तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे ।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ ३।५०।१ ॥
अथ स्वामिविषये दासेन यावच्छक्ति शेषवृत्तिरवश्य कर्तव्येत्यमुमर्थं लोके प्रवर्तयितुं जटायुवृत्तान्तमुपक्षिपति सर्गद्वयेन । अत्र प्रथमं जटायुः सान्त्वनभर्त्सनाभ्यां रावणमनुकूलयितुमिच्छतीत्याह तं शब्दमित्यादि । अवसुप्तः ईषत्सुप्तो जटायुः । अथ सीतावचनानन्तरम् । तं शब्दं शुश्रुवे । आत्मनेपदमार्षम् । ततः प्रथमं महाशरीरतया रावणं निरीक्ष्य सः वैदहीं ददर्श ॥ ३।५०।१ ॥
ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः ।
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥ ३।५०।२ ॥
तीक्ष्णतुण्डः तीक्ष्णमुखः । “वक्त्रास्ये वदनं तुण्डम्” इत्यमरः । श्रीमान् कैङ्कर्यश्रीसमृद्धः । शुभां रावणस्य शोभनावहाम् ॥ ३।५०।२ ॥
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः ।
जटायुर्नाम नाम्ना ऽहं गृध्रराजो महाबलः ॥ ३।५०।३ ॥
पुराणे सनातने धर्मे, दास्यवृत्तावित्यर्थः । स्थितः तदेकपरायणः । सत्यम् “सत्यं ज्ञानमनन्तं ब्रह्म” इत्युक्तः परमात्मा सश्रयः आलम्बनं यस्य सः । भगवदेकोपायनिष्ठ इत्यर्थः । नाम्ना जटायुर्नाम जटायुरिति प्रसिद्धः । तथा च मयि दासे स्थिते तव सीतापहरणं न युक्तमिति भावः ॥ ३।५०।३ ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।
लोकानां च हिते युक्तो रामो दशरथात्मजः ॥ ३।५०।४ ॥
स्वस्वरूपमुक्त्वा स्वामिस्वरूपमाह राजेति । महेन्द्रवरुणोपमत्वमेकदेशसाम्यात् । सर्वलोकस्य राजा स्वामी, भवतो ऽपि स्वामीत्यर्थः ॥ ३।५०।४ ॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ।
सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥ ३।५०।५ ॥
तथा च राजदारापहारो न युक्त इत्याह तस्येति । सहधर्मचारिणीति धर्मपत्नीशब्दार्थः ॥ ३।५०।५ ॥
कथं राजा स्थितो धर्मे परदारान् परामृशेत् ।
रक्षणीया विशेषेण राजदारा महाबल ॥ ३।५०।६ ॥
मा भूत्तव रामे स्वामित्वबुद्धिः, मनुष्यमात्रबुद्धिं राजाबुद्धिं वा कृत्वा सीतां परिहरेत्याह कथमिति । राजा भवानिति शेषः ॥ ३।५०।६ ॥
निवर्तय मतिं नीचां परदाराभिमर्शनात् ।
न तत् समाचरेद्धीरो यत्परो ऽस्य विगर्हयेत् ॥
यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ॥ ३।५०।७ ॥
राजत्वबुद्धिस्तव रामे मा भूत् तथापि परदाराभिमर्शनं न कार्यमित्याह निवर्तयेति । परदाराभिमर्शनान्मतिं निवर्तय तद्विषयमतिं न कुर्वित्यर्थः । नीचत्वमेवाह नेति । धीरः धीमान् तत्कर्म न समाचरेत् । अस्य धीरस्य यत् कर्म । परो विगर्हयेत् निन्देत् । यथेत्यर्धमेकं वाक्यम् । विपश्चिता विवेकिना ॥ ३।५०।७ ॥
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम् ।
व्यवस्यन्ति न राजानो धर्मं पौलस्त्यनन्दन ॥ ३।५०।८ ॥
शिष्टाः सन्तः राजानः शास्त्रेष्वनागतमनुपदिष्टं धर्ममर्थं वा । यदि वा कामं कामं वा । न व्यवस्यन्ति नेच्छन्तीत्यर्थः । लोके यथ तथा वा भवतु, राज्ञस्तव सुतरां नेदमुचितमिति भावः ॥ ३।५०।८ ॥
राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः ।
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥ ३।५०।९ ॥
न केवलं स्वार्थं लोकनिग्रहार्थम्, चेदं परिहर्तव्यमित्याह राजेति । अत्र धर्मादिशब्दौ धर्मादिप्रवर्तकपरौ । द्रव्याणामर्थानामुत्तमो निधिराश्रयः । यस्मादेवं तस्मात् धर्मः धर्मादिः राजमूलं यथा तथा प्रवर्तते । शुभं शुभाचारः पापं वा राजमूलं प्रवर्तते राजानुसारेण लोकाः धर्माधर्मादिषु प्रवर्तन्ते । अतो राज्ञा पापं विहाय धर्मादिकमेव कर्तव्यमित्यर्थः ॥ ३।५०।९ ॥
पापस्वभावश्चपलः कथं त्वं रक्षसां वर ।
ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः ॥ ३।५०।१० ॥
परदाराभिमर्शनमैश्वर्याद्भ्रंशकं चेत्याह पापस्वभाव इति । पापं स्वभावः सहजधर्मो यस्य स पापस्वभावः । अत एव चपलः विषयप्रवणः त्वं दुष्कृतिः विमानं देवार्हं विमानमिव । ऐश्वर्यमभि ऐश्वर्यं प्रति कथं सम्प्राप्तः योग्यः । एवं विषयचपलश्चेदैश्वर्याद्भ्रष्टो भविष्यसीति भावः ॥ ३।५०।१० ॥
कामं स्वभावो यो यस्य न शक्यः परिमार्जितुम् ।
नहि दुष्टात्मनामार्यमावसत्यालये चिरम् ॥ ३।५०।११ ॥
एवं बहुसान्त्वने ऽपि सीताविसर्जनाकरणात् भवादृशे उपदेशो निरर्थक इत्याह काममिति । यो स्वभावः औत्पत्तिकः स धर्मः कामम् अत्यन्तं परिमार्जितुं न शक्यः । उपदेशेन निवर्तयितुं न शक्य इत्यर्थः । तथाहि आर्यं सदुपदेशः दुष्टात्मनाम् आलये हृदये चिरं नावसति न तिष्ठति ॥ ३।५०।११ ॥
विषये वा पुरे वा ते यदा रामो महाबलः ।
नापराद्ध्यति धर्मात्मा कथं तस्यापराद्ध्यसि ॥ ३।५०।१२ ॥
शत्रुभार्यापहरणं मम स्वभाव इत्याशङ्क्य शात्रवप्रसक्तिरत्र नास्तीत्याह विषये वेति । विषये राज्ये यदा नापराध्यति तदा तस्य कथमपराध्यसि ॥ ३।५०।१२ ॥
यदि शूर्पणखाहेतोर्जस्थानगतः खरः ।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ ३।५०।१३ ॥
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ।
यस्य त्वं लोकनाथस्य भार्यां हृत्वा गमिष्यसि ॥ ३।५०।१४ ॥
खरवध एव ममापराध इत्याशङ्क्याह द्वाभ्याम् यदीत्यादि । वृत्तं मर्यादामतिक्रान्तो ऽतिवृत्तः । अत्र हननविषये । यस्येति । तस्येति पूर्वशेषः ॥ ३।५०।१३,१४ ॥
क्षिप्रं विसृज वैदहीं मा त्वा घोरेण चक्षुषा ।
दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा ॥ ३।५०।१५ ॥
प्रकृतमुपसंहरति क्षिप्रमिति । अत्र राम इत्यध्याहार्यम् । चक्षुषेत्यनेन दर्शनमात्रेण वधो लक्ष्यते । अशनिः वज्रम् ॥ ३।५०।१५ ॥
सर्पमाशीविषं बध्वा वस्त्रान्ते नावबुद्ध्यसे ।
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥ ३।५०।१६ ॥
सीताग्रहणमवश्यं मृत्युकरमित्याह सर्पमित्यादिना । आशीविषम् आशीविषाख्यम् । प्रतिमुक्तम् आमुक्तम् । यथा वस्त्रबद्धः सर्पो ऽवश्यं नाशयति तद्वात् इयं सीता गृहीता त्वां नाशयिष्यतीति भावः । व्याजस्तुतिरलङ्कारः ॥ ३।५०।१६ ॥
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।
तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ ३।५०।१७ ॥
भारः भारद्रव्यम् । वावसादयेत् न पीडयेत् । अनामयं व्याध्यनुत्पादकम् । अत्रापि पूर्ववद्व्याजस्तुतिः ॥ ३।५०।१७ ॥
यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि ।
शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥ ३।५०।१८ ॥
यत्कार्यं कृत्वा स्थितस्य न धर्मो भवेत्, कीर्तिः ऐश्वर्यादिजनिता प्रथा वा न भवेत्, यशः भोगित्वाकृतप्रथा वा न भवेत्, प्रत्युत शरीरदुःखमेव भवेत्, तत्कर्म कः समाचरेत्? मूढ एवाचरेत् । तथाविधकर्मकरणाद्भवान्मूढ एवेति भावः ॥ ३।५०।१८ ॥
षष्टिर्वर्षसहस्त्राणि मम जातस्य रावण ।
पितृपैतामहं राज्यं यथावदनुतिष्ठतः ॥ ३।५०।१९ ॥
वृद्धोहं त्वं युवा धन्वी सशरः कवची रथी ।
तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ॥ ३।५०।२० ॥
मयि वृद्धत्वेनावमतिं मा कृथा इत्याशयेनाह द्वाभ्याम् षष्टिरित्यादि । षष्टिर्वर्षसहस्राणि गतानीति शेषः । जातस्येत्यनेन वयसा जीर्णत्वमुच्यते । राज्यं यथावत् अनुतिष्ठतः पालयत इत्यनेन कर्मणा जीर्णत्वमुक्तम् । अहं धनुराद्युपकरणरहितः ॥ ३।५०।१९,२० ॥
न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः ।
हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ॥ ३।५०।२१ ॥
एतदेव दृष्टान्तमुखेन द्रढयति न शक्त इति । मम पश्यतः मयि पश्यति सति । सीतां बलाद्धर्तुं न शक्तः न समर्थः । कथमिव न्यायसंसिद्धैः न्यायशास्त्रसंसिद्धैः हेतुभिः अनुमानैः । ध्रुवां निश्चलाम् अविचाल्यप्रामाण्यामिति यावत् । वेदश्रुतीमिव वेदश्रुतिमिव । दीर्घ आर्षः । वेदयतीति वेदः स्वतः प्रमाणभूतां श्रुतिमित्यर्थः । यथा वेदविदग्रेसरे पश्यति सति हैतुकैः न्यायसिद्धैर्हतुभिः श्रुतिः अन्यथा अन्यपरा नेतुं न शक्यते तद्वदिति भावः । अन्यपरार्थवादादिव्यावृत्त्यर्थो वेदशब्दः । यथा तामन्यथा कुर्वन् स्वयमेव विनश्यति न वेदश्रुतेः कापि हानिः एवं सीतामपहरंस्त्वमेव नशिष्यसि, न तु सीतायाः कापि हानिरित्याकूतम् । यथा वेदविदग्रेसरो वेदश्रुतिमन्यथा नीयमानामवलोकयन् तदसहमानो यावच्छक्ति निवर्तयति तथा ऽहमापि त्वया बलान्नीयमानामपि सीतां यावच्छक्ति निवर्तयिष्यामीत्यर्थः ॥ ३।५०।२१ ॥
यद्ध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण ।
शयिष्यसे हतो भूमौ यथा पूर्वं करस्तथा ॥ ३।५०।२२ ॥
युद्ध्यस्वेति । यदि शूरो ऽसि मुहूर्तं तिष्ठ । मा पलायस्व मया युद्ध्यस्व । युद्धे मया हतस्त्वं पूर्वं रामेण हतः खर इव भूमौ शयिष्यसे । यद्वा यदि शूरोसि तदा मया युद्ध्यस्व । अथवा रामागमनपर्यन्तं मुहूर्तं तिष्ठ तेन हतः शयिष्यस इति । यद्वा यदि शूरोसि मुहूर्तं तिष्ठ स्थित्वा तेन युद्ध्यस्व ॥ ३।५०।२२ ॥
असकृत्संयुगे येन निहता दैत्यदानवाः ।
न चिराच्चीरवासास्त्वां रामो युधि वधिष्यति ॥ ३।५०।२३ ॥
न केवलं स्वापराधप्रतीकारः किन्तु “देवानां दानवानां च सामान्यमधिदैवतम्” इत्युक्तस्य रामस्य स्वकीयापराधप्रतीकारोपि भविष्यतीत्याह असकृदिति ॥ ३।५०।२३ ॥
किनु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ ।
क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः ॥ ३।५०।२४ ॥
एवमुक्ते ऽपि पुनः पलायमानं प्रत्याह किन्विति । किन्नु शक्यं किं वा शक्यम् । नश्यसे अदर्शनं प्राप्नोषि । तयोः ताभ्याम् ॥ ३।५०।२४ ॥
न हि मे जीवमानस्य नयिष्यसि शुभामिमाम् ।
सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम् ॥ ३।५०।२५ ॥
तथापि त्वां नाहं गमयामीत्याह नहीति । जीवमानस्य जीवतः मयि जीवतीत्यर्थः ॥ ३।५०।२५ ॥
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः ।
जीवितेनापि रामस्य तथा दशरथस्य च ॥ ३।५०।२६ ॥
त्वया किं कर्तुं शक्यमित्यत्राह अवश्यमिति । जीवितेनापि जीवितव्ययेनापि ॥ ३।५०।२६ ॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ।
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ॥ ३।५०।२७ ॥
तिष्ठेति । यथाप्राणं यथाबलम् ॥ ३।५०।२७ ॥
वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् ॥ ३।५०।२८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
वृन्तादित्यर्धमेकान्वयम् । “वृन्तं प्रसवबन्धनम्” इत्यमरः ॥ ३।५०।२८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चाशः सर्गः ॥ ५० ॥