०२७ त्रिशिरो वधः

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।

राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ॥ ३।२७।१ ॥

त्रिशिरःशिरसां छेददृष्टान्तेन स्वसेविनाम् । दुःखत्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये ॥ खरं त्विति । वाहिनीपतिः सेनापतिः । सन्निपत्य समीपमागत्येत्यर्थः ॥ ३।२७।१ ॥

मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् ।

पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥ ३।२७।२ ॥

साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति मयेति शेषः ॥ ३।२७।२ ॥

प्रतिजानामि ते सत्यमायुधं चाहमालभे ।

यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥ ३।२७।३ ॥

आलभे स्पृशामि । प्रतिज्ञाप्रकारमाह यथेति । सर्वरक्षसां सर्वरक्षोभिः ॥ ३।२७।३ ॥

अहं वास्य रणे मृत्युरेष वा समरे मम ।

विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ॥ ३।२७।४ ॥

मृत्युः मारयिता । प्राश्निकः जयापजयनिर्णायकः ॥ ३।२७।४ ॥

प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि ।

मयि वा निहते रामं संयुगायोपयास्यसि ॥ ३।२७।५ ॥

प्रहृष्टे गर्विष्ठे । संयुगाय युद्धं कर्तुम् । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी ॥ ३।२७।५ ॥

खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः ।

गच्छ युद्ध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ ३।२७।६ ॥

मृत्युलोभात् मृत्युना कृतो लोभो युद्धलोभस्तमात् । प्रसादितः निवर्तित इति यावत् । युद्ध्य युद्धं कुरु । अनुज्ञातः खरेणेति शेषः । त्रिशिरा इति सिद्धम् ॥ ३।२७।६ ॥

त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता ।

अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पवर्तः ॥ ३।२७।७ ॥

त्रिशिराश्चेति चकारो न समुच्चयार्थः ॥ ३।२७।७ ॥

शरधारासमूहान् स महामेघ इवोत्सृजन् ।

व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः ॥ ३।२७।८ ॥

शरा एव धाराः आसाराः तासां समूहान् । जलार्द्रस्येति । दुन्दुभिशब्दः पुंलिङ्गः । “भेरी स्त्री दुन्दुभिः पुमान्” इत्युक्तेः । दुन्दुभेः दुन्दुभिनादस्य । जलार्द्रस्येत्यनेनास्य हीनस्वरत्वमुक्तम् ॥ ३।२७।८ ॥

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ।

धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ॥ ३।२७।९ ॥

धनुषा सायकान् विधून्वन् कम्पयन्, मुञ्चन्निति यावत् ॥ ३।२७।९ ॥

स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान् ।

बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ॥ ३।२७।१० ॥

सम्प्रहारो युद्धम् ॥ ३।२७।१० ॥

ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः ।

अमर्षी कुपुतो रामः संरब्धमिदमब्रवीत् ॥ ३।२७।११ ॥

संरब्धं सकोपमित्यर्थः । लोके कश्चित्कुपितो ऽपि वचनेन कोपं न प्रकटयति, अयं तु प्रकटयतीति भावः ॥ ३।२७।११ ॥

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ।

पुष्पैरिव शरैर्यस्य ललाटे ऽस्मि परिक्षतः ॥ ३।२७।१२ ॥

ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् ।

एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान् ।

त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश ॥ ३।२७।१३ ॥

अहो इत्यादि व्यङ्ग्योक्तिः । विक्रमः पराभिभवनं तत्र शूरस्य समर्थस्येत्यर्थः । ईदृशमित्यस्यैव विवरणम् पुष्पैरिवेत्यर्धम् । ललाटे स्वललाटे । लालाटे स्वल्पापि क्षतिर्बधिका भवति सापि नास्तीति सूचयितुं पुष्पतौल्यम् । चापगुणः चापमुर्वी । संरब्धः सन्नेवमुक्त्वा क्रुद्धो निजघानेत्यन्वयः ॥ ३।२७।१२,१३ ॥

चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः ।

न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ॥ ३।२७।१४ ॥

सन्नतपर्वभिः ऋजुपर्वभिः । वाजिनः वेगवतः ॥ ३।२७।१४ ॥

अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ।

रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् ॥ ३।२७।१५ ॥

रथोपस्थे रथोपरिभागे ॥ ३।२७।१५ ॥

ततो हतरथात्तस्मादुत्पतन्तं निशाचरम् ।

बिभेद रामस्तं बाणैर्हृदये सो ऽभवज्जडः ॥ ३।२७।१६ ॥

सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ।

शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ॥ ३।२७।१७ ॥

हतरथात् हतहयसारथिकरथात् । हृदये वक्षसि बिभेदेत्यन्वयः । जडः निश्चेष्टः ॥ ३।२७।१६,१७ ॥

स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः ।

न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः ॥ ३।२७।१८ ॥

पूर्वं पतितैः शिरोभिः हेतुभिः स्वयं न्यपतत् ॥ ३।२७।१८ ॥

हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ।

द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव ॥ ३।२७।१९ ॥

तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम् ।

राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥ ३।२७।२० ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

खरसंश्रयाः खरसेवकाः ॥ ३।२७।१९,२० ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥