रावणेन तु वैदेही तथा पृष्टा जिहीर्षता ।
परिव्राजकलिङ्गेन शशंसात्मानमङ्गना ॥ ३।४७।१ ॥
अथ मैथिली आर्जवेन स्वस्वरूपमुक्त्वा रावणानार्जवदर्शनेन स्वपातिव्रत्यानुरूपं तमुपालभते रावणेन त्वित्यादिना । जिहीर्षता हर्तुमिच्छता । तेन कापट्येन पृष्टापि यतिचिह्नं पुरस्कृत्य स्वयाथात्म्यमुक्तवतीति भावः ॥ ३।४७।१ ॥
ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ ३।४७।२ ॥
यतिवेषं प्रत्यात्मवंशं सा किमर्थमुक्तवतीत्यत्राह ब्राह्मणश्चेति ॥ ३।४७।२ ॥
दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
सीता नाम्ना ऽस्मि भद्रं ते रामभार्या द्विजोत्तम ॥ ३।४७।३ ॥
का ऽसीत्यस्योत्तरमाह दुहितेति । कस्येत्यस्योत्तरमाह रामेति ॥ ३।४७।३ ॥
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने ।
भूञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥ ३।४७।४ ॥
कुतश्चिदित्यादेरुत्तरमाह उषित्वेत्यादिना । विवाहानन्तरम् इक्ष्वाकूणां निवेशने अयोध्यायाम् । द्वादशसमाः द्वादशवत्सरानुषित्वा तत्र सर्वकामसमृद्धिनी काम्यन्त इति कामाः । भोगोपकरणस्रक्चन्दनादीनि तेषां समृद्धिं समृद्धिः । भावे निष्ठा । तद्वती सती मानुषान् भोगान् रतिक्रीडाः, अग्राम्यत्वाय मानुषानित्युक्तम् । वस्तुतः स्वयं दिव्यभोगपरतया मानुषानित्यवशमुक्तवती । यद्वा मानुषान् मनुष्यत्वेनावतीर्णरामकृतान् भोगान् । अमानुषानिति वा छेदः । मनुष्यदुर्लभान् दिव्यान् भोगानित्यर्थः । भुञ्जाना अभवमिति शेषः । सर्वकामसमृद्धिनि इति सप्तम्यन्तपाठे सर्वकामसमृद्धिनि इक्ष्वाकूणाम् इक्ष्वाकुवंश्यस्य रामस्य । पूजायां बहुवचनम् ।
व्रीडया भर्तृनामाग्रहणं निवेशने गृहे । द्वादशसमाः द्वादश वत्सरान् । अत्यन्तसंयोगे द्वितीया । अमानुषान् भोगान् भुञ्जाना अनुभवन्ती सती उषित्वा उषितवत्यस्मि । व्यत्ययेन त्वाप्रत्ययः ॥ ३।४७।४ ॥
ततस्त्रयोदशे वर्षे राजा ऽमन्त्रयत प्रभुः ।
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥ ३।४७।५ ॥
तत इति । राजा दशरथः । अमन्त्रयत् अकथयत् । राजमन्त्रिभिः मन्त्रिराजैः मन्त्रिश्रेष्ठैरिति यावत् । राजदन्तादित्वात्परनिपातः ॥ ३।४७।५ ॥
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारमार्या सा याचते वरम् ॥ ३।४७।६ ॥
तस्मिन्निति । तस्मिन् रामाभिषेचने सम्भ्रियमाणे आरभ्यमाणे सति आर्या पूज्या मम श्वश्रूरित्यर्थः । सा प्रसिद्धा कैकेयी वरं याचते अयाचत ॥ ३।४७।६ ॥
प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ।
द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ॥ ३।४७।७ ॥
कं वरं कमयाचतेत्यत्राह प्रतिगृह्येति । सार्द्धश्लोक एकान्वयः । कैकेयी मे श्वशुरं स्वस्य भर्तारं सत्यसन्धं सत्यप्रतिज्ञं नृपोत्तमं दशरथम् । सुकृतेन प्रतिगृह्य धर्मेण शापयित्वा । यद्वा सुकृतेनोपकारेण प्रतिगृह्य वशीकृत्य स्वकृतप्राणप्रदानोपकारस्मरणेन राजानं वशीकृत्येत्यर्थः । मम भूर्तुः प्रव्राजनं भरतस्याभिषेचनमित्येवंरूपौ द्वौ वरावयाचत ॥ ३।४७।७ ॥
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये च कथञ्चन ।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ३।४७।८ ॥
नाद्येति । पास्य इत्यात्मनेपदमार्षम् । एषः अभिषेकः ॥ ३।४७।८ ॥
इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः ।
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा ॥ ३।४७।९ ॥
इतीति । मानदः बहुमानप्रदः । अन्वर्थैः अर्थानुगतैः, सप्रयोजनैरिति यावत् । उपभोगक्षमैरित्यर्थः । अर्थैः सुवर्णरत्नादिभिः । कैकेयीमयाचत वरद्वयप्रतिनिधित्वेनैतानर्थान् प्रतिगृहाणेति प्रार्थयामासेत्यर्थः । सा तां याच्ञां न चकर नाङ्गीकार ॥ ३।४७।९ ॥
मम भर्ता महातेजा वयसा प़ञ्चविंशकः ।
अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ ३।४७।१० ॥
वस्तुतो मम भर्ता प्रव्राजनायोग्यः बालत्वाद्गुणवत्त्वाच्चेत्याह मम भर्तेति । पञ्चोत्तरा विंशतिः पञ्चविंशतिः । वयसा पञ्चविंशतिवर्षाण्यर्हतीति पञ्चविंशकः । “विंशतित्रिंशद्भ्यां ड्वुन्नसञ्ज्ञायाम्” इत्यार्हीयो ड्वुन् प्रत्ययः । “सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि” इति तदन्तविधिः । पञ्चविंशतिवर्ष इत्यर्थः । वयः परिमाणं वननिर्गमनकालिकम् । मम जन्मनि सति वर्षाण्यष्टादशेति गण्यते । रामस्य जन्मारभ्य द्वादशे वर्षे विश्वामित्रागमनम्, तदनन्तरं वैदेह्या सह नगरे द्वादशवर्षाणि वासं कृतवान्, ततः परं त्रयोदशे वर्षे यौवराज्याभिषेकारम्भः, ततश्च वनप्रवेशसमये रामः पञ्चविंशतिवर्षार्हः, ततो मुनीनामाश्रमेषु दश वत्सराः, पञ्चवट्यां त्रयः, वनवासस्य चतर्दशे वर्षे सीतापहरणम् । सीतायाश्च भूगर्भादाविर्भावानन्तरं मिथिलायां षट् संवत्सराः, ततो विवाहानन्तरमयोध्यायां द्वादश इत्येवमष्टादश वर्षा गताः वनवासारम्भ इत्युक्तम् । विस्तरेणायमर्थः “ऊनषोडशवर्षो मे” इत्यत्र प्रत्यपादि । इदानीं तु रामः अष्टात्रिंशद्वर्षः मम त्वेकत्रिंशद्वर्षा गताः । इदानीं तु द्वात्रिंशो वर्षो वर्तते । अस्मिन् श्लोके मम भर्तेत्यत्र भकारो गायत्र्याः नवमाक्षरम् । अष्टसहस्रश्लोका गताः ॥ ३।४७।१० ॥
रामेति प्रथितो लोके गुणवान् सत्यवान् शुचिः ।
विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥ ३।४७।११ ॥
एवं वनवासायोग्यं वय इत्युक्त्वा गुणवत्तया प्रव्राजनानर्हत्वमाह रामेतीति । गुणावान् सौशील्यवान् ॥ ३।४७।११ ॥
कामार्तस्तु महातेजाः पिता दशरथः स्वयम् ।
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ॥ ३।४७।१२ ॥
एवम्भूतस्य प्रव्राजनं दशरथदोषकृतमित्याह कामार्त इति । नाभ्यषेचयत् कैकेयी सम्मतिं विनेति शेषः । तत्र हेतुः प्रियकामार्थमिति । प्रियकरणकामाय प्रितज्ञातकैकेयीप्रियकरणनिर्वाहायेत्यर्थः । तव प्रियं करिष्यामीति प्रथमप्रतिज्ञा करणे हेतुः कामार्त इति । कामार्ततया प्रथमं तव यत् प्रियं तत्करिष्यामीति प्रतिज्ञाय पश्चाद्रामप्रव्राजने तया वृते प्रतिज्ञाभङ्गं कर्तुमक्षमो नाभ्यषेचयदित्यर्थः ॥ ३।४७।१२ ॥
अभिषेकाय तु पितुः समीपं राममागतम् ।
कैकेयी मम भर्तारमित्युवाच धृतं वचः ॥ ३।४७।१३ ॥
सामान्यत आह्वानेनाभिषेकाय भवितुमर्हति मदाह्वानमित्यागतमित्यर्थः । धृतं धैर्ययुक्तमिति क्रियाविशेषणम् ॥ ३।४७।१३ ॥
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ।
भरताय प्रदातव्यमिदं राज्यमकण्टकम् ॥ ३।४७।१४ ॥
त्वया हि खलु वस्तव्यं नव वर्षाणि प़ञ्च च ।
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ॥ ३।४७।१५ ॥
तवेत्यादि श्लोकद्वयमेकान्वयम् । त्वद्विषये पित्रा समाज्ञप्तं समाज्ञापनम् । मम मत्तः शृणु । इदं राज्यं भरताय प्रदातव्यं तदर्थं त्वया नव पञ्च च वर्षाणि चतुर्दश वर्षाणीत्यर्थः । वने वस्तव्यं तदर्थं प्रव्रज । अनृतात् प्रतिज्ञाभङ्गरूपात् ॥ ३।४७।१४,१५ ॥
तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः ।
चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ॥ ३।४७।१६ ॥
अकुतोभयः राज्यत्यागवनवासाभ्यां भयरहितः ॥ ३।४७।१६ ॥
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम् ।
एतद्ब्राह्मण रामस्य ध्रुवं व्रतमनुत्तमम् ॥ ३।४७।१७ ॥
दृढव्रत इत्युक्तमुपपादयति दद्यादिति । ध्रुवं निश्चलम् । अनुत्तमम् अवश्यपरिपालनीयम् ॥ ३।४७।१७ ॥
तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् ।
रामस्य पुरुषव्याघ्रः सहायः समरे ऽरिहा ॥ ३।४७।१८ ॥
तस्येति । द्वयोर्मात्रोरपत्यं पुमान् द्वैमात्रः । अण्प्रत्ययः । “मातुरुत्सङ्ख्या इत्युदादेशाभाव आर्षः । गुर्वक्षरं च छान्दसम् । अरिहेति छन्दोवद्भावात् “बहुलं छन्दसि” इति सूत्रेण ब्रह्मादिभिन्ने ऽप्युपपदे क्विप् । यद्वा “अन्येभ्यो ऽपि दृश्यते” इत्यत्र दृशिग्रहणस्य विध्यन्तरोपसङ्ग्रहार्थत्वाद्वा क्विप् ॥ ३।४७।१८ ॥
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः ।
अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ॥ ३।४७।१९ ॥
स इति । मया सह अन्वगच्छदित्यन्वयः ॥ ३।४७।१९ ॥
जटी तापसरूपेण मया सह सहानुजः ।
प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ॥ ३।४७।२० ॥
जटीति । तापसरूपस्यानेकरूपत्वाज्जटीति विशेषयति ॥ ३।४७।२० ॥
ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः ।
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ॥ ३।४७।२१ ॥
ते वयमिति । कृते प्रयोजनाय क्रियते सम्पाद्यत इति कृत् । सम्पदादित्वात् क्किप् । गम्भीरं दुष्प्रवेशम् । ओजसा बलेन । “ओजो दीप्तौ बले” इत्यमरः ॥ ३।४७।२१ ॥
समाश्वस मुहुर्तं तु शक्यं वस्तुमिह त्वया ।
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥ ३।४७।२२ ॥
समाश्वस समाश्वसिहि, विश्रान्तिं कुर्वित्यर्थः । वस्तुं स्थातुं शक्यं पवित्रदेशत्वादिति भावः ॥ पुष्कलं समग्रम् ॥ ३।४७।२२ ॥
[रुरून् गोधान् वराहांश्च हत्वादायामिषान् बहून् ।]
स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः ।
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥ ३।४७।२३ ॥
स त्वमिति । स त्वम् एवं समाश्वस्तस्त्वं कुलं गृहम् । “कुलमन्वयसङ्घातगृहपर्याश्रमेष्वपि” इति निघण्टुः । ननु सन्न्यासिनं प्रति कुलगोत्रप्रश्नोनुपपन्नः एकाकितया ऽरण्ये सञ्चारश्च यतेर्धर्म एव अतो ऽसङ्गत इव प्रतिभातीति चेत् । उच्यते पूर्वाश्रमनामगोत्रप्रश्नो ऽयम् । “भिक्षार्थं ग्रामं प्रविशेत्” इति श्रुत्या भिक्षोर्ग्रामसमीपारण्ये वस्तव्यम्, न तु ग्रामप्रसङ्गरहिते ऽरण्य इति कथं भवान् भिक्षाप्रदजनरहितश्चरसीति प्रश्न उपपद्यते ॥ ३।४७।२३ ॥
एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः ।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥ ३।४७।२४ ॥
एवमिति । आत्मवैभवप्रकटनावसरप्रतीक्षकतया तीव्रं झटितीत्युक्तम् ॥ ३।४७।२४ ॥
येन वित्रासिता लोकाः सदेवासुरपन्नागाः ।
अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥ ३।४७।२५ ॥
येनेति । लोकाः जनाः ॥ ३।४७।२५ ॥
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ ३।४७।२६ ॥
त्वामिति । काञ्चनवर्णाभां स्वर्णवर्णतुल्यकान्तिम् ॥ ३।४७।२६ ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ ३।४७।२७ ॥
बह्वीनामिति । उत्तमस्त्रीणामिति निर्धारणे षष्ठी ॥ ३।४७।२७ ॥
लङ्का नाम समुद्रस्य मध्ये मम महापुरी ।
सागरेण परिक्षप्ता निविष्टा नगमूर्द्धनि ॥ ३।४७।२८ ॥
लङ्केति । समुद्रमध्ये वर्तमाने नगमूर्धनि गिरिशृङ्गप्रदेशे । निविष्टा कृतनिवेशा । सागरेण सगरनिर्मितेन समुद्रेण । परिक्षिप्ता परिवृता पुरी मम अस्तीति शेषः ॥ ३।४७।२८ ॥
तत्र सीते मया सार्धं वनेषु विहरिष्यसि ।
न चास्यारण्यवास्य स्पृहयिष्यसि भामिनि ॥ ३।४७।२९ ॥
तत्रेति । वनेषु उद्यानेषु । अरण्यवासस्येति चतुर्थ्यर्थे षष्ठी ॥ ३।४७।२९ ॥
प़ञ्च दास्यः सहस्त्राणि सर्वाभरणभूषिताः ।
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥ ३।४७।३० ॥
पञ्च सहस्राणि दास्यस्त्वां परिचरिष्यन्ति ॥ ३।४७।३० ॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ ३।४७।३१ ॥
रावणेनेति । तुशब्देन पूर्वोक्तोपचारवचनविलक्षणवचना ॥ ३।४७।३१ ॥
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ ३।४७।३२ ॥
महागिरिमिति । महेन्द्रसदृशं पतिं पतित्वे स्वामित्वे महेन्द्रतुल्यमित्यर्थः । अनुव्रता अनुकूलं व्रतं यस्याः सा राममुद्दिश्यानुव्रता ॥ ३।४७।३२ ॥
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् ।
सत्यसन्धं महाभागमहं राममनुव्रता ॥ ३।४७।३३ ॥
सर्वेति । न्यग्रोधपरिमण्डलं वटवृक्षमिव महापरिणाहम् । यद्वा न्यग्रोधवत् बहुशाखबन्धुस्तोमं तद्वत् सर्वसमाश्रयणीयमिति वा । यद्वा “कूपोदकं वटच्छाया युवतीनां स्तनद्वयम् । शीतकाले भवत्युष्णमुष्णकाले च शीतलम् ॥ " इत्युक्तरीत्या सर्वकालेऽपि सर्वजनानुकूलमित्यर्थः ॥ ३।४७।३३ ॥
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ।
नृसिंहं सिंहसङ्काशमहं राममनुव्रता ॥ ३।४७।३४ ॥
महाबाहुमिति । सिंहवद्विक्रान्तं पराक्रमयुक्तं सगर्वमिति यावत् । तथा गच्छतीति सिंह विक्रान्तगामिनम् । सिंहसङ्काशं पराक्रमे सिंहतुल्यम् । नृसिंहं पुरुषश्रेष्ठम् ॥ ३।४७।३४ ॥
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् ।
पृथुकीर्तिं महात्मानमहं राममनुव्रता ॥ ३।४७।३५ ॥
पूर्णेति । राजवत्सं राजकुमारम् ॥ ३।४७।३५ ॥
त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् ।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३।४७।३६ ॥
एवं स्वभर्तुरतिशयमुक्त्वा तस्य हीनत्वमाह त्वमित्यादिना । त्वं तु जम्बुकः गोमायुः । निगीर्याध्यवसानं तथा सिंहीमित्यत्रापि । आदित्यस्य प्रभेव रामस्याविनाभूता ऽहं त्वया स्प्रष्टुं न शक्येत्यर्थः ॥ ३।४७।३६ ॥
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक् ।
राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण ॥ ३।४७।३७ ॥
पादपानिति । आसन्नमरणाः वृक्षान् स्वर्णमयान् पश्यन्तीति प्रसिद्धिः । मन्दभाक् मन्दभाग्यः । यद्वा मन्दं क्षीणम् आयुरादिकम् भजतीति मन्दभाक् । मदभिलाषयुक्तस्त्वं सद्यो मरिष्यसीति भावः ॥ ३।४७।३७ ॥
क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः ।
आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि ॥ ३।४७।३८ ॥
सर्वात्मना आदानस्याशक्यत्वज्ञापनाय विशेषणानि । आशीविषस्य सर्पस्य । चकारो द्रष्टव्यः । क्षुधितस्य तरस्विन इति चाशीविषस्यापि विशेषणम् । अत्र सदृशयोर्वाक्यार्थयोरैक्यारोपान्निदर्शनालङ्कारः ॥ ३।४७।३८ ॥
मन्दरं पर्वतश्रेष्ठं पाणिनाहर्तुमिच्छसि ।
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ॥ ३।४७।३९ ॥
मन्दरमिति । अत्रापि राघवस्य भार्यां यस्त्वमिच्छसीत्यनुषज्यते । स्वस्तिमान् सुखित इत्यर्थः ॥ ३।४७।३९ ॥
अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम् ।
राघवस्य प्रियां भार्यां यो ऽधिगन्तुं त्वमिच्छसि ॥ ३।४७।४० ॥
स्वाक्षि प्रमृजसि प्रकर्षेण मार्जनं करोषि । लेक्षि लेहनं करोषि । “लिह आस्वादने” इत्यस्माल्लुग्विकरणस्थाद्धातोर्लटि मध्यमपुरुषैकवचनम् । क्षुरं तीक्ष्णधारं शस्त्रम् । अधिगन्तुं प्राप्तुम् ॥ ३।४७।४० ॥
सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥ ३।४७।४१ ॥
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ॥ ३।४७।४२ ॥
अवसज्येति सार्धश्लोक एकान्वयः अवसज्य बद्धा ॥ ३।४७।४१,४२ ॥
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ।
कल्याणवृत्तां रामस्य यो भार्यां हर्तुमिच्छसि ॥ ३।४७।४३ ॥
कल्याणवृत्तां शुभाचाराम् ॥ ३।४७।४३ ॥
अयोमुखानां शूलानामग्रे चरितुमिच्छसि ।
रामस्य सदृशीं भार्यां यो ऽधिगन्तुं त्वमिच्छसि ॥ ३।४७।४४ ॥
अयोमुखानाम् अयोमयाग्राणाम् । शूलानामग्रे शूलाग्रपङ्क्तिषु सञ्चरितुमिच्छसीत्यर्थः ॥ ३।४७।४४ ॥
यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः ।
सुराग्य्रसौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य च ॥ ३।४७।४५ ॥
उक्तं रामोत्कृष्टत्वं रावणनिकृष्टत्वं च सदृष्टान्तमाह यदन्तरमित्यादिना । सिंहसृगालयोः । “सृगालो वञ्चकः क्रोष्टा” इत्यमरः । यत् अन्तरं भेदः तारतम्यमिति यावत् । “अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविना बहिरवसरमध्ये ऽन्तरात्मनि च ॥ " इत्यमरः। वने जले विषये। “जीवनं भुवनं वनम्” इत्यमरः। स्यन्दिनिका स्यन्दितुं प्रस्रवितुं शीलमस्या अस्तीति स्यन्दिनिका। ताच्छील्ये णिनिः। अल्पार्थे कप्रत्ययः “केऽणः” इति ह्रस्वः। क्षुद्रनदी स्यन्दिनिका। सुराग्य्रं श्रेष्ठमद्यम्। सौवीरकं काञ्जिकम्। “आरनालकसौवीरकुल्माषाभिषुतानि च। अवन्तीसोमधान्याम्लकुञ्जलानि च काञ्जिकम् ॥ " इत्यमरः ॥ ३।४७।४५ ॥
यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः ।
यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ ३।४७।४६ ॥
काञ्चनसीसलोहयोरित्यत्र लोहशब्दः प्रत्येकमभिसम्बध्यते, काञ्चनस्यापि नवलोहेषु परिगणनात् । चन्दनवारि चन्दनपङ्कः । बिडालो मार्जारः ॥ ३।४७।४६ ॥
यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि ।
यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ ३।४७।४७ ॥
मद्गुः जलवायसः । सारसो हंसविशेषः ॥ ३।४७।४७ ॥
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।
हृता ऽपि ते ऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥ ३।४७।४८ ॥
तस्मिन् रामे स्थिते सति । जरां जीर्णतां मक्षिकया अवगीर्णं ग्रस्तं वज्रं हीररत्नं मक्षिकया तण्डुलखण्डभ्रान्त्या ग्रस्तं हीररत्नमित्यर्थः । यथा न जीर्णं भवति । यद्वा मक्षिकया सहावगीर्णं भुक्तं वज्रम् आज्यम् । “वज्रो वा आज्यम्” इति श्रुतेः । यथा न जीर्णं भवतीत्यर्थः । तथा अहं त्वया हृता ऽपि ते जीर्णतां न गमिष्ये । प्रत्युत तवैव मरणं प्रापयिष्यामीत्यर्थः ॥ ३।४७।४८ ॥
इतीव तद्वाक्यमदुष्टभावा सुधृष्टमुक्त्वा रजनीचरं तम् ।
गात्रप्रकम्पव्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ ३।४७।४९ ॥
इतीव उक्तप्रकारसदृशं तद्वाक्यं सुधृष्टं यथा तथा उक्त्वा । सा सीता वातोद्धता वाताहता कदलीव गात्रप्रकम्पव्यथिता शरीरकम्पेन पीडिता बभूव ॥ ३।४७।४९ ॥
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म च स्वं समाचचक्षे भयकारणार्थम् ॥ ३।४७।५० ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
वेपमानां कम्पमानाम् । उपलक्ष्य तत्कम्पेन तद्भयमुपलक्ष्य, भूयो भयजननेन एषा स्ववशीकर्तुं शक्येति मत्वा भयकारणार्थं भयोत्पादनार्थम् । स्वं स्वकीयं कुलादिकमाचचक्षे । कर्म पौरुषम् ॥ ३।४७।५० ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥