खरं तु विरथं रामो गदापाणिमवस्थितम् ।
मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥ ३।२९।१ ॥
अहङ्कारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । गदां खरस्य निर्भिद्य राजन्तं राममाश्रये ॥ सर्वसाधनवैकल्येन खरस्यानुकूल्यमपि भवेदिति तच्चित्तपरीक्षार्थमाह खरं त्वित्यादिना । मृदुपूर्वं न्यायावलम्बनेनोक्तम् । परुषं मर्मोद्घाटनरूपत्वात् ॥ ३।२९।१ ॥
गजाश्वरथसम्बाधे बले महति तिष्ठता ।
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ ३।२९।२ ॥
तिष्ठता अधिपतित्वेन तिष्ठतेत्यर्थः ॥ ३।२९।२ ॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि लोकानामीश्वरो ऽपि न तिष्ठति ॥ ३।२९।३ ॥
मृदुपूर्वत्वसिद्धये लोकन्यायमाह उद्वेजनीय इति । उद्वेजनीयः उद्वेजकः । नृशंसो घातुकः एवंविधो लोकानामीश्वरोपि न तिष्ठति न जीवेत् किं पुनर्भवादृश इति भावः ॥ ३।२९।३ ॥
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ ३।२९।४ ॥
सर्वजन इति दयालुरपीति भावः ॥ ३।२९।४ ॥
लोभात् पापानि कुर्वाणः कामाद्वा यो न बुध्यते ।
भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥ ३।२९।५ ॥
लोभत् लब्धस्य त्यागासहिष्णुतया । कामात् अपूर्वलाभेच्छया न बुध्यते न पश्चात्तापं करोतीत्यर्थः । भ्रष्टः ऐश्वर्याद्भ्रष्टः । तस्य कर्मणः । अन्तं फलम् । पश्यति अनुभवति । कथमिव? करकात् ब्राह्मणीव करकाः वर्षोपलाः । “वर्षोपलस्तु करकः” इत्यमरः । तानत्तीति करकात् । ब्राह्मणी रक्तपुच्छिका । “ब्राह्मणी रक्तपुच्छिका” इति निघण्टुः । तस्यास्तद्भक्षणं विषभक्षणवन्मारकमिति प्रसिद्धिः । यथा ब्राह्मणी स्वमारकं कर्म स्वयमेव करोति तथा त्वमपीत्यर्थः ॥ ३।२९।५ ॥
वसतो दण्डकारण्ये तापसान् धर्मचारिणः ।
किन्नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस ॥ ३।२९।६ ॥
किं पापं मया कृतमित्यत्राह वसत इति ॥ ३।२९।६ ॥
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ।
ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ ३।२९।७ ॥
ननु तर्हि कथं पापिनो ऽपि बहवो जीवन्तीत्यत्राह न चिरमिति । केवलपापिनो जन्मान्तरे फलं भुञ्जते, क्रूरास्तु पुण्यलेशेन एश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति, क्षिप्रमेव विनश्यन्तीत्यर्थः ॥ ३।२९।७ ॥
अवश्यं लभते जन्तुः फलं पापस्य कर्मणः ।
घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥ ३।२९।८ ॥
पापस्य कर्ता जन्तुः । काले प्राप्ते अवश्यं घोरं दुःखरूपं फलं लभते । ऋतुलक्षणे काले पर्यागते प्राप्ते आर्तवं तत्तदृतुप्राप्तं पुष्पमिव ॥ ३।२९।८ ॥
नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् ।
सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ ३।२९।९ ॥
नचिरादित्येकं पदम् । अविलम्बेनेत्यर्थः । अत्र पुरुष इति शेषः । पापानाम् अत्युत्कटानामित्यर्थः ॥ ३।२९।९ ॥
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ।
अहमासादितो राज्ञा प्राणान् हन्तु निशाचर ॥ ३।२९।१० ॥
एवं मृदुपूर्वमुक्त्वा परुषमाह पापमित्यादिना । आसादितः प्राप्तो ऽस्मि । आगमने हेतुमाह राज्ञेति ॥ ३।२९।१० ॥
अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः ।
विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ ३।२९।११ ॥
मया मुक्ताः शराः त्वां विदार्य निपतिष्यन्ति प्रवेक्ष्यन्ति । यथा पन्नगाः सर्पाः वल्मीकं प्रविशन्ति । तथा ॥ ३।२९।११ ॥
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ।
तानद्य निहतः सङ्ख्ये ससैन्यो ऽनुगमिष्यसि ॥ ३।२९।१२ ॥
ताननुगमिष्यसीति पापिनामपि समरे हतानां स्वर्गसम्भवादिति भावः ॥ ३।२९।१२ ॥
अद्य त्वां पतितं बाणैः पश्यन्तु परमर्षयः ।
निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ ३।२९।१३ ॥
निरयस्थं नरकसदृशं दुःखं भूमौ पतित्वानुभवन्तमित्यर्थः ॥ ३।२९।१३ ॥
प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम ।
अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ ३।२९।१४ ॥
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः ।
प्रत्युवाच खरो रामं प्रहसन् क्रोधमूर्च्छितः ॥ ३।२९।१५ ॥
तालफलं यथेत्यनेनानायासोक्तिः ॥ ३।२९।१४,१५ ॥
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज ।
आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥ ३।२९।१६ ॥
आत्मना स्वयमेव ॥ ३।२९।१६ ॥
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।
कथयन्ति न ते किञ्चित्तेजसा स्वेन गर्विताः ॥ ३।२९।१७ ॥
तेजसा प्रतापेन ॥ ३।२९।१७ ॥
प्राकृतास्त्वकृतात्मानो लोके क्षत्ित्रयपांसनाः ।
निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ ३।२९।१८ ॥
प्राकृताः क्षुद्राः । अकृतात्मानः अप्रतिष्ठितधृतयः । क्षत्ित्रयपांसनाः क्षत्ित्रयाधमाः । निरर्थकं निष्प्रयोजनं यथा तथा विकत्थन्ते श्लाघन्ते ॥ ३।२९।१८ ॥
कुलं व्यपदिशन् वीरः समरे को ऽभिधास्यति ।
मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम् ॥ ३।२९।१९ ॥
कुलं व्यपदिशन् आत्मनो महाकुलप्रसूतत्वं प्रकटयन् । को वीरः मृत्युकाले सम्प्राप्ते अप्रस्तवे अनवसरे स्वयं स्तवमभिधास्यतीत्यन्वयः ॥ ३।२९।१९ ॥
सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ।
सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ ३।२९।२० ॥
“सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ " इति ते कत्थनेन लघुत्वमल्पत्वं सर्वथैव स्पष्टमेव विदर्शितम्। यथा तप्तेन अत एव सुवर्णसदृशेन कुशाग्निना कुशदर्भमाश्रितेनाग्निना लघुत्वं विदर्श्यते तद्वत्। यथा तृणाग्निः सुवर्णतुल्यतया भासमानोऽपि ज्वलन्नप्युत्तरकाले दाहकार्यकरो न भवति तथा कत्थनेन वीरवद्भासमानोऽपि पुरुषः उत्तरकाले लघुरेव भविष्यतीत्यर्थः। शीघ्रं ज्वलन् तृणाग्निः यथा सद्यः शान्तो न दग्धुमीष्टे तथा कत्थमानः पुरुषः स्वकत्थनानुरूपं कार्यं न करोतीति सिद्धमिति ॥ ३।२९।२० ॥
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ।
धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥ ३।२९।२१ ॥
इह तव पुरतः । तिष्ठन्तं निश्चलतया स्थितम् । गदाधरं शत्रुरक्तोक्षितगदावन्तम् । मां सर्वनिर्वाहकं पर्वतमिवाकम्प्यं न पश्यसि, त एवैवं कत्थस इति भावः ॥ ३।२९।२१ ॥
पर्याप्तो ऽहं गदापाणिर्हन्तुं प्राणान् रणे तव ।
त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ ३।२९।२२ ॥
गदापाणिरहं पाशहस्तो ऽन्तक इव तव त्रयाणां लोकानामपि प्राणान् हन्तुं पर्याप्तः समर्थ इति योजना ॥ ३।२९।२२ ॥
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् ।
अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत् ॥ ३।२९।२३ ॥
त्वयि आत्मश्लाघिनि विषये । कामं यद्यपि बहु पारुष्यं वक्तव्यमस्ति तथापि तन्न वक्ष्यामि । कुतः? हि यस्मात् सविता अस्तं गच्छेत् । ततः अस्तमयेन युद्धविघ्नो भवेत् । यद्यपि स्वस्य रात्रिर्बलायैव तथापि रात्र्यशक्तमनुष्यवधे स्वस्य न कापि कीर्तिरिति खरहृदयम् ॥ ३।२९।२३ ॥
चतुर्दश सहस्त्राणि राक्षसानां हतानि ते ।
त्वद्विनाशात् करोम्येष तेषामश्रुप्रमार्जनम् ॥ ३।२९।२४ ॥
ते त्वया । एष इत्यव्यवधानोक्तिः । तेषां तद्बन्धूनामित्यर्थः । यद्वा तद्वधप्रतिक्रियां करिष्यामीत्यत्र हृदयम् ॥ ३।२९।२४ ॥
[ततो रुधिरधाराभिस्त्वच्छरीरविमर्दनात् ।
करिष्यामि बलिं भूमौ त्वां हत्वा सर्वरक्षसाम् ॥ ]
इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः ।
खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥ ३।२९।२५ ॥
परमाङ्गदः गदाप्रहारसामर्थ्यबिरुदयुक्त इत्यर्थः । अशनिं वज्रम् ॥ ३।२९।२५ ॥
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा ।
भस्म वृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ॥ ३।२९।२६ ॥
तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम् ।
अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥ ३।२९।२७ ॥
भस्म कृत्वा तत्समीपमगादित्यन्वयः । समीपत इति सार्वविभक्तिकस्तसिः ॥ ३।२९।२६,२७ ॥
सा विकीर्णा शरैर्भग्ना पपात धरणीतले ।
गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता ॥ ३।२९।२८ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥
व्याली पन्नगी ॥ ३।२९।२८ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥