निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।
खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ ३।२८।१ ॥
महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यङ्क्तुं खरोपकरणं हन्तारं राममाश्रये ॥ निहतमित्यादि । निहतं दूषणं दृष्ट्वा रामस्य विक्रमं च दृष्ट्वा । स्थितस्य खरस्य त्रासो ऽभवदिति योजना ॥ ३।२८।१ ॥
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः ।
हतमेकेन रामेण त्रिशिरोदूषणावपि ॥ ३।२८।२ ॥
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ।
आससाद खरो रामं नमुचिर्वासवं यथा ॥ ३।२८।३ ॥
रक्षसां सम्बन्धि राक्षसम् । त्रिशिरोदूषणौ हतावित्यनुषङ्गः । बलं सैन्यं हतभूयिष्ठं हतप्रवरराक्षसं चतुर्दशसहस्रसङ्ख्याकाः प्रधाना हताः अवशिष्टं सैन्यं प्रेक्ष्यत्यर्थः । विमनाः विगतगर्वावस्थं मनो यस्य स तथा ॥ ३।२८।२,३ ॥
विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् ।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ३।२८।४ ॥
बलवदत्यन्तं नाराचान् । “प्रक्ष्वेडनास्तु नाराचाः” इत्यमरः । रक्तभोजनानिति रक्तरूषितत्वेन रक्तभोजनत्वव्यपदेशः । आशीविषानिव सर्वानिव स्थितान् ॥ ३।२८।४ ॥
ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् ।
चकार समरे मार्गान् शरै रथगतः खरः ॥ ३।२८।५ ॥
शिक्षया धनुर्वेदशिक्षापाटवेन । ज्यां विधून्वन् अस्त्राणि दर्शयन्, अस्त्रप्रयोगपाटवं दर्शयन्नित्यर्थः । समरे शरैः मार्गान् नानाप्रकारांश्चकार ॥ ३।२८।५ ॥
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।
पूरयामास तं दृष्ट्वा रामो ऽपि सुमहद्धनुः ॥ ३।२८।६ ॥
स रामो ऽपि तं दृष्ट्वा बाणैः समुहद्धनुः सर्वा दिशः प्रदिशश्च पूरयामासेत्यन्वयः ॥ ३।२८।६ ॥
स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः ।
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ३।२८।७ ॥
सः रामः अविवरं नीरन्ध्रम् ॥ ३।२८।७ ॥
तद्बभूव शितैर्बाणैः खररामविसर्जितैः ।
पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ ३।२८।८ ॥
पर्याकाशं परितः स्थितमाकाशम्, खररामयोश्चतुःपार्श्ववर्त्याकाशमित्यर्थः । सर्वतः सर्वत्र । अनाकाशम् अनवकाशं बभूव ॥ ३।२८।८ ॥
शरजालावृतः सूर्यो न तदा स्म प्रकाशते ।
अन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः ॥ ३।२८।९ ॥
शरजालेति । संरम्भात् कोपात् । “संरम्भः सम्भ्रमे कोपे” इत्यमरः । उभयोः शरजालावृत इत्यन्वयः ॥ ३।२८।९ ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
आजघान खरो रामं तौत्रैरिव महाद्विपम् ॥ ३।२८।१० ॥
तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ।
ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ३।२८।११ ॥
तौत्रैः गजशिक्षणयष्टिभिः ॥ ३।२८।१०,११ ॥
हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् ।
परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ ३।२८।१२ ॥
हन्तारमिति । खरः सर्वसैन्यहननपरिश्रान्तमपि रामं पौरुषे पर्यवस्थितं महासत्त्वं मेने । यद्वा उक्तविशेषणं रामं परिश्रान्तं मेने ॥ ३।२८।१२ ॥
तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।
दृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ ३।२८।१३ ॥
तम् । नोद्विजने नाचलत् । क्षुद्रमृगं शशम् ॥ ३।२८।१३ ॥
ततः सूर्यनिकाशेन रथेन महता खरः ।
आससाद रणे रामं पतङ्ग इव पावकम् ॥ ३।२८।१४ ॥
पतङ्ग इत्यनेन अमृत्वा अनिवृत्तिरुच्यते ॥ ३।२८।१४ ॥
ततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।
खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ ३।२८।१५ ॥
मुष्टिदेशे मुष्टिबन्धनसमीपदेशे । महात्मन इत्यनेन मुष्टिदेशे पततो बाणस्य परिहरणसामर्थ्यं व्यज्यते । लाघवं शैघ्य्रं चिच्छेद रामस्य किञ्चिच्छ्रान्तत्वेनानवधानादितिः भावः ॥ ३।२८।१५ ॥
स पुनस्त्वपरान् सप्त शरानादाय वर्मणि ।
निजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ॥ ३।२८।१६ ॥
पाणिलाघवमेवाह स पुनरित्यादिना । वर्मणि निजघान अवदारयति स्म ॥ ३।२८।१६ ॥
ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः ।
पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ ३।२८।१७ ॥
ततः शरसहस्रेण राममप्रितमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः ॥ ३।२८।१८ ॥
आदित्यवर्चस इत्यनेन कवचपतनानन्तरं प्रकाशमानतेजोविशेष उच्यते ॥ ३।२८।१७,१८ ॥
स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः ।
रराज समरे रामो विधूमो ऽग्निरिव ज्वलन् ॥ ३।२८।१९ ॥
अर्पितः संयुक्तः । विधूम इत्यनेन ज्वालाधिक्यमुच्यते ॥ ३।२८।१९ ॥
ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ।
चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ ३।२८।२० ॥
गम्भीरनिर्ह्रादं गम्भीरध्वनिकं धनुः रिपोरन्ताय नाशाय सज्यं चकारेत्यन्वयः ॥ ३।२८।२० ॥
सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।
वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ ३।२८।२१ ॥
यत्तदिति प्रसिद्ध्यतिशयवाची । महर्शिणा अगस्त्येन अतिसृष्टं दत्तम् । समभिधावत समभ्यधावत ॥ ३।२८।२१ ॥
ततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः ।
बिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ ३।२८।२२ ॥
सन्नतपर्वभिः ऋजुपर्वभिः ॥ ३।२८।२२ ॥
स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः ।
जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ ३।२८।२३ ॥
स इति । दर्शनीयः रम्यः । आज्ञया शापेन । उत्प्रेक्षेयम् ॥ ३।२८।२३ ॥
तं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः ।
विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥ ३।२८।२४ ॥
स रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः ।
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ ३।२८।२५ ॥
मातङ्गं गजम् । तोमरैः गजशिक्षादण्डैः । चतुर्भिरित्यत्र वीप्सा बोध्या । बहुभिरित्यनुवादात् ॥ ३।२८।२४,२५ ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।
मुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ ३।२८।२६ ॥
स धनुरिति । परमेष्वासः उत्कृष्टशरासनः । अभिलक्षितान् प्रसिद्धान् ॥ ३।२८।२६ ॥
शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् ।
त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥ ३।२८।२७ ॥
षण्णां विनियोगप्रकारमाह शिरसीत्यादिना । द्वाभ्यामिति बाह्वोरिति एकैकस्य बाहोरेकैकेनेत्यर्थः । चन्द्रार्धवक्त्रैः अर्धचन्द्राकारमुखैरित्यर्थः ॥ ३।२८।२७ ॥
ततः पश्चान्महातेजा नाराचान् भास्करोपमान् ।
जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥ ३।२८।२८ ॥
तत इति । त्रयोदश नाराचान् समादद इत्यन्वयः । अन्तिमपादे त्रयोदश शरान् शितानिति पाठे मुमोचेति क्रियाध्याहार्या ॥ ३।२८।२८ ॥
ततो ऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥ ३।२८।२९ ॥
त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३।२८।३० ॥
छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ ३।२८।३१ ॥
त्रयोदशानां विनियोगमाह ततो ऽस्येत्यादिना । छित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र सम्बध्यते । त्रिवेणुर्नाम रथमुखस्थो युगाधारदण्डः । प्रहसन्निव लीलयेत्यर्थः ॥ ३।२८।२९३१ ॥
प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३।२८।३२ ॥
अवप्लुप्य रथान् समुल्लङ्घ्य ॥ ३।२८।३२ ॥
तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च ।
अपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ ३।२८।३३ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥
तत्कर्म खरभङ्गकर्म । अपूजयन् अस्तुवन् । समेत्य समूहीभूय । समेताः आगताः ॥ ३।२८।३३ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥