०४३ स्वर्णमृगग्रहणर्थं रामगमनम्

सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती ।

हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥ ३।४३।१ ॥

प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी ।

भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम् ॥ ३।४३।२ ॥

तया ऽ ऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ ।

वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ॥ ३।४३।३ ॥

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत् ।

तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ ३।४३।४ ॥

सीतायास्त्वेकनाथायाः पूरयिष्यन् मनोरथम् । मायागृगं यो ऽनुययौ श्रीरामं तमुपास्महे ॥ सा तमित्यादि । हैमराजतवर्णाभ्यामित्यनेन द्वयोः पार्श्वयोर्वर्णभेद उच्यते । मष्टं शुद्धं हाटकं सुवर्णं तस्य वर्णो ऽस्या अस्तीति तथा । “स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्” इत्यमरः । अभिचक्रन्द उच्चैराह्वयत् “क्रदि आह्वाने रोदने च” इति धातुः । सायुधमित्यनेनायुधेन सहागन्तव्यमित्याहूतवतीति गम्यते ॥ ३।४३।१४ ॥

चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने ।

अनेन निहता राजन् राजानः कामरूपिणा ॥ ३।४३।५ ॥

मृगयां चरन्तः मृगयार्थं पर्यटन्तो राजानः । अनेन पापेन मृगरूपोपाधिना निमित्तेन हताः ॥ ३।४३।५ ॥

अस्य मायाविदो माया मृगरूपमिदं कृतम् ।

भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम् ॥ ३।४३।६ ॥

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ।

जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ ३।४३।७ ॥

मायां वेत्तीति मयावित् तस्य । मायैव मृगरूपं कृतं मृगाकारेण परिणतम् । भानुमत् प्रकाशवत् । गन्धर्वपुरं नानाविधविस्मयनीयाकारसंस्थानं क्षणभङ्गुरमभ्रं तत्सन्निभम्, तद्वद्विस्मयनीयमित्यर्थः । जगत्यां भूमौ ॥ ३।४३।६,७ ॥

एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता ।

उवाच सीता संहृष्टा चर्मणा हृतचेतना ॥ ३।४३।८ ॥

काकुत्स्थं प्रतिवार्य निवर्त्य उवाच, राममिति शेषः । तत्र हेतुश्चर्मणेति । हृतचेतना हृतप्रज्ञा ॥ ३।४३।८ ॥

आर्यपुत्राभिरामो ऽसौ मृगो हरति मे मनः ।

आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ३।४३।९ ॥

नो भविष्यति नः भविष्यति । न भविष्यतीत्यपि वाग्दोषः ॥ ३।४३।९ ॥

इहाश्रमपदे ऽस्माकं बहवः पुण्यदर्शनाः ।

मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा ॥ ३।४३।१० ॥

ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा ।

विचरन्ति महाबाहो रूपश्रेष्ठा मनोहराः ॥ ३।४३।११ ॥

सहिताः सङ्घीभूताः । सृमराः व्यालमृगाः । “सृमरः स्याद्व्यालमृगः” इति वैजयन्ती । चमराः चामरमृगाः । ऋक्षाः भल्लूकाः । पृषताः बिन्दुमृगाः । किन्नराः मृगविशेषाः ॥ ३।४३।१०,११ ॥

न चास्य सदृशो राजन् दृष्टूपर्वो मृगः पुरा ।

तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥ ३।४३।१२ ॥

तेजसा वर्णेन । क्षमया अत्वरया । दीप्त्या शारीरप्रकाशेन । यथायं मृगो दृश्यते तथा तेज आदिभिः अस्य सदृशो मृगो न दृष्टपूर्वः । पुरा भाविकाले ऽपि न दृश्यत इति शेषः । “स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा” इत्यमरः ॥ ३।४३।१२ ॥

नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः ।

द्योतयन् वनमव्यग्रं शोभते शशिसन्निभः ॥ ३।४३।१३ ॥

समाचितः व्याप्तः । अव्यग्रं समग्रं यथा तथा शोभते । शशिसन्निभः आनन्दकरत्वेन शशिसाम्यम् ॥ ३।४३।१३ ॥

अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना ।

मृगो ऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥ ३।४३।१४ ॥

रूपं वर्णः । लक्ष्मीः कान्तिः । उक्तानुवादपूर्वकं मनोहरत्वमाह मृग इति । अतो न पूर्वार्धेन गतार्थता ॥ ३।४३।१४ ॥

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव ।

आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ ३।४३।१५ ॥

समाप्तवनवासानां राज्यस्थानां च नः पुनः ।

अन्तःपुरविभूषार्थो मृग एष भविष्यति ॥ ३।४३।१६ ॥

यदिति श्लोकद्वयमेकान्वयम् । तव ग्रहणं त्वत्कर्तृकग्रहण् । कर्तरि षष्ठी । तदा एष मृगः आश्चर्यभूतम् । अस्माकं विस्मयावहं सत्त्वं भवति इदानीमिति शेषः । समाप्तवनवासानाम् अत एव पुनः राज्यस्थानां च नः विस्मयं जनयिष्यति किञ्च अन्तःपुरविभूषार्थो ऽपि भविष्यति ॥ ३।४३।१५,१६ ॥

भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो ।

मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ ३।४३।१७ ॥

आर्यपुत्रस्य तव श्वश्रूणां मम श्वश्रूणां चेति योजना । मृगरूपं प्रशस्तमृगः । प्रशंसायां रूपप् प्रत्ययः । मृगस्य रूपं वा ॥ ३।४३।१७ ॥

जीवन्न यदि ते ऽभ्येति ग्रहणं मृगसत्तमः ।

अजिनं नरशार्दूल रुचिरं मे भविष्यति ॥ ३।४३।१८ ॥

जीवतः अग्रहणे ऽपि प्रयोजनमाह जीवन्निति । अजिनं चर्म । रुचिरं प्रियम् ॥ ३।४३।१८ ॥

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि ।

शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ ३।४३।१९ ॥

प्रियत्वमेव विवृणोति निहतस्येति । जाम्बूनदमयत्वचि स्वर्णसदृशत्वचि । शष्पबृस्यां बालतृणैः कृतायां बृस्याम् । मध्यमपदलोपिसमासः । “व्रतिनामासनं बृसी” इत्यमरः । तस्यां विनीतायाम् आस्तृतायाम् । उक्तरूपत्वचि उपासितुं स्थातुम् इच्छामि, सहेति शेषः ॥ ३।४३।१९ ॥

कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् ।

वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ ३।४३।२० ॥

अथ सविनयमाह कामवृत्तमिति । रौद्रं घोरम् इदं कामवृत्तं भर्तृप्रेरणरूपस्वेच्छाव्यापारः । स्त्रीणाम् असदृशम् अयुक्तं कैकेयीवत्, तथाप्यस्य सत्त्वस्य तु वपुषा विलक्षणदेहेन मम विस्मयो जनितः ममात्यन्तं कुतूहलं वर्तते, आनयेति वक्तुमप्ययुक्तम् अतः तवापि कुतूहलमस्ति चेत्तथा क्रियतामिति भावः । अनेन पूर्वमानयेति प्रमादादुक्तस्य क्षमापणं कृतम् ॥ ३।४३।२० ॥

तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा ।

तारुणादित्यवर्णेन नक्षत्रपथवर्चसा ।

बभूव राघवस्यापि मनो विस्मयमागतम् ॥ ३।४३।२१ ॥

न केवलं स्त्रीपारवश्येन कृतवान् किन्तु स्वविस्मयेनापीत्याह तेनेत्यादिना । मणिप्रवरो नीलरत्नम् । काञ्चनवर्णरोमत्वात् बालसूर्यवर्णत्वम् । नक्षत्रपथः छायापथः तत्तुल्यवर्चसा नक्षत्रसदृशबिन्दूपलक्षितत्वात् । आगतं प्राप्तम् ॥ ३।४३।२१ ॥

एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम् ।

लोभितस्तेन रूपेण सीतया च प्रचोदितः ॥ ३।४३।२२ ॥

उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ ३।४३।२३ ॥

रूपेण मृगेण । “रूपं मृगे ऽपि विज्ञेयम्” इति हलायुधः ॥ ३।४३।२२,२३ ॥

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ।

रूपश्रेष्ठतया ह्येष मृगो ऽद्य न भषिष्यति ॥ ३।४३।२४ ॥

पश्येति । सीता स्पृहायुक्तेति भावः । तत्र हेतुमाह रूपेति । मृगेषु श्रेष्ठतया रूपेण श्रेष्ठतया वा । एष मृगः एतादृशमृगः । अद्य वनवासे । न भविष्यति न सेत्स्यति दुर्लभ इत्यर्थः ॥ ३।४३।२४ ॥

न वने नन्दनोद्देशे न चैत्ररथसंश्रये ।

कुतः पृथिव्यां सौमित्रे यो ऽस्य कश्चित्समो मृगः ॥ ३।४३।२५ ॥

न केवलमत्र देशान्तरे ऽपि दुर्लभ इत्याह न वन इति । नन्दन इत्युद्देशः कीर्तनं यस्य तस्मिन् वने चैत्ररथसंश्रये चैत्ररथाख्ये वने च न भविष्यतीत्यनुषज्यते पृथिव्यां कुतो हेतोर्भविष्यति ॥ ३।४३।२५ ॥

प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ।

शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ ३।४३।२६ ॥

प्रतिलोमाः तिर्यग्भूताः । अनुलोमाः अनुकूलाः रोमराजयश्च मृगमाश्रित्य दृश्यन्ते । चित्राः आश्चर्यभूताः कनकबिन्दवः कनकवर्णबिन्दवश्च मृगमाश्रित्य शोभन्ते ॥ ३।४३।२६ ॥

पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् ।

जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ॥ ३।४३।२७ ॥

पश्येति । शतह्रदां तडितम् ॥ ३।४३।२७ ॥

मसारगल्लर्कमुखः शङ्खमुक्तानिभोदरः ।

कस्य नामाभिरूपो ऽसौ न मनो लोभयेन्मृगः ॥ ३।४३।२८ ॥

मसारः इन्द्रनीलः । गल्लर्कः चषकः । “गल्लर्कश्चानुतर्षश्च तर्षकश्चषकः स्मृतः” इति हलायुधः । इन्द्रनीलनिर्मितचषकाकारमुखसम्पुट इत्यर्थः । अभिरूपः सुन्दरः ॥ ३।४३।२८ ॥

कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयं प्रभो ।

नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥

[किं पुनर्मैथिली सीता बाला नारी न विस्मयेत् ।] ॥ ३।४३।२९ ॥

कस्येति । रूपं मृगम् । जाम्बूनदमयेति स्वार्थे मयट् । नानारत्नमयं नानाबिन्दुप्रचुरम् ॥ ३।४३।२९ ॥

मांसहेतोरपि मृगान् विहारार्थं च धन्विनः ।

घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ ३।४३।३० ॥

मांसहेतोरपि विनोदार्थं च राजानो मृगान् घ्नन्ति, किं पुनरेवंविधविचित्रवस्तुलाभहेतोरिति भावः ॥ ३।४३।३० ॥

धनानि व्यवसायेन विचीयन्ते महावने ।

धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ॥ ३।४३।३१ ॥

एतन्मृगरूपं महद्धनम् एतच्च वन एव सम्भवति तस्मादिदं व्यवसायेन स्वीकर्तव्यमित्यभिप्रायेणाह धनानीति । मणिरत्नं मणिश्रेष्ठं सुर्वर्णं च मणिरत्नसुवर्णे ते येषु स्त इति मणिरत्नसुवर्णिनः मणयः सुवर्णानि च धातुषु भवन्तीति प्रसिद्धिः । तथाभूता विविधा धातवश्च धनानि करिमस्तकमुक्ताप्रभृतीनि महावने व्यवसायेन मृगयोद्योगेन राजभिः विचीयन्ते सङ्गृह्यन्ते । यद्वा धनानि व्यवसायेन मृगयोद्योगेन महावने विचीयन्ते । ननु कुतो वने धनसङ्ग्रहप्रसक्तिरित्यत्राह धातव इति । यस्मादुक्तरूपा विविधा धातवः सन्ति तस्मादित्यर्थः ॥ ३।४३।३१ ॥

तत्सारमखिलं नृ़णां धनं निचयवर्धनम् ।

मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ ३।४३।३२ ॥

तेषां धनानां सारं श्रेष्ठभूतम् । अखिलं धनं नृ़णां निचयवर्धनं कोशवर्धनं भवेत् । किमिव शुक्रस्य मनसा चिन्तितं सङ्कल्पितं वस्तुजातं तथैवाविर्भूय निचयवर्धनं यथा तद्वदित्यर्थः । यद्वा नृ़णां मनसा चिन्तितं वृथामनोरथकल्पितं सर्वं धनं यथा शुक्रस्य कोशं पूरयति तथेत्यर्थः । तदुक्तमुद्योगपर्वणि “मनुष्येभ्यः समादत्ते शुक्रश्चिन्तार्जितं धनम् ।” इति । यद्वा नृ़णां राजादिधनिनां कोशवर्धनं तत् वन्यं धनं सारं भवति जानपदधनादपि वन्यं धनं सारम् अतिप्रशस्तं भवति अपूर्वत्वात् अतो निवृत्तवनवासैरस्माभिर्वनादपूर्वधनतया पुरीं नेतुमयं ग्रहीतव्य इति भावः ॥ ३।४३।३२ ॥

अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।

तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ॥ ३।४३।३३ ॥

अस्त्विदम् अथापि विचार्य कार्यमिति चेत्तत्राह अर्थीति । अर्थी असन्निहितार्थापेक्षी । “अर्थाच्चासन्निहिते” इति इनिप्रत्ययः । सः येन अर्थकृत्येन अर्थकार्येण हेतुना अविचारयन् संव्रजति सम्यग्गच्छति यद्वस्तुसौन्दर्यजातोपकारलोभेन पुरुषस्तत्साधने व्यग्रः प्रवर्तते तमेवार्थं प्राहुः । अर्थशास्त्रज्ञाः नीतिशास्त्रज्ञाः । अर्थ्या अर्थादनपेताश्च । “अर्थ्यो ऽभिज्ञार्थशालिनोः” इत्यजयः । “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः । यस्य गुणप्रीतः पुरुषः अभिनिविशते स एवार्थ इति नीतिशास्त्रज्ञा अर्थवन्तश्चाहुः । अय़ञ्च तथाविध इति भावः ॥ ३।४३।३३ ॥

एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि ।

उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३।४३।३४ ॥

एवं प्रयत्नसम्पाद्यं वस्त्वयमेव मृग इत्यभिप्रायेणाह एतस्येति । मृगरत्नस्य मृगश्रेष्ठस्य । परार्घ्ये श्लाध्ये । काञ्चनत्वचि काञ्चनसदृशत्वचि । पुँल्लिङ्गत्वमार्षम् ॥ ३।४३।३४ ॥

न कादली न प्रियकी न प्रवेणी न चाविकी ।

भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः ॥ ३।४३।३५ ॥

परार्ध्यत्वं विवृणोति नेति । कदल्येव कादली मृगाविशेषः । तल्लक्षणमुक्तं वैजयन्त्याम् “कदली तु बिले शेते मृदुसूक्ष्मोच्चकर्बुरैः । नीलाग्रैर्लोमभिर्युक्ता सा विंशत्यङ्गुलायता । प्रियकी लोमभिर्युक्ता मृदुश्च मसृणैर्घनैः ॥ " इति। प्रवेणी आस्तरणविशेषः मृगविशेषो वा। अविरेव अविकः “अवेः कः” इति स्वार्थे कप्रत्ययः। तस्येयमाविकी तल्लोमनिर्मिता शाटीत्यर्थः। स्पर्शनेन मार्दवेन ॥ ३।४३।३५ ॥

एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः ।

उभावेतै मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ३।४३।३६ ॥

दिव्यः श्लाघ्यः । नभश्चरो मृगः मृगशीर्षः । दिव्यौ शोभमानौ ॥ ३।४३।३६ ॥

यदि वा ऽयं तथा यन्मां भवेद्वदसि लक्ष्मण ।

मायैषा राक्षसस्येति कर्तव्यो ऽस्य वधो मया ॥ ३।४३।३७ ॥

एवं सीतामतमङ्गीकृत्य प्रवृत्तिरुक्ता । अथ लक्ष्मणमतमङ्गीकृत्याह यदि वेति । मायैषा राक्षसस्येति यन्मां वदसि तथायं यदि वा भवेत् एवमप्यस्य वधो मया कार्यः ॥ ३।४३।३७ ॥

एतेन हि नृशंसेन मारीचेनाकृतात्मना ।

वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः । ३।४३।३८ ॥

हनने हेतुत्वेन तदीयदौरात्म्यमाविष्करोति एतेन हीति । नृशंसेन घातुकेन । अकृतात्मना दुष्टभावेन ॥ ३।४३।३८ ॥

उत्थाय बहवो येन मृगयायां जनाधिपाः ।

निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ ३।४३।३९ ॥

उत्थाय प्रादुर्भूय ॥ ३।४३।३९ ॥

पुरस्तादिह वातापिः परिभूय तपस्विनः ।

उदरस्थो द्विजान् हन्ति स्वगर्भो ऽश्वतरीमिव ॥ ३।४३।४० ॥

पूर्वोक्तमपि वातापिवृत्तान्तं मारीचस्य मायाव्यापारे दृष्टान्तत्वेनाह पुरस्तादिति पुरस्तात् पूर्वस्मिन्काले । इह दण्डकारण्ये । अश्वतरो नाम गर्दभादश्वायामुत्पन्न इति वृत्तिकारः । “गोखरो ऽश्वतरो मतः” इति हलायुधः । तत्स्वरूपमुक्तं शालिहोत्रीये “खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्घ्रयः” इति । तामश्वतरीं स्वगर्भो यथा हन्ति तथायमपि गर्भस्थो द्विजन् हन्ति । अश्वतरी वृश्चिकेत्यप्याहुः ॥ ३।४३।४० ॥

स कदाचिच्चिराल्लोभादाससाद महामुनिम् ।

अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव ह ॥ ३।४३।४१ ॥

भक्षः आहारः ॥ ३।४३।४१ ॥

समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम् ।

उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ॥ ३।४३।४२ ॥

समुत्थाने श्राद्धान्ते । तद्रूपं रक्षोरूपम् । उत्स्मयित्वा ईषत्स्मित्वा । ल्यबभाव आर्षः ॥ ३।४३।४२ ॥

त्वया ऽविगण्य वातापे परिभूताः स्वतेजसा ।

जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ॥ ३।४३।४३ ॥

अविगण्य अविचार्य पापमिति शेषः । जीवलोके भूलोके । जरां जीर्णताम् । इति वातापिमब्रवीदिति पूर्वेणान्वयः ॥ ३।४३।४३ ॥

तदेतन्न भवेद्रक्षो वातापिरिव लक्ष्मण ।

मद्विधं यो ऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ।

भवेद्धतो ऽयं वातापिरगस्त्येनेव मां गतः ॥ ३।४३।४४ ॥

तदिति रक्षःशब्दाभिप्रायेण नपुंसकत्वम् । अतिमन्येत अतिक्रामेत् । मां गत इति । अगस्त्यो यथा अजरूपं वातापिं लोकहितार्थं नाशितवान् तथाहमपि मृगरूपमेनं हनिष्यामीत्यर्थः ॥ ३।४३।४४ ॥

इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् ।

अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन ॥ ३।४३।४५ ॥

सन्नद्धः धनुःकवचादिसन्नाहयुक्तः । यन्त्रितः व्याक्षेपान्तररहितः । अस्यामिति । अस्माकं यत्कृत्यमावश्यकं तत् सर्वमस्यामायत्तम् एतद्रक्षणप्रधानमित्यर्थः । एतन्मूलतया रावणवधादिकं कर्तव्यम् । इयं हि पूर्वं वेदवतीभावे तथा, सङ्कल्पितवतीत्यपि सूचयति ॥ ३।४३।४५ ॥

अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम् ।

यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् ॥ ३।४३।४६ ॥

अहमिति । यावद्गच्छामि गमिष्यामि । “यावत्पुरानिपातयोः” इति भविष्यदर्थे लट् ॥ ३।४३।४६ ॥

पश्य लक्ष्मण वैदेहीं मृगत्वचिगतस्पृहाम् ।

त्वचा प्रधानया ह्येष मृगो ऽद्य न भविष्यति ॥ ३।४३।४७ ॥

पश्येति । गतस्पृहां प्राप्तस्पृहाम् । प्रधानया प्रधानप्रयोजनभूतया न भविष्यति मरिष्यतीत्यर्थः । अत्र सीताप्रार्थितमेव प्रधानप्रयोजनम्, अन्यदानुषङ्गिकमित्यर्थः ॥ ३।४३।४७ ॥

अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ३।४३।४८ ॥

यावत्पृषतमेकेन सायकेन निहन्म्यहम् ।

हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ ३।४३।४९ ॥

अप्रमत्तेनेति । सीतया हेतुभूतया आश्रमस्थेन ते त्वया अप्रमत्तेन भाव्यम्, आश्रमस्थो ऽप्रर्मत्तः सन् सीतारक्षणं कुर्वित्यर्थः । पृषतं मृगम् ॥ ३।४३।४८,४९ ॥

प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण ।

भवाप्रमत्तः परिगृह्य मैथीलीं प्रतिक्षणं सर्वत एव शङ्कितः ॥ ३।४३।५० ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥

प्रदक्षिणेन अत्यन्तसमर्थेन । जटायुषेति सहार्थे तृतीया । “वृद्धो यूना” इति ज्ञापकात् । मैथिलीं परिगृह्य स्ववशीकृत्य सर्वतः शङ्कित एव प्रतिक्षणमतिशङ्क्येवाप्रमत्तो भवेत्यन्वयः । अत्र पञ्चाशच्छ्लोकाः ॥ ३।४३।५० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥