश्लोक एकान्वयः । अनृशंसता दया । यत्र यस्मात् । गणशः सङ्घशः । पर्यदेवयन् व्यलपन् ॥ ३।५२।४१ ॥
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ।
उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः ॥ ३।५२।४२ ॥
वित्रस्तका इति स्वार्थे कः । मृगपोतकाः मृगशावाः । आविलं कलुषम् ॥ ३।५२।४२ ॥
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ।
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ॥ ३।५२।४३ ॥
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम् ।
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् ॥ ३।५२।४४ ॥
सुप्रवेपितेत्यादिश्लोकद्वयमेकान्वयम् । तथा वाचामगोचरं दुःखम् । धरणीतलं बहुशो ऽवेक्षमाणां रामलक्ष्मणप्रत्याशयेति भावः ॥ ३।५२।४३,४४ ॥
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् ।
जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥ ३।५२।४५ ॥
स इति । विप्रमृष्टं विलुलितं विशेषकं तिलकं यस्यास्ताम् । “तमालपत्त्रतिलकचित्रकाणि विशेषकम् ।” इत्यमरः । मनस्विनीं दृढमनस्काम्, पतिव्रतामित्यर्थः ॥ ३।५२।४५ ॥
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली ।
अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता ॥ ३।५२।४६ ॥
तत इति । शुचिस्मितेति भूतपूर्वाभिप्रायेण स्वाभाविकहसितत्वाद्वा । विवर्णवक्त्रा बभूवेति शेषः ॥ ३।५२।४६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥