मारीच श्रूयतां तात वचनं मम भाषतः ।
आर्तो ऽस्मि मम चार्तस्य भावन् हि परमा गतिः ॥ ३।३६।१ ॥
महासमरमध्ये ऽपि गाम्भीर्यं यस्य निश्चलम् । तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ॥ मारीचेत्यादि । भाषतः भाषमाणस्य ॥ ३।३६।१ ॥
जानीषे त्वं जनस्थाने यथा भ्राता खरो मम ।
दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ ३।३६।२ ॥
त्रिशिराश्च महातेजा राक्षसः पिशिताशनः ।
अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥ ३।३६।३ ॥
वसन्ति मन्नियोगेन नित्यवासं च राक्षसाः ।
बाधमाना माहरण्ये मुनीन् वै धर्मचारिणः ॥ ३।३६।४ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥ ३।३६।५ ॥
कर्तव्यं वक्ष्यन् पूर्ववृत्तं स्मारयति जानीष इत्यादिना, अनुवर्तिनामित्यन्तमेकं वाक्यम् । खरादयश्चतुर्दशसहस्रराक्षसान्ताः जनस्थाने नित्यवासं यथा तथा वसन्तीति जानीष इत्यन्वयः । रतिवासमिति पाठे रत्या प्रीत्या वासो यस्मिन् कर्मणि तत्तथा ॥ ३।३६।२५ ॥
ते त्विदानीं जनस्थाने वसमाना महाबलाः ।
सङ्गताः परमायत्ता रामेण सह संयुगे ।
नानाप्रहरणोपेताः खरप्रमुखराक्षसाः ॥ ३।३६।६ ॥
ते त्विति । वसमानाः । ताच्छील्ये शानच् । संयुगे रामेण सह सङ्गताः रामेण सह युद्धमकुर्वन्नित्यर्थः । परम् अत्यन्तम् । आयात्ताः सन्नद्धाः । प्रहरणं आयुधम् ॥ ३।३६।६ ॥
तेन सञ्जातरोषेण रामेण रणमूर्द्धनि ।
अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः ॥ ३।३६।७ ॥
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ।
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ॥ ३।३६।८ ॥
खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः ।
हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ॥ ३।३६।९ ॥
पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।
स हन्ता तस्य सैन्यस्य रामः क्षत्ित्रयपांसनः ॥ ३।३६।१० ॥
तेनेति । अनुक्त्वा परुषं किञ्चिदित्यनेन गाम्भीर्यं विवक्ष्यते । व्यापारितं सन्धानमोक्षणव्यापारविशिष्टं कृतम् । सङ्ख्ये युद्धे । “युद्धमायोधनम्” इत्यारभ्य “मृधमास्कन्दनं सङ्ख्यम्” इत्यमरः ॥ ३।३६।७१० ॥
दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धो ऽजितेन्द्रियः ।
त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ॥ ३।३६।११ ॥
कर्कशः कठिनहृदयः ॥ ३।३६।११ ॥
येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम् ।
कर्णनासापहरणाद्भगिनी मे विरुरिता ॥ ३।३६।१२ ॥
तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् ।
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥ ३।३६।१३ ॥
सत्त्वं बलं केवलमाश्रित्य न तु धर्ममित्यर्थः । “सत्त्वं बले च जन्तौ च” इति विश्वः । आनयिष्यामि आनेष्यामि । इडार्षः ॥ ३।३६।१२,१३ ॥
त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ।
भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये ॥ ३।३६।१४ ॥
तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षम ।
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ॥ ३।३६।१५ ॥
उपायज्ञो महान् शूरः सर्वमायाविशारदः ।
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ॥ ३।३६।१६ ॥
भ्रातृभिः कुम्भकर्णादिभिः । समग्रान् सम्पूर्णान् । नाभिचिन्तये न गणयामि ॥ ३।३६।१४१६ ॥
शृणु तत् कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ ३।३६।१७ ॥
शृणु तत् कर्मेत्यत्र तदिति भिन्नं पदम् । प्रकृते कार्यसाहाय्ये यत्कर्म कार्यं कर्तव्यं तन्मम वचनाच्छृण्विति सम्बन्धः ॥ ३।३६।१७ ॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ ३।३६।१८ ॥
प्रमुखे अग्रे ॥ ३।३६।१८ ॥
त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम् ।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ ३।३६।१९ ॥
गृह्यतामिति अयमिति शेषः ॥ ३।३६।१९ ॥
ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ।
निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥ ३।३६।२० ॥
तयोः रामलक्ष्मणयोः । अपाये अपगमे सति शून्ये प्रदेशे । निराबाधः अप्रतिबन्धः ॥ ३।३६।२० ॥
ततः पश्चात्सुखं रामे भार्याहरणकर्शिते ।
विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥ ३।३६।२१ ॥
विश्रब्धः निश्शङ्कः । अन्तरात्मना अन्तस्स्थधैर्येण ॥ ३।३६।२१ ॥
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ।
शष्कं समभवद्वक्त्रं परित्रस्तो बभूव सः ॥ ३।३६।२२ ॥
सः मारीचः रामकथां श्रुत्वा परित्रस्तो बभूव । तेन त्रासेन तस्य वक्रं शुष्कं समभवदित्यन्वयः ॥ ३।३६।२२ ॥
ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव ।
मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ ३।३६।२३ ॥
भयकार्यान्तरमाह ओष्ठाविति । शुष्कौ ओष्ठौ परिलिहन् सः । अनिमिषैः निमेषरहितैः नैत्रैः नेत्रव्यापारैः । मृतभूत इव मृतजन्तुरिवार्तः सन् रावणं समुदैक्षत ॥ ३।३६।२३ ॥
स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः ।
कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ ३।३६।२४ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्त्रिंषः सर्गः ॥ ३६ ॥
उत्तरसर्गार्थं सङ्गृह्णाति स इति । त्रस्तविषण्णचेताः भीतदुःखितमनाः । तत्र हेतुः रामपराक्रमज्ञ इति । पूर्वं दण्डकारण्ये यो रामपराक्रम आसीत् तज्ज्ञ इत्यर्थः । तस्मै रावणाय । हितम् अनपायम् । “हितयोगे च” इति वार्तिकेन चतुर्थी ॥ ३।३६।२४ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥