एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा ।
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥ ३।२२।१ ॥
अथ खरस्य युद्धोद्योगो द्वाविंशे एवमित्यादि । आधर्षितः अवमानितः । खरः दारुणः । खरतरं परुषतरम् ॥ ३।२२।१ ॥
तवावमानप्रभवः क्रोधो ऽयमतुलो मम ।
न श्क्यते धारयितुं लवणाम्भ इवोत्थितम् ॥ ३।२२।२ ॥
लवाणाम्भः लवणसमुद्राम्मः उत्थितं पर्वण्युल्बणम् ॥ ३।२२।२ ॥
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् ।
आत्मदुश्चरितैः प्राणान् हतो यो ऽद्य विमोक्ष्यति ॥ ३।२२।३ ॥
यः आत्मदुश्चरितैरेव हतः सन् अद्य प्राणान् विमोक्ष्यति तं रामं न गणये ॥ ३।२२।३ ॥
बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम् ।
अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ ३।२२।४ ॥
संह्रियतां निवर्त्यताम् । सदनमेव सादनम् ॥ ३।२२।४ ॥
परश्वधहतस्याद्य मन्दप्राणस्य संयुगे ।
रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥ ३।२२।५ ॥
परश्वधः कुठारः । मन्दप्राणस्य अल्पप्राणस्य । औष्ण्यार्थमिदमुक्तं रक्तवर्णत्वार्थं च ॥ ३।२२।५ ॥
सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनच्च्युतम् ।
प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम् ॥ ३।२२।६ ॥
मौर्ख्यात् अव्यवस्थितचित्ततया पुनः प्रशशंस ॥ ३।२२।६ ॥
तया परुषितः पूर्वं पुनरेव प्रशंसितः ।
अब्रवीद्दूषणं नाम खऱः सेनापतिं तदा ॥ ३।२२।७ ॥
अमुमर्थं विशदयति तयेति ॥ ३।२२।७ ॥
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ।
रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ३।२२।८ ॥
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् ।
लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ॥ ३।२२।९ ॥
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् ।
सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ ३।२२।१० ॥
चतुर्दशेत्यादिश्लोकत्रयमेकं वाक्यम् । चतुर्दश सहस्राणि सन्तीति शेषः । घोराणां घोररूपाणाम् । लोकहिंसाविहाराणां जनवधैकलीलानाम् । महास्यानां विकृतमुखानामिति यावत् । उदीर्णानां गर्वितानाम् । सर्वोद्योगं सर्वप्रकारैरुद्योगम्, सर्वायुधवाहनादिभिरुद्योगमित्यर्थः ॥ ३।२२।८१० ॥
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च ।
शरांश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः ॥ ३।२२।११ ॥
शक्तीः आयुधविशेषान् ॥ ३।२२।११ ॥
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ।
वधार्थं दुर्विनीतस्य रामस्य रणकोविदः ॥ ३।२२।१२ ॥
पौलस्त्यानां पुलस्त्यवंश्यानामग्रे रणकोविदो ऽहं गन्तुमिच्छामीत्यन्वयः । रामस्य रणज्ञत्वात् पौलस्त्यानां वधार्थमिति दैवीवाक् भाविसूचिनी ॥ ३।२२।१२ ॥
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् ।
सदश्वैः शबलैर्युक्तमाचचक्षे ऽथ दूषणः ॥ ३।२२।१३ ॥
शबलैः नानावर्णैः । “शबलैताश्च कर्बुरे” इत्यमरः । महारथं सदश्वैर्युक्तमाचचक्ष इत्यन्वयः । ३।२२।१३ ॥
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् ।
हेमचक्रमसम्बाधं वैडूर्यमयकूबरम् ॥ ३।२२।१४ ॥
तप्तकाञ्चनं परिशुद्धकाञ्चनम् । असम्बाधं विस्तीर्णम् । कूबरः युगन्धरः । “कूबरस्तु युगङ्धरः” इत्यमरः ॥ ३।२२।१४ ॥
मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः ।
मङ्गलैः पक्षिसङ्घैश्च ताराभिरभिसंवृतम् । ३।२२।१५ ॥
ध्व़जनिस्त्रिंशसम्पन्नं किङ्किणीकविराजितम् ।
सदश्वयुक्तं सोमर्षादारुरोह खरो रथम् ॥ ३।२२।१६ ॥
निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः ।
तस्थुः सम्परिवार्यैनं दूषणं च महाबलम् ॥ ३।२२।१७ ॥
खरस्तु तान् महेष्वासान् घोरवर्मायुधध्वजान् ।
निर्यातेत्यब्रमीद्धृष्टो रथस्थः सर्वराक्षसान् ॥ ३।२२।१८ ॥
मङ्गलैः मङ्गलावहैः अलङ्कारकरैरित्यर्थः । काञ्चनैः काञ्चनविकारैः । इदं विशेषणद्वयं मत्स्यादिसर्वविशेषणम् । निस्रिंशः असिः ॥ ३।२२।१५१८ ॥
ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम् ।
निर्जगाम जनस्थानान्महानादं महाजवम् ॥ ३।२२।१९ ॥
तत इति । राक्षसं राक्षससम्बन्धि ॥ ३।२२।१९ ॥
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ।
खङ्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ॥ ३।२२।२० ॥
शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः ।
गदासिमुसलैर्वज्रैर्घृहीतैर्भीमदर्शनैः ॥ ३।२२।२१ ॥
राक्षसानां सुघोराणां सहस्राणि चतुर्दश ।
निर्यातानि जनस्थानात् खरचित्तानुवर्त्तिनाम् ॥ ३।२२।२२ ॥
मुद्गरः लोहमयगदा । पट्टिशः “पट्टयम्” इति द्रमिडनामयुक्त आयुधविशेषः । तोमरः “वल्लयम्” इति द्रमिडनामयुक्तः । शक्तिः “ईट्टी” इति द्रमिडनामकः । परिघः “कुण्डान्तडी” इति द्रमिडनामा । अतिमात्रैः महद्भिः वज्रैः अष्टास्रैरायुधैः ॥ ३।२२।२०२२ ॥
तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान् ।
खरस्यापि रथः किञ्चिज्जगाम तदनन्तरम् ॥ ३।२२।२३ ॥
तांस्त्विति । किञ्चिज्जगाम सेनासम्मर्दादिति भावः । खरानुज्ञाभावाद्वा ॥ ३।२२।२३ ॥
ततस्तान् शबलानश्वांस्तप्तकञ्चनबूषितान् ।
खरस्य मतिमाज्ञाय सारथिः समचोदयत् ॥ ३।२२।२४ ॥
मतिं सम्मतिम् । यात्राभिप्रायमिति यावत् । ३।२२।२४ ॥
स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः ।
शब्देनापूरयामास दिशश्च प्रदिशस्तदा ॥ ३।२२।२५ ॥
शब्देन नेमिघोषेण । प्रदिशः विदिशः ॥ ३।२२।२५ ॥
प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः ।
अचूचुदत्सारथिमुन्नदन् घनं महाबलो मेघ इवाश्म वर्षवान् ॥ ३।२२।२६ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वाविंशः सर्गः ॥ २२ ॥
महाबलः झञ्झामारुतः । “झञ्झावातो महाबलः” इति निघण्टुः । तद्वान् अर्श आद्यच् । झञ्झामारुतप्रेरित इत्यर्थः । महानिल इत्यापि पाठः, । अश्मवर्षवान् अश्मवर्षोद्युक्त इत्यर्थः । घनम् उपरितत(न)मेघम् ॥ ३।२२।२६ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥