०४६ तपस्वीरूपेण रावणागमनम्

तया परुषमुक्तस्तु कुपितो राघवानुजः ।

स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ॥ ३।४६।१ ॥

अथ सीतायाः लक्ष्मणविषयपरुषभाषणफलं दर्शयत्येकादशभिः सर्गैः । रावणप्रलोभनमाह षट्चत्वारिंशे तया परुषमित्यादि । विकाङ्क्षन् अनिच्छन्नेव राममुद्दिश्य प्रतस्थे । नचिरादिव अविलम्बितमेव । इवशब्दो वाक्यालङ्कार इति वा । यद्वा नचिरादिव सीतात्यागासहिष्णुतया पादौ पश्चादाकर्षतः रामप्राप्तित्वरा तु पुरतः कर्षतीतीवशब्दस्य भावः ॥ ३।४६।१ ॥

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः ।

अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ॥ ३।४६।२ ॥

तदिति । आस्थितः अवकाशं प्रतीक्षमाणः स्थितो दशग्रीवः । तदेव अन्तरम् अवकाशम् । आसाद्य वैदेहीम् अभिचक्राम आभिमुख्येनाजगाम । परिव्राजको भिक्षुः तस्य रूपं लिङ्गं धारयतीति परिव्राजकरूपधृत् ॥ ३।४६।२ ॥

श्लक्ष्णकाषायसंवीतः शिखी छत्त्री उपानही ।

वामे चांसे ऽवसज्याथ शुभे यष्टिकमण्डलू ।

परिव्राजकरूपेण वैदीहीं समुपागमत् ॥ ३।४६।३ ॥

परिव्राजकलिङ्गान्याह श्लक्ष्णेति । शिखी अदन्तत्वाभावे ऽपि व्रीह्यादित्वादिनिः । छत्त्रीत्यत्र वाक्यसन्धेरनित्यत्वेन यणभावः । उपानहीत्यत्र इनिरार्षः । यष्टिः त्रिदण्डम् । शिखीत्यनेन साहचर्यात् । अत्र धर्मप्रधानजनककुलनन्दियाः सीताया विश्वासाय धृतत्वादित्थमेव यतिलिङ्गमिति दर्शितम् । तथाहाङ्गिराः “यतेर्लिङ्गं प्रवक्ष्यामि येनासौ लक्ष्यते यतिः । बह्मसूत्रं त्रिदण्डं च वस्त्रं जन्तुनिवारणम् । शिक्यं पात्रं बृसी चैव कौपीनं कटिवेष्टनम् । यस्यैतद्विद्यते लिङ्गं स यतिर्नेतरो यतिः ॥ " इति। परिव्राजकरूपेणेत्यनेन ब्रह्मसूत्रादिकमुक्तम्। समुपागमदिति प्रतिपाद्यार्थभेदात् पुनः पुनः क्रियापदप्रयोगः ॥ ३।४६।३ ॥

तामाससादातिबलो भ्रातृभ्यां रहितां वने ।

रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः ॥ ३।४६।४ ॥

तामिति । भ्रातृभ्यां रामलक्ष्मणाभ्याम् । महत्तम इत्यभूतोपमा, सन्ध्यायां महतस्तमसो ऽसम्भवात् ॥ ३।४६।४ ॥

तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ।

रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः ॥ ३।४६।५ ॥

तामिति । ग्रहः अङ्गारकः शनैश्चरो वा स रोहिणीमिव भृशदारुणो रावणस्तामपश्यत् । यथा रोहिण्याः क्रूरग्रहवीक्षणं लोकानर्थकरं तथा रावणस्य सीतावीक्षणमिति भावः ॥ ३।४६।५ ॥

तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः ।

समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः ॥ ३।४६।६ ॥

दारुणत्वं प्रकटयति तमुग्रमिति ॥ ३।४६।६ ॥

शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।

स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी ॥ ३।४६।७ ॥

शीघ्रस्रोताः शीघ्रप्रवाहा । वीक्षन्तं वीक्षमाणम् । स्तिमितमिति क्रियाविशेषणम् ॥ ३।४६।७ ॥

रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे ।

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः ॥ ३।४६।८ ॥

रामस्येति । रामस्य अन्तरप्रेप्सुः विश्लेषान्वेषी । तदन्तरे तस्मिन्नवकाशे । प्रथमं सीतामुद्दिश्य गमनम् अथाश्रमसमीपगमनं ततः सीतादर्शनं ततः सन्निकर्षगमनमिति क्रमः ॥ ३।४६।८ ॥

अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ।

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः ॥ ३।४६।९ ॥

अथाभिमुखगमनमाह अभव्य इति । अभव्यः दुर्जनः । भव्यरूपेण सुजनरूपेण । अनुशोचतीमिति आगमशासनस्यानित्यत्वान्नुमभावः ॥ ३।४६।९ ॥

स पापो भव्यरूपेण तृणैः कूप इवावृतः ।

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् ॥ ३।४६।१० ॥

स इति । पापः अन्तः पापात्मा । भव्यरूपेम बाह्याकारेणोपलक्षितः ॥ ३।४६।१० ॥

शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् ।

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥ ३।४६।११ ॥

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् ।

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः ॥ ३।४६।१२ ॥

बाष्पशोकाभिपीडितां रामार्तस्वरश्रवणेन बाह्यभ्यन्तरास्वास्थ्यवतीम् । पीतकौशेयं वस्ते इति पीतकौशेयवासिनीम् । णिन्यन्तात् ङीप् । अभ्यगच्छत पूर्वस्मादपि सन्निकर्षं प्राप्तः ॥ ३।४६।११,१२ ॥

स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् ।

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥ ३।४६।१३ ॥

स इति । ब्रह्मघोषम् “उपनिषदमावर्तयेत्” इत्युक्तपरिव्राजकोचितवेदघोषम् । प्रश्रितं विनयान्वितम् । रहिते विजनप्रदेशे ॥ ३।४६।१३ ॥

तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् ।

विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥ ३।४६।१४ ॥

तामिति । लोके उत्तमां स्त्रियमित्यन्वयः । प्रश्रितं वाक्यमब्रवीदित्यस्यैव विवरणं प्रशशंसेति ॥ ३।४६।१४ ॥

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि ।

कमलानां शुभां मालां पद्मिनीव हि बिभ्रती ॥ ३।४६।१५ ॥

काञ्चनवर्णाभे काञ्चनतुल्यवर्णे कमलानां मालां बिभ्रती पद्मिनीव स्थिता पद्मतुल्यमुखनयनपाणिपादविशिष्टत्वादिति भावः ॥ ३।४६।१५ ॥

ह्रीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने ।

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥ ३।४६।१६ ॥

ह्रीः विष्णुपत्नी भूमिः । “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ” इति श्रुतेः । श्रीः कमला । लक्ष्मीः कान्त्यधिष्ठानदेवता । रतिः मन्मथस्त्री । स्वैरचारिणी स्वतन्त्रा ॥ ३।४६।१६ ॥

समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव ।

विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ ३।४६।१७ ॥

विशालं जघनं पीनमूरू करिकरोपमौ ॥ ३।४६।१८ ॥

समाः वैषम्यरहिताः । शिखराणि अग्राणि प्रशस्तानि सन्तीति शिखरिणः । प्रशंसायामिनिः । कुन्दकुड्मलवत् प्रशस्ताग्रा इत्यर्थः । स्निग्धाः मसृणाः । रक्तान्ते रक्तरेखायुक्तान्ते । जघनं कटिपुरोभागः । “पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः” इत्यमरः ॥ ३।४६।१७,१८ ॥

एतावुपचितौ वृत्तौ संहतौ सम्प्रवल्गितौ ।

पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ ।

मणिप्रवेकाभरणै रुचिरौ ते पयोधरौ ॥ ३।४६।१९ ॥

एताविति । उपचितौ उन्नतौ । वृत्तौ वर्तुलौ । संहतौ अन्योन्यसंश्लिष्टौ । सम्यक् प्रकृष्टं वल्गितं चलनं ययोस्तौ सम्प्रवल्गितौ गुरुत्वौन्नत्याभ्यां किञ्चिच्चलन्ताविव स्थितावित्यर्थः । पीनोन्नतमुखौ क्वचित् स्तनयोः पीनत्वे ऽप्यग्रे औन्नत्यं पीनत्वं च न स्तः तथा न भवत इमौ किन्तु पीनम् उन्नतं च मुखं ययोस्तौ । कान्तौ काम्यमानौ । मणिप्रवेकाभरणौ मणिप्रवेकाः मणिश्रेष्ठाः । “प्रवेकानुत्तमोत्तमौ” इत्यमरः । ते मालात्मकाः आभरणं ययोस्तौ । रुचुरौ शोभमानौ । सूक्ष्मतरकौशेयोत्तरीयचलनवशेन हठाद् दृष्टः प्रकारो दुरात्मना वर्ण्यते ॥ ३।४६।१९ ॥

चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।

मनोहरसि मे कान्ते नदी कूलमिवाम्भसा ॥ ३।४६।२० ॥

चारुस्मित इति । चारवो दन्ता यस्याः सा चारुदती । आर्षो दन्तस्य दत्रादेशः छन्दोवद्भावेन “छन्दसी च” इति सूत्रेण समासान्तो दन्तस्य दत्रादेशो वा “उगितश्च” इति ङीप् । समा इत्यादिना पूर्वोक्तस्य सामान्योक्तिरियं चारुस्मितत्वनिर्वाहाय विलासो ऽम्भस्थानीयः अतो न न्यूनोपमा ॥ ३।४६।२० ॥

करान्तमितमध्यासि सुकेशी संहतस्तनी ॥ ३।४६।२१ ॥

करान्तेति । करान्तेन करतलाङ्गुष्ठप्रदेशिनीचक्रमानेन मितं परिच्छिन्नं मध्यं यस्याः सा । संहतस्तनीति पर्वं संहतावित्युक्तकल्पे ऽपि पुनरुक्तिर्दुर्लभलक्षणत्वविस्मयेन ॥ ३।४६।२१ ॥

नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।

नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ ३।४६।२२ ॥

एवंरूपा देवी देवस्त्री देवलोके न दृष्टा, एवमुत्तरत्रापि योज्यम् । नारी मनुष्यस्त्री ॥ ३।४६।२२ ॥

रूपमग्य्रं च लोकेषु सोकुमार्यं वयश्च ते ।

इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे ॥ ३।४६।२३ ॥

लोकेष्वग्य्रं श्रेष्ठं रूपं लावण्यं रूपादीनि कान्तारवासश्च उन्मादयन्ति परस्परविरुद्धत्वात् । किमत्र तवागमनमिति निर्णयबुद्धिं न जनयन्तीत्यर्थः ॥ ३।४६।२३ ॥

सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ।

राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ ३।४६।२४ ॥

सेति । प्रतिक्राम प्रतिनिवर्तस्व, निलयमिति शेषः । वस्तुं स्थातुम् ॥ ३।४६।२४ ॥

प्रासादाग्राणि रम्याणि नगरोपवनानि च ।

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ ३।४६।२५ ॥

सम्पन्नानि समृद्धानि । आचरितुं सञ्चरितुम् ॥ ३।४६।२५ ॥

वरं माल्यं वरं भोज्यं वरं वस्त्रं च शोभने ।

भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे ॥ ३।४६।२६ ॥

वरमिति । वरं श्रेष्ठम् । माल्यादि त्वद्युक्तं तव योग्यं मन्ये न तु यादृशतादृशम् । एमुत्तरत्रापि । यद्वा माल्यादिकं त्वद्युक्तं त्वत्सम्बद्धं सत् वरं प्रशस्तं भवतीति मन्ये ॥ ३।४६।२६ ॥

का त्वं भवसि रुद्राणां मरूतां वा वरानने ।

वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ३।४६।२७ ॥

का त्वमिति । त्वं मे दवेता देवस्त्रीति प्रतिभासि । तत्र का त्वं किं रुद्राणां सम्बन्धिनी उत मरुताम् आहोस्विद्वसूनां सम्बन्धिनी । वाकरः समुच्चयार्थः । तेन किमादित्यानामित्यपि सिद्ध्यति ॥ ३।४६।२७ ॥

नेह गच्छन्ति गन्धर्वा न देवा न च किन्निराः ।

राक्षसानामयं वासः कथं नु त्वमिहागता ॥ ३।४६।२८ ॥

तत्रापि संशयनिवृत्तिमाह नेहेति ॥ ३।४६।२८ ॥

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा ।

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसि ॥ ३।४६।२९ ॥

भयहेत्वन्तरमाह इहेति । शाखामृगाः वानराः । द्वीपं चर्म तद्योगात् द्वीपिनो बालव्याघ्राः । व्याजिघ्रन्तीति व्याघ्राः द्वीप्यपेक्षया किञ्चिन्महान्तो ऽमी । तरक्षवो मृगादनाः महाव्याघ्राः । न बिभ्यसि न बिभेषि । कङ्काः मांसादा भयङ्कराकृतयः पक्षिविशेषाः ॥ ३।४६।२९ ॥

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ।

कथमेका महारण्ये न बिभेषि वरानने ॥ ३।४६।३० ॥

प़ञ्चम्यर्थे षष्ठी । तरस्विनां बलवताम् ॥ ३।४६।३० ॥

का ऽसि कस्य कुतश्चित्वं किन्निमित्तं च दण्डकान् ।

एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥ ३।४६।३१ ॥

का ऽसीति । का ऽसि किन्नामधेया ऽसि । कस्य सम्बन्धिनी कुतः कस्माद्देशादागता ऽसि ॥ ३।४६।३१ ॥

इति प्रशस्ता वैदेही रावणेन दुरात्मना ।

द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम् ।

सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥ ३।४६।३२ ॥

इतीति । द्विजातिवेषेण सन्न्यासिवेषेण । हितं सहितम् । सत्क्रियते एभिरिति सत्काराः पूजाद्रव्याणि तैः ॥ ३।४६।३२ ॥

उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च ।

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३।४६।३३ ॥

उक्तं विवृणोति उपनीयेति । पाद्येन पादोदकेन । अभिनिमन्त्र्य सत्कृत्य । तदा पाद्यप्रदानानन्तरं सिद्धमित्येवाब्रवीत् । पक्वान्नं सिद्धमित्यब्रवीत् ॥ ३।४६।३३ ॥

द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् ।

अशक्यमुद्द्वेष्टुमपायदर्शनं न्यमन्त्रयद् ब्राह्मणवत्तदाङ्गाना ॥ ३।४६।३४ ॥

उक्तमर्थं सर्गान्तश्लोकाभ्यां विवृणोति द्विजातीत्यादि । द्विजातिवेषेण समागतम् । पात्रम् अलाबुप्रभृतिष्वेकं कुसुम्भं महारजताख्यरञ्जकद्रव्यविशेषरक्तं वस्त्रम् । “तेन रक्तम्” इति प्राप्तस्याणो लोप आर्षः । यद्वा कुसुम्भः कमण्डलुः । “स्यान्महारजने क्लीबं कुसुम्भं करके पुमान्” इत्यमरः । तदुभयधारिणम् । अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । अत एव उद्द्वेष्टुं भोजयितुमशक्यं तं समीक्ष्य मैथिली ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् । ब्राह्मणातिथिवन्निमन्त्रितवतीत्यर्थः । यद्वा ब्राह्मणवत् ब्राह्मणार्हम् “तदर्हम्” इति वतिः । यद्वा मैथिली जनककुलजाततया तद्व्यवहारपरिपाटीविज्ञातकपटवेषा ऽपि सन्न्यासिवेषधारणमात्रेण उद्द्वेष्टुं द्वेषं कर्तुम् अशक्यं तं न्यमन्त्रयत् । “काषायदण्डमात्रेण यतिः पूज्यो न संशयः” इति वचनादिति भावः ॥ ३।४६।३४ ॥

इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति ।

इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३।४६।३५ ॥

सत्कारप्रकारमाह इयमिति । इंय बृसी मुनीनामासनम् । आस्यतां त्वदर्थं सिद्धं पक्वम् इदं वनजातं कन्दमूलफलादिकम् । इह स्थले अव्यग्रमुपभुज्यताम् । इतिकरणस्य उत्तरश्लोके ऽन्वयः ॥ ३।४६।३५ ॥

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् ।

प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्मवधाय रावणः ॥ ३।४६।३६ ॥

निमन्त्र्यमाण इति । प्रतिपूर्णभाषिणीं सर्वं सम्पन्नमित्यतिथये वक्तव्यं वचनं भाषमाणम् । धृतं धीरं यथा तथा मनोविशेषणं वा । तस्या हरणे मनः समार्पयत् निहितवान् ॥ ३।४६।३६ ॥

ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा ।

विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ ॥ ३।४६।३७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥

सुवेषं शोभनाकारम् । मृगयागतं मृगयार्थं गतं पतिं प्रतीक्षमाणा प्रतिपालयन्ती हरितं यत्र गतौ तौ तां दिशं विवीक्षमाणा विविधं पश्यन्ती । महद्वनमेव ददर्श रामलक्ष्मणौ तु न ददर्श ॥ ३।४६।३७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्चत्वारिंशः सर्गः ॥ ४६ ॥