कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् ।
बलं नागसहस्रस्य धारयन् पर्वतोपमः ॥ ३।३८।१ ॥
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।
भयं लोकस्य जनयन् किरीटी परिघायुधः ।
व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् ॥ ३।३८।२ ॥
आबाल्यसिद्धसहजशौर्यादिगुणशेवधिः । रघुनाथो महाप्रीत्या परिस्फुरतु सर्वतः ॥ तद्गुणजातं न युक्त्या कल्पयित्वोच्यते किन्त्वनुभवसिद्धमित्याह कदाचिदित्यादिना । सार्धश्लोकद्वयमेकान्वयम् । अहं व्यचरमित्यन्वयः । नागो गजः । भयजनने हेतुमाह नीलेत्यादिना ॥ ३।३८।१,२ ॥
विश्वामित्रो ऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ।
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् ॥ ३।३८।३ ॥
विश्वामित्र इति । मदिति पञ्चमी ॥ ३।३८।३ ॥
अद्य रक्षतु मां रामः पर्वकाले समाहितः ।
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर ॥ ३।३८।४ ॥
इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ।
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् ॥ ३।३८।५ ॥
पर्वकाले यज्ञसुत्याकाले ॥ ३।३८।४,५ ॥
बालो द्वादशवर्षो ऽयमकृतास्त्रश्च राघवः ।
कामं तु मम यत्सैन्यं मया सह गमिष्यति ॥ ३।३८।६ ॥
बलेन चतुरङ्गेण स्वयमेत्य निशाचरान् ।
वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान् ॥ ३।३८।७ ॥
द्वादशवर्षः द्वादशवर्षवयस्कः । केचित्तु इदं रावणबिभीषयोक्तम् वस्तुत ऊनषोडशवर्ष इत्यक्तमित्यीचुः । कामं भृशम् । यत्सैन्यं तदित्यध्याहार्यम् ॥ ३।३८।६,७ ॥
इत्येवमुक्तः स मुनी राजानमिदमब्रवीत् ।
रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः ॥ ३।३८।८ ॥
देवातानामपि भवान् समरेष्वभिपालकः ।
आसीत्तव कृतं कर्म त्रिलोके विदितं नृप ॥ ३।३८।९ ॥
काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप ।
बालो ऽप्येष महातेजाः समर्थस्तस्य निग्रहे ॥ ३।३८।१० ॥
गमिष्ये राममादाय स्वस्ति ते ऽस्तु परन्तप ॥ ३।३८।११ ॥
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम् ।
जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ ३।३८।१२ ॥
रामादन्यत् बलं सैन्यं तस्य न पर्याप्तं न समर्थम् । दशरथस्य कोपो मा भूदिति सान्त्वयति देवतानामिति । आसीदिति । तव कृतं त्वाय कृतं कर्म । त्रिलोके लोकत्रये । आर्षत्वान्न ङीष् । विदितं प्रसिद्धम् । यद्यपि महत्सैन्यमप्यस्तु तथापि तत्सर्वमिह तिष्ठतु, प्रकृतकार्यासामर्थ्यादिति भावः ॥ ३।३८।८१२ ॥
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् ।
बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः ॥ ३।३८।१३ ॥
रामः चित्रं धनुः विस्फारयन् नयन् सन् । उपस्थितः रक्षणाय समीपं प्राप्तो बभूवेत्यर्थः ॥ ३।३८।१३ ॥
अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः ।
एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ ३।३८।१४ ॥
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा ।
अदृश्यत ततो रामो बालचन्द्र इवोदितः ॥ ३।३८।१५ ॥
अजातेत्यादिश्लोकद्वयमेकान्वयम् । अजातव्यञ्जनः अनुत्पन्नयौवनलक्षणः । एकवस्त्रधरः ब्रह्मचर्यव्रते स्थित इत्यर्थः । शिखी कुलोचितशिखायुक्तः । व्रीह्यादित्वादिनिः । कनकमालयेत्युपलक्षणे तृतीया । शोभयन् मयूरकण्ठच्छायया व्याप्तं कुर्वन्नित्यर्थः । उदितचन्द्रौपम्येन विरोधिनिरसनोद्युक्तत्वं गम्यते । शत्रोरपि विग्रहवर्णनमाकर्षकतया ॥ ३।३८।१४,१५ ॥
ततोहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः ।
बली दत्तवरो दर्पादाजगाम तदाश्रमम् ॥ ३।३८।१६ ॥
तेन दृष्टः प्रविष्टो ऽहं सहसैवोद्यतायुधः ।
मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार सः ॥ ३।३८।१७ ॥
तत इति । आजगामेत्युत्तमपुरुषः ॥ ३।३८।१६,१७ ॥
अवजानन्नहं मोहाद्बालोयमिति राघवम् ।
विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः ॥ ३।३८।१८ ॥
मोहात् अवजानन् तिरस्कुर्वन् ॥ ३।३८।१८ ॥
तेनमुक्तस्ततो बाणः शितः शत्रुनिबर्हणः ।
तेनाहं त्वाहतः क्षिप्तः समुद्रे शतयोजने ॥ ३।३८।१९ ॥
तेन रामेण । बाणो मुक्तः मयि क्षिप्त इत्यर्थः ॥ ३।३८।१९ ॥
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः ।
रामस्य शरवेगेन निरस्तो ऽहमचेतनः ॥ ३।३८।२० ॥
पातितो ऽहं तदा तेन गम्भीरे सागराम्भसि ।
प्राप्य सञ्ज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम् ॥ ३।३८।२१ ॥
नेच्छता अनिच्छता । नशब्दस्य “सुप्सुपा” इति समासः । अनिच्छाहेतुर्न ज्ञायते स्वयं हन्तुं समर्थ एवेति भावः । अचेतनः निश्चेष्टः मूर्च्छितो वा ॥ ३।३८।२०,२१ ॥
एवमस्मि तदा मुक्तः सहायास्तु निपातिताः ।
अकृतास्त्रेण बालेन रामेणाक्लिष्टर्मणा ॥ ३।३८।२२ ॥
तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम् ।
करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण ॥ ३।३८।२३ ॥
निपातिताः हताः ॥ ३।३८।२२,२३ ॥
क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम् ।
रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि ॥ ३।३८।२४ ॥
क्रीडा लीला, रतिः भोगः तयोर्विधिः क्रमः तज्ज्ञानां तत्र सक्तानामित्यर्थः । समाजः सभा । अनर्थं दुःखम् । सन्तापः तत्कार्यम् । आहरिष्यसि यत्नेन सम्पादयिष्यसि ॥ ३।३८।२४ ॥
हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम् ।
द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते ॥ ३।३८।२५ ॥
हर्म्येति “हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्” इत्यमरः । सम्बाधां निबिडाम् रत्नविभूषितां गृहद्वारादौ ॥ ३।३८।२५ ॥
अकुर्वन्तो ऽपि पापानि शुचयः पापसंश्रयात् ।
परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ ३।३८।२६ ॥
त्वद्दोषेण सकलराक्षसक्षयो भविष्यतीति दर्शयिष्यन् तदर्थमसत्सङ्गदोषन्यायारूढमुपवर्णयति अकुर्वन्तो ऽपीति । शुचयः परिशुद्धाः, अपापा इत्यर्थः । पापान्यकुर्वन्तो ऽपि पापसंश्रयात् पापपुरुषसंसर्गात् परपापैर्विनश्यन्ति । यथा नागह्रदे सर्पह्रदे नागनिग्रहाय प्रवृत्तेन मत्स्या अपि तत्सहवासाद्धन्यन्ते तद्वदित्यर्थः ॥ ३।३८।२६ ॥
दिव्यचन्द्रनदिग्धाङ्गान् दिव्याभरणभूषितान् ।
द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान् ॥ ३।३८।२७ ॥
दिव्येति । तव दोषात् तव दोषादेव ॥ ३।३८।२७ ॥
हृतदारान् सदारांश्च दश विद्रवतो दिशः ।
हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥ ३।३८।२८ ॥
हृतदारान् त्यक्तदारान् । अशरणान् रक्षकरहितान् ॥ ३।३८।२८ ॥
शरजालपरिक्षिप्तामग्निज्वालासमावृताम् ।
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः ॥ ३।३८।२९ ॥
प्रदग्धभवानां प्रकर्षेण द्गधगृहम् ॥ ३।३८।२९ ॥
परदाराभिमर्शात्तु नान्यत् पापतरं महत् ।
प्रमदानां सहस्राणि तव राजन् परिग्रहः ॥ ३।३८।३० ॥
भव स्वदारनिरतः स्वकुलं रक्ष राक्षस ।
मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ॥ ३।३८।३१ ॥
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च ।
यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम् ॥ ३।३८।३२ ॥
एवं दृष्टदोषमुपपाद्यादृष्टदोषं दर्शयति परदारेति । “परिग्रहः कलत्रे स्यात्” इति शाश्वतः । जात्यभिप्रायेणैकवचनम् । रामविप्रियं रामापराधम् ॥ ३।३८।३०३२ ॥
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि ।
गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः ॥ ३।३८।३३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टात्रिंशः सर्गः ॥ ३८ ॥
प्रसह्य बलात्कृत्य, मामनादृत्येत्यर्थः । रामशरेण आत्तम् आकृष्टम्, नाशितमिति यावत् । तादृशं जीवितं यस्य सः ॥ ३।३८।३३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टात्रिंशः सर्गः ॥ ३८ ॥