०२५ रामेण खरसैन्यसंहारः

अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।

ददर्शाश्रममागम्य खरः सह पुरस्सरैः ॥ ३।२५।१ ॥

तुमुलयुद्धं पञ्चविंशे अवष्टब्धेत्यादि । धन्यत इति धनुः । “धन धान्ये” इत्यस्माद्धातोः “भृमृशीतृ़चरितत्सरितनिधनिमिमस्जिभ्य उः” इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां च धनुं विदुः, धनुरिवाजनि वक्रः” इति कविकाव्यप्रयोगश्च ॥ ३।२५।१ ॥

तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्वनम् ।

रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥ ३।२५।२ ॥

स खरस्याज्ञया सूतस्तुरगान् समचोदयत् ।

यत्र रामो महाबाहुरेको धून्वन् स्थितो धनुः ॥ ३।२५।३ ॥

तमिति । चोद्यतामिति रथ इति शेषः ॥ ३।२५।२,३ ॥

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।

नर्दमाना महानादं सचिवाः पर्यवारयन् ॥ ३।२५।४ ॥

निष्पतितं युद्धोन्मुखम् । सचिवाः श्येनगाम्यादयः ॥ ३।२५।४ ॥

स तेषां यातुधानानां मध्ये रथगतः खरः ।

बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः । ३।२५।५ ॥

लोहिताङ्गः अङ्गरकः ॥ ३।२५।५ ॥

ततः शरसहस्रेण राममप्रतिमौजसम् ।

अर्दयित्वा महानादं ननाद समरे खरः ॥ ३।२५।६ ॥

अर्दयित्वा पीडयित्वा महानादं ननाद चकारेत्यर्थः ॥ ३।२५।६ ॥

ततस्तं भीमधन्वानं क्रुद्धा सर्वे निशाचारः ।

रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥ ३।२५।७ ॥

भीमधन्वानम् । “धनुषश्च” इत्यनङ्" समासान्तः । शस्त्रैः आयुधैः । “शस्त्रमायुधलोहयोः” इत्यमरः ॥ ३।२५।७ ॥

मुद्गरैः पट्टिशैः शूलैः प्रासैः खड्गैः परश्वधैः ।

राक्षासाः समरे रामं निजघ्नू रोषतत्पराः ॥ ३।२५।८ ॥

मुद्गरैः स्थूलगदाभिः । प्रासैः कुन्तैः । रोषतत्पराः क्रोधपरवशाः ॥ ३।२५।८ ॥

ते बलाहकसङ्काशा महानादा महौजसः ।

अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ।

गजैः पर्वतकूटाभै रामं युद्धे जिघासवः ॥ ३।२५।९ ॥

त इति । बलाहकसङ्काशाः मेघतुल्याः । कूटम् शृङ्गम् । अभ्यधावन्त आभिमुख्येनाधावन्त ॥ ३।२५।९ ॥

ते रामे शरवर्षाणि व्यसृजन् रक्षासां गणाः ।

शैलेन्द्रमिव धाराभिर्वर्षमाणा बलाहकाः ॥ ३।२५।१० ॥

ते राम इति । शेलैन्द्रमिवेत्युपमानेन रामस्य निर्दुःखत्वमुक्तम् ॥ ३।२५।१० ॥

स तैः परिवृतो घोरै राघवो रक्षसां गणैः ॥ ३।२५।११ ॥

स तैरित्याद्यर्धमेकान्वयम् ॥ ३।२५।११ ॥

तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ।

प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥ ३।२५।१२ ॥

तानीति । विशिखैः बाणैः । प्रतिजग्राह प्रतिरुरोध । नद्योघान् नदीप्रवाहान् ॥ ३।२५।१२ ॥

स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ।

रामः प्रादीप्तैर्बहुभिर्वज्रैरिव महाचलः ॥ ३।२५।१३ ॥

स तैरिति । वज्रैः अशनिभिः ॥ ३।२५।१३ ॥

स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ।

बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः ॥ ३।२५।१४ ॥

स विद्ध इति । क्षतजादिग्धः रुधिरालिप्तः ॥ ३।२५।१४ ॥

विषेदुर्देगन्धर्वाः सिद्धाश्च परमर्षयः ।

एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् ॥ ३।२५।१५ ॥

विषेदुरिति । बहुभिः सहस्त्रैः चतुर्दशसहस्त्रैः ॥ ३।२५।१५ ॥

ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः ।

ससर्ज विशिखान् बाणान् शतशोथ सहस्रशः ॥ ३।२५।१६ ॥

तत इति । मण्डलीकृतकार्मुकः आकर्णाकर्षणेन मण्डलाकारीकृतधनुः । विशिखान् बाणान् अर्धचन्द्राग्रबाणान् । प्रथमं शतशः अनन्तरं सहस्रशः स निर्बिभेदेति योजना ॥ ३।२५।१६ ॥

दुरावारान् दुर्विषहान् कालदण्डोपमान् रणे ।

मुमोच लीलया रामः कङ्कपत्त्रानजिह्मगान् ॥ ३।२५।१७ ॥

दुरावारान् वारयितुमशक्यान् । दुर्विषहान् दुःसहान् । कालदण्डोपमान् यमदण्डतुल्यान् । अजिह्मगान् अवक्रगामिनः, अस्खलितलक्ष्यकानित्यर्थः । कङ्कपत्त्रान् बाणान् । “कङ्कपत्त्रशरमार्गणबाणाः” इति हलायुधः ॥ ३।२५।१७ ॥

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ।

आददू रक्षसां प्राणान् पाशाः कालकृता इव ॥ ३।२५।१८ ॥

ते शरा इति । प्राणानाददुः अमारयन्नित्यर्थः । कालकृताः यममुक्ता इत्यर्थः ॥ ३।२५।१८ ॥

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ।

अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः ॥ ३।२५।१९ ॥

रुधिराप्लुता इति विशेषणं दीप्ताग्न्युपमासिद्ध्यर्थम् ॥ ३।२५।१९ ॥

असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात् ।

विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः ॥ ३।२५।२० ॥

असङ्ख्येया इति । सायकाः बाणाः ॥ ३।२५।२० ॥

तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च ।

बीहून् सहस्ताभरणानूरून् करिकरोपमामान् ।

चिच्छेद रामः समरे शतशोथ सहस्रशः ॥ ३।२५।२१ ॥

तैरित्याद्यर्धत्रयमेकं वाक्यम् । वर्माणि कवचानि ॥ ३।२५।२१ ॥

हयान् काञ्चनसन्नाहान् रथयुक्तान् ससारथीन् ।

गजांश्च सगजारोहान् सहयान् सादिनस्तथा ॥ ३।२५।२२ ॥

पदातीन् समरे हत्वा ह्यनयद्यमसादनम् ॥ ३।२५।२३ ॥

हयानिति । काञ्चनसन्नाहान् काञ्चनाभरणान् । रथयुक्तान् रथबद्धान् । सगजारोहान् सनिषादान् । सादिनः अश्वारोहान् । सदनमेव सादनम् । स्वार्थे अण् ॥ ३।२५।२२,२३ ॥

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।

भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः ॥ ३।२५।२४ ॥

नालीकाः नालमात्रशराः । नाराचाः आयसशराः । विकर्णिनः कर्णशराः । भीममिति क्रियाविशेषणम् ॥ ३।२५।२४ ॥

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः ।

रामेण न सुखं लेभे शुष्कं वनमिवाग्निना ॥ ३।२५।२५ ॥

रामेण कर्त्रा बाणैः अर्दितं पीडितं तत्सैन्यम्, सुखं दुःखनिवृत्तिम् अग्निना अर्दितं शुष्कं वनमिव न लेभे ॥ ३।२५।२५ ॥

केचिद्भीमबलाः शूराः शूलान् खङ्गान् परश्वधान् ।

रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥ ३।२५।२६ ॥

केचिदिति । परमायुधानिति शूलादिविशेषणम् ॥ ३।२५।२६ ॥

तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः ।

जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ ३।२५।२७ ॥

तानीति । आवार्य निवार्य । शिरोधरानिति पुंलिङ्गत्वमार्षम् । शिरोधरांश्चिच्छेद प्राणान् जहारेति क्रमः ॥ ३।२५।२७ ॥

ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः ।

सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥ ३।२५।२८ ॥

त इति । सुपर्णो गरुडः तस्य वातेन पक्षानिलेन विक्षिप्ताः उन्मूलिताः । जगत्यां भुवि ॥ ३।२५।२८ ॥

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।

खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः ॥ ३।२५।२९ ॥

विषण्णाः दुःखिताः । शरणार्थं रक्षणार्थमिति यावत् ॥ ३।२५।२९ ॥

तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः ।

अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः ॥ ३।२५।३० ॥

तानिति । आदाय खरसमीपगमनान्निवर्त्य । अन्तकः रुद्रपराजितो यमः ॥ ३।२५।३० ॥

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः ।

राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३।२५।३१ ॥

निवृत्ताः युद्धान्निवृत्ताः । दूषणरूपाश्रयेण निर्भयाः सन्तः । अभ्यधावन्त अभिमुखमाजग्मुः । प्रायशो नष्टायुधत्वात्सालतालेत्याद्युक्तम् ॥ ३।२५।३१ ॥

शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः ।

सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे ।

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ॥ ३।२५।३२ ॥

शस्त्रवर्षाणि शरभिन्नायुधवर्षाणीत्यर्थः । सृजन्त इति आसन्निति शेषः ॥ ३।२५।३२ ॥

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ।

रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ॥ ३।२५।३३ ॥

रामस्य रक्षसां च तुमुलं सङ्कुलं महाघोरम् अत एव रोमहर्षणं भयातिरेकेण रोमाञ्चजनकम् अत एवाद्भुतं तद्युद्धं पुनरपि बभूव ॥ ३।२५।३३ ॥

ते समन्तादभिक्रुद्धा राघवं पुनरभ्ययुः ॥ ३।२५।३४ ॥

त इत्यर्धमेकं वाक्यम् । अभ्ययुः आवव्रुः ॥ ३।२५।३४ ॥

तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः ।

राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ॥ ३।२५।३५ ॥

स कृत्वा भैरवं नादमस्रं परमभास्वरम् ।

संयोजयत गान्धर्वं राक्षसेषु महाबलः ॥ ३।२५।३६ ॥

इदमनुवदन्नाह तैश्चेत्यादिश्लोकद्वयमेकं वाक्यम् । महाबलः स रामः । दिशः प्रदिशश्च तैरावृताः दृष्ट्वा । भैरवं भयङ्करं नादं कृत्वा । राक्षसेषु राक्षसनिमित्तं गान्धर्वमस्त्रं धनुषि संयोजयत समयोजयत् । शरवर्षाभिवर्षिभिः शरवर्षकारिभिरित्यर्थः ॥ ३।२५।३५,३६ ॥

ततः शरसहस्राणि निर्ययुश्चापमण्डलात् ।

सर्वा दश दिशो बाणैरावार्यन्त समागतैः ॥ ३।२५।३७ ॥

तत इति । चापमण्डलात् संहितगान्धर्वास्त्रात् आकर्षणातिशयेन मण्डलीकृताच्चापान्निर्ययुः । समागतैस्तैः बाणैर्दशदिशः । सर्वाः अन्यूनाः अवार्यन्त ॥ ३।२५।३७ ॥

नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् ।

विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥ ३।२५।३८ ॥

नाददानमिति । राक्षसा रामस्य शरादानकर्षणमोचनानि नापश्यन् किन्तु स्वहिंसनमेवापश्यन्निति क्रियाप्रधानो निर्देशः । यद्यपि गान्धर्वास्त्रप्रयोगे विचित्रबाणनिर्गमो ऽस्ति तदस्मिन् श्लोके नोच्यते किन्तु तदनन्तरभाविकेवलशरमोक्ष इति ज्ञेयम् ॥ ३।२५।३८ ॥

शरान्धकारमाकाशमावृणोत्सदिवाकरम् ।

बबूवावस्थितो रामः प्रवमन्निव तान् शरान् ॥ ३।२५।३९ ॥

शरान्धकारमिति । अन्धकारमिति क्लीबत्वमार्षम् । प्रवमन् उद्गिरन् ॥ ३।२५।३९ ॥

युगपत्पतमानैश्च युगपच्च हतैर्भृशम् ।

युगपत्पतितैश्चैव विकीर्णा वसुधा ऽभवत् ॥ ३।२५।४० ॥

युगपच्छरनिर्गमः समुत्प्रेक्ष्यते युगपदिति । पतमानैः पतद्भिः एककाले शरहतैः एककाले भूमौ पतद्भिः एककाले पतितैश्च राक्षसैः वसुधा विकीर्णा व्याप्ता ऽभवदिति युगपच्छरनिर्गमनकार्योक्तिः ॥ ३।२५।४० ॥

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः ।

तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ ३।२५।४१ ॥

अथ हिंसावैचित्र्यमाह निहता इति । निहताः केवलं प्रहताः । पतिताः अशनिपात इव भयेन भूमौ पतिताः । क्षीणाः कण्ठगतप्राणाः । छिन्नाः द्विधा कृताः । भिन्नाः खण्डितावयवाः । विदारिताः नृसिंहेन हिरण्यवदानाभिकण्ठमुद्भिन्नशरीराः । तत्र तत्रेत्यनेन कश्चिद्भिन्नः कश्चिद्विदारितः पुनः कश्चित् भिन्नः इत्येवं विचित्रशववत्त्वमुक्तम् ॥ ३।२५।४१ ॥

सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा ।

ऊरुभिर्जानुभिश्छिन्नैर्नानारूपविभूषणैः ॥ ३।२५।४२ ॥

हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः ।

चामरैर्व्यजनैश्छत्त्रैर्ध्वजैर्नानाविधैरपि ॥ ३।२५।४३ ॥

रामस्य बाणाभिहतैर्विचित्रैः शूलपट्टिशैः ।

खङ्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥ ३।२५।४४ ॥

चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः ।

विच्छिन्नैः समरे भूमिः विकीर्णा ऽभूद्भयङ्करा ॥ ३।२५।४५ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥

चित्रवधं दर्शयति सोष्णीषैरित्यादिना । सोष्णीषैः शिरोवेष्टनवद्भिः । उत्तमाङ्गैः केवलशिरोभिः । नानारूपविभूषणैरित्यूरुजानूनां विशेषणम् । सार्धोरुकैरूरुभिः सकटकैर्जानुभिश्चेत्यर्थः । अनेकशो भिन्नैरिति हयादित्रयविशेषणम् । विच्छिन्नैरिति चामरादिसर्वविशेषण्, विचित्रैरिति शूलादिविशेषणम्, नानाविधैरिति चामरादिविशेषणम्, पूर्वोक्तैरेतैर्विकीर्णा अत एव भयङ्करा ऽभूदिति योजना । एतावता ग्रन्थेन रामशरप्रभावातिशयो दर्शितः । अस्मिन् सर्गे पञ्चचत्वारिंशच्छ्लोकाः ॥ ३।२५।४२४५ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥