ततः शूर्पणखा घोरा राघवाश्रममागता ।
रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ ३।२०।१ ॥
ते रामं पर्णशालायामुपविष्टं महाबलम् ।
ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ॥ ३।२०।२ ॥
तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् ।
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३।२०।३ ॥
अथ चतुर्दशराक्षसवधो विंशे ततः शूर्पणखेत्यादि ॥ ३।२०।१३ ॥
मुहुर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः ।
इमानस्या वधिष्यामि पदवीमागतानिह ॥ ३।२०।४ ॥
मुहूर्तमिति । प्रत्यनन्तरः प्रत्यासन्नः, रक्षक इति यावत् । अस्याः पदवीमागतानित्यन्वयः ॥ ३।२०।४ ॥
वाक्यमेतत्ततः श्रुत्व रामस्य विदितात्मनः ।
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥ ३।२०।५ ॥
प्रत्यपूजयत् परिपालितवान् ॥ ३।२०।५ ॥
राघवो ऽपि महञ्चापं चामीकरविभूषितम् ।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ३।२०।६ ॥
चामीकरं स्वर्णम् ॥ ३।२०।६ ॥
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥ ३।२०।७ ॥
फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ ३।२०।८ ॥
स्वस्य कपटवेषत्वं परिहरन्नाह पुत्रावित्यादि । आवां किमर्थमुपहिंसथ ॥ ३।२०।७,८ ॥
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे ।
ऋषीणां तु नियोगेन प्राप्तो ऽहं सशरायुधः ॥ ३।२०।९ ॥
प्रत्युत युष्मानेवाहं हन्तुमागत इत्याह युष्मानिति । विप्रकारान् हिंसकान् । भवतां प्रथमप्रवृत्तिमाकाङ्क्षन् स्थितो ऽस्मीत्यर्थः ॥ ३।२०।९ ॥
तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ ।
यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः ॥ ३।२०।१० ॥
अत्रैव सन्तुष्टाः अभीता इति यावत् । तिष्ठत नोपावर्तितुमर्हथेति मा पलायध्वमित्यर्थः । यदि वा प्राणैः अर्थः प्रयोजनं प्राणापेक्षास्ति चेन्निवर्तध्वमित्यर्थः ॥ ३।२०।१० ॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।
ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥ ३।२०।११ ॥
[संरक्तनयना घोरा रामं संरक्तलोचनम् ।
परुषं मधुराभाषं हृष्टा दृष्टपराक्रमम् ॥ ]
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।
त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि ॥ ३।२०।१२ ॥
ब्रह्मघ्नाः ब्राह्मणघ्नाः ॥ ३।२०।११,१२ ॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहव ॥ ३।२०।१३ ॥
शक्तिः बलम् । “शक्तिर्बले प्रभावादौ” इति विश्वः ॥ ३।२०।१३ ॥
एहि बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः ।
प्राणांस्त्यक्षङसि वीर्यं च धनुश्च करपीडितम् ॥ ३।२०।१४ ॥
परिघैः गदाभेदैः । पट्टिशैः असिभेदैः ॥ ३।२०।१४ ॥
इत्येवमुक्त्वा सङ्क्रुद्धा राक्षसास्ते चतुर्दश ।
[उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ।]
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ ३।२०।१५ ॥
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ।
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ ३।२०।१६ ॥
तानि शूलपाणय इति पूर्वमुक्तानि ॥ ३।२०।१५,१६ ॥
ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान् ।
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ॥ ३।२०।१७ ॥
नाराचान् अफलकान् बाणान् । शिलाशितान् शिलास्वपि शितान्, शिलानिर्भेदक्षमानित्यर्थः । शाणोपलसन्निघृष्टानित्यप्याहुः ॥ ३।२०।१७ ॥
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ॥ ३।२०।१८ ॥
गृहीत्वेति । लक्ष्यान् वेध्यान् । वज्रानित्यभूतोपमा ॥ ३।२०।१८ ॥
रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ।
ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः ।
विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥ ३।२०।१९ ॥
न्यमज्जन्त न्यमज्जन्त चेत्यर्थः ॥ ३।२०।१९ ॥
ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ।
निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः ॥ ३।२०।२० ॥
विकृताः विरूपाः । विगतासवः विगतप्राणाः ॥ ३।२०।२० ॥
तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्च्छिता ।
परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान् ॥ ३।२०।२१ ॥
भैरवस्वनान् भयङ्करशब्दान् ॥ ३।२०।२१ ॥
सा नदन्ती पुनर्नादं जवाच्छूर्पणखा पुनः ।
[जगाम तत्र सम्भ्रान्ता खरो यत्र महाबलः ।]
उपगम्य खरं सा तु किञ्चित्संशुष्कशोणिता ॥ ३।२०।२२ ॥
पपात पुनरेवार्ता सनिर्यासेव सल्लकी ॥ ३।२०।२३ ॥
भ्रातुः समीपे शोकार्ता ससर्ज निनदं मुहुः ।
[भूमौ शयाना दुःखार्ता लब्धसञ्ज्ञाचिरात्पुनः ।]
सस्वरं मुमुचे बाष्पं विषण्णवदना तदा ॥ ३।२०।२४ ॥
महानादं नदन्ती कुर्वन्तीत्यर्थः । निर्यासः क्षतप्रसृतवृक्षरसः । सल्लकी लताविशेषः ॥ ३।२०।२२२४ ॥
निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः ।
वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगीनी खरस्य सा ॥ ३।२०।२५ ॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः ॥ २० ॥
पुनः सर्गार्थं सङ्क्षेपेणाह निपातितानिति । दृश्य दृष्ट्वा । अस्मिन् सर्गे पञ्चविंशतिश्लोकाः ॥ ३।२०।२५ ॥
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने विंशः सर्गः ॥ २० ॥