स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः ।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ ३।२१।१ ॥
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ ३।२१।२ ॥
अथ खरप्रोत्साहनमेकविंशे स पुनरित्यादि । अनर्थार्थं सर्वराक्षसविनाशार्थम् ॥ ३।२१।१,२ ॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ।
घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर्वचो मम ॥ ३।२१।३ ॥
भक्ताः विश्वासभाजः । हिताः हितपराः । न कुर्युरिति न किन्तु कुर्युरेवेत्यर्थः ॥ ३।२१।३ ॥
किमेतच्छ्रोतुमिच्छामि कारणं युत्कृते पुनः ।
हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ॥ ३।२१।४ ॥
किमेतदिति विस्मये । यत्कृते यस्य कृते । कृत इत्यव्ययम् । यन्निमित्तं लुठसि तस्य कारणं श्रोतुमिच्छामीत्यन्वयः ॥ ३।२१।४ ॥
अनाथवद्विलपसि नाथे तु मयि संस्थिते ।
उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह ॥ ३।२१।५ ॥
विलपसीति किमिति शेषः । वैक्लव्यं कातर्यम् । इह मत्समीपे ॥ ३।२१।५ ॥
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता ।
विमृज्य नयने सास्त्रे खरं भ्रातरमब्रवीत् ॥ ३।२१।६ ॥
दुर्घर्षा दुस्साध्या ॥ ३।२१।६ ॥
अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका ।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥ ३।२१।७ ॥
प्रेषिताश्च त्वया वीर राक्षसास्ते चुतुर्धश ।
निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम् ॥ ३।२१।८ ॥
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः ।
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥ ३।२१।९ ॥
तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान् ।
रामस्य च महत् कर्म महांस्त्रासोभवन्मम ॥ ३।२१।१० ॥
खरोक्तमङ्गीकरोति अस्मीत्यादिना ॥ ३।२१।७१० ॥
अहमस्मि समुद्विग्ना विषण्णा च निशाचर ।
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥ ३।२१।११ ॥
अहमस्मीति । समुद्विग्ना भीता । विषण्णा दुःखिता । सर्वतो भयदर्शिनी सर्वत्र रामप्रतिभासवतीति भावः ॥ ३।२१।११ ॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥ ३।२१।१२ ॥
विषादनक्रेति । नक्रो ग्राहः ॥ ३।२१।१२ ॥
एते च निहता भूमौ रामेण निशितैः शरैः ।
ये ऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥ ३।२१।१३ ॥
क्रोधभीतिभ्यां पूर्वोक्तं विस्मृत्य पुनराह एते चेति ॥ ३।२१।१३ ॥
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च ।
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ॥ ३।२१।१४ ॥
अनुक्रोशो दया । शक्तिरिति तुल्येति शेषः । ३।२१।१४ ॥
यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ।
तव चैवाग्रतः प्राणांसत्यक्ष्यामि निरपत्रपा ॥ ३।२१।१५ ॥
निरपत्रपा निर्लज्जा । हृतकर्णनासात्वादिति भावः ॥ ३।२१।१५ ॥
बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ।
स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः ॥ ३।२१।१६ ॥
प्रतिमुखे अग्रे । सबलः ससैन्यः ॥ ३।२१।१६ ॥
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ।
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ॥ ३।२१।१७ ॥
रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।
दण्डकारण्यनिलयं जहि तं कुलपांसन ॥ ३।२१।१८ ॥
मिथ्येति मिथ्यावचोभिरित्यर्थः । आरोपितविक्रमः कल्पितपराक्रमः ॥ ३।२१।१७,१८ ॥
निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ।
अपयाहि जनस्थानात्त्वरितः सहबान्धवः ॥ ३।२१।१९ ॥
रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ।
स हि तेजस्समायुक्तो रामो दशरथात्मजः ॥ ३।२१।२० ॥
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥ ३।२१।२१ ॥
कीदृश इति अत्यन्तायोग्य इत्यर्थः ॥ ३।२१।१९२१ ॥
एवं विलप्य बहुशो राक्षसी विततोदरी ।
भ्रातुः समीपे दुःखार्ता नष्टसञ्ज्ञा बभूव ह ।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥ ३।२१।२२ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः ॥ २१ ॥
विततोदरी प्रहारार्थं विस्तृतोदरी । अत्र द्वाविंशतिश्लोकाः ॥ ३।२१।२२ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने
आरण्यकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥